82085: हैहेप्रयोगे हैहयोः¶
Padacheda: हैहेप्रयोगे | S | 7 | 1 |
हैहयोः | S | 6 | 2 |
Sutrartha¶
‘है’/ ‘हे’ इति शब्दस्य प्रयोगं कृत्वा दूरात् सम्बोधनं कर्तुं यत् वाक्यम् उच्चार्यते, तस्मिन् वाक्ये ‘है’ / ‘हे’ शब्दस्य एव स्वरस्य प्लुतसंज्ञा, उदात्तसंज्ञा च भवति, न अन्यस्य ।
स्वरादिगणे विद्यमाने है तथा हे एते द्वे अव्यये सामान्यरूपेण सम्बोधनार्थं प्रयुज्येते । यस्मिन् वाक्ये दूरात् सम्बोधनं कर्तुम् एतयोः किञ्चन अव्ययम् प्रयुज्यते, तत्र **दूराद्धूते च (8.2.84) इति सूत्रं बाधित्वा अस्य अव्ययस्य एव टिसंज्ञकः उदात्तः भवति** । यथा —
सक्तून् पिब हे3 देवदत्त !
हे3 देवदत्त, सक्तून पिब !
सक्तून् पिब, हे3 !
सक्तून् पिब है3 देवदत्त !
5. है3 देवदत्त, सक्तून पिब ! 6.सक्तून् पिब, है3 !
वाक्ये “हे” उत “है” इति शब्दः कुत्रापि विद्यते चेत् तस्य एव स्वरः प्लुतः भवति, अन्यस्य शब्दस्य स्वरः प्लुतः न भवति, इति अस्य सूत्रस्य आशयः वर्तते । तदर्थमेव ‘हैहयोः’ इति शब्दस्य विशेषरूपेण सूत्रे ग्रहणं कृतम् अस्ति ।
Sutrartha (English)¶
If the words हे / है are used in a sentence that is used for calling someone from a distance, then the स्वर of the only हे / है becomes प्लुत and उदात्त.
Vasu English Summary¶
When the words है and हे are used in addressing a person from a distance, there the है and हे alone get the प्लुत and the accent.
Vasu English Translation¶
When the words है and हे are used in addressing a person from a distance, there the है and हे alone get the प्लुत and the accent. As है ३ देवदत्त, देवदत्त है ३ ॥ हे ३ देवदत्त, देवदत्त हे ३ ॥
The repetition of the words है and हे in the sutra, is for the sake of indicating, that the prolation takes place even when है and हे do not stand at the end of a sentence.
Bhashya¶
हैहेप्रयोगे हैहयोः हैहेग्रहणं किमर्थम्?॥ हैहेप्रयोगे हैहेग्रहणं हैहयोः प्लुत्यर्थम्॥ हैहेप्रयोगे हैहेग्रहणं क्रियते॥ किमर्थम्?॥ झ्र्ठहैहयोः प्लुत्यर्थम्(1)ट। हैहयोः प्लुतिर्यथा स्यात्। देवदत्त है3 देवदत्त(2) हे3। अक्रियमाणे हि हैहेग्रहणे तयोः प्रयोगेऽन्यस्य स्यात्॥ अथ प्रयोगग्रहणं किमर्थम्?॥ प्रयोगग्रहणमर्थवद्ग्रहणेऽनर्थकार्थम्॥ प्रयोगग्रहणं क्रियते। झ्र्किं प्रयोजनम्(1)? ॥ अर्थवद्ग्रहणेऽनर्थकार्थम्।ट अर्थवद्ग्रहणेऽनर्थकयोरपि यथा स्यात्। देवदत्त है3। देवदत्त हे3॥ अथ पुनर्हैहेग्रहणं किमर्थम्?॥ पुनर्हैहेग्रहणमनन्त्यार्थम्॥ झ्र्पुनर्हैहेग्रहणं(1) क्रियते॥ किं प्रयोजनम्?॥ अनन्त्यार्थम्ट। अनन्त्ययोरपि यथा स्यात्। है3 देवदत्त हे3 देवदत्तेति॥ (हैहेप्रयोगे)
Kashika¶
हैहेप्रयोगे दूराद्धूते यद् वाक्यं वर्तते तत्र हैहयोरेव प्लुतो भवति। है३ देवदत्त। हे३ देवदत्त। देवदत्त है३। देवदत्त हे३। पुनर्हैहयोर्ग्रहणम् अनन्त्ययोरपि यथा स्यात्॥
Siddhanta Kaumudi¶
एतयोः प्रयोगे दूराद्धूते यद्वाक्यं तत्र हैहयोरेव प्लुतः स्यात् । हे3 राम । राम है3 ॥
Balamanorama¶
हैहेप्रयोगे हैहयोः - हैहेप्रयोगे । है हे इत्यव्यये सम्बोधनद्योतके । तयोः प्रयोगे हैहयोः प्लुतः स्यादित्यर्थः । पूर्वसूत्रेण गुरोरनृत इत्यनेन च सिद्धे किमर्थमिदमित्याशङ्क्य नियमार्थमिति व्याचष्टे — हैहयोरेवेति । हैहयोरेवेति नियमार्थमिति बावः । पाहि है३ राम, पाहि हे३ रामेत्यत्र हैहयोरेव प्लुतो न तु गुररोनृत इत्यन्त्यस्यापीत्येतद्धैहयोरित्यनेन लभ्यत इति यावत् । प्रयोगग्रहणाभावे वाक्यस्य टेरित्यधिकाराद्राम है३ राम हे३ इत्यत्रैव स्यादतःप्रयोग॑ग्रहणम् । ततश्चाऽनन्त्ययोरपि तयोः प्लुतो भवति ।
Padamanjari¶
पूर्वेण हूयमानार्थस्य वाक्यान्तस्य पदस्य टेः प्लुतविधानादतदर्थयोहुहयोर्न प्राप्नोतीति वचनम् । हैहयोरेवेति । एवकारः पौनर्वचनिकः - हैहयोः प्रयोगे तयोरेव हैहयोरिति । अन्ये तु - हैहयोरेव भवति, न न हूयमानार्थस्य वाक्यस्य टेरिति वर्णयन्ति । तदेतत्कथं लभ्यते ? अपकृष्य विधानात् । हूयमानार्थस्य प्लुते प्राप्ते अतदर्थयोरेव तयोविधीयमानः प्लुतस्तं बाधते;सत्यपि सम्भवे बाधनं भवतीति न्यायात् । न चास्यासिद्धत्वाम्; अपवादो वचनप्रामाण्यादित्युक्तत्वात् । है3 इति ।’प्लुतावैच इदुतौ’ इति वचनादिकारभागः प्लुतः । हे3 इति । ठेचोऽप्रगृह्यस्यऽ इत्यनेन प्लुतविकारो न भवति; दूराद्धूतत्वात् । हैहयोरिति किमर्थम् ? हैहयोः प्लुतो यथा स्यात्, अन्यथाऽऽरम्भसामर्थ्यादनन्त्यस्य हूयमानवाचिन एव स्यात् - देवदत है इत्यादौ । एवं तर्हि हैहयोरित्येवास्तु, किं’हैहेप्रयोगे’ इत्यनेन, न ह्यप्रयुज्यमानयोः प्लुतविधिः सम्भवति ? उच्यते;’प्रयोगे’ इति तावद्वक्तव्यम्, प्रयोगमात्र यथा स्यात् । किं सिद्धं भवति ? अनर्थकयोरपि ग्रहणं सिद्धं भवति । क्व च तावनर्थकौ ? यत्र सम्बोधनवचनं प्राक् प्रयुज्यते, तत्र तेनैवाभिमुख्यस्य द्योतितत्वान्न हैहयोर्द्योत्यमस्तीत्यानर्थक्यम् । यत्र तु हैहयोः प्राक् प्रयोगः, तत्रानयोराभिमुख्यं द्योत्यमित्यर्थवत्वम् । एवमपि प्रयोगे हैहयोरित्येवास्तु, हैहयोः प्लुतो भवति प्रयोगे, कस्य ? हैहयोरेवेति श्रुतत्वात्, तस्मात्पुनहुहेग्रहणस्य प्रयोजनं वक्तव्यम् ? तदाह - पुनरिति । यदि तु प्रयोगग्रहणादेवानर्थकयोरिवानन्त्ययोरपि भविष्यतीत्युच्यते; शक्यं पुनहुहेग्रहणमकर्तुम् ॥
Nyaas¶
पूर्वसूत्रेण प्राधान्याद्? हूयमानस्यैव प्लुतो विहितः। प्राधान्यं तु तस्य तदभिमुखीकरणाय वाक्यप्रयोगात्। अतो हैहयोर्न प्राप्नोति, एतदर्थोऽयमारम्भः। अथ पुनर्हैहयोग्र्रहणं किमर्थम्, यावता विनापि तेन श्रुतत्वात्? तयोरेव भविष्यति? इत्याह -पुनः [पुनस्त्वित्यादि -कांउ।पाठः] इत्यादि। हैहेप्रयोगे इत्युच्यमाने वाक्यस्य टेः प्लुत उदात्तः (8.2.82) इत्यधिकारादन्त्ययोरेव स्यात्, नानन्त्ययोः; तयोरपि यता स्यादित्येवमर्थं पुनर्हैहेग्रहणम्, हैहेग्रहणे प्रयोगग्रहणं चानर्थकयोरपि यथा स्यात्। तदा चैतावनर्थको यदाऽऽमन्त्रितान्तम्। तेनैवामन्त्रितार्थस्यावगमितत्वादर्थान्तस्य द्योत्यस्याभावात्? तावनर्थकौ भवतः। अन्ये त्वाहुः -निपातसमाहारावपि तौ स्तो हन्त हैह इति। तत्रासति प्रयोगग्रहणे तयोर्न स्यात्; लाक्षणिकत्वात्। तस्मात्? प्रयोगमात्रे लाक्षणिकयोरपि यथा स्यादित्येवमर्थं प्रयोगग्रहणमिति॥
Prakriyasarvasvam¶
दूराद्धूते हैंहेशब्दयोः प्रयोगे तयोरेव प्लुतः स्यात् ।