82096: अङ्गयुक्तं तिङ् आकाङ्क्षम्¶
Padacheda: अङ्गयुक्तम् | S | 1 | 1 |
तिङ् | S | 1 | 1 |
आकाङ्क्षम् | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
The final syllable of a finite verb used as a threat becomes प्लुत when the word अङ्ग is joined with it and it demands another sentence to complete the conclusion.
Vasu English Translation¶
The final syllable of a finite verb used as a threat becomes प्लुत when the word अङ्ग is joined with it and it demands another sentence to complete the conclusion. Thus अङ्ग कूजा꣡ ३ इदानीं ज्ञास्यसि जाल्म ॥ अङ्ग व्याहरा꣡ ३, इदानीं ज्ञास्यसि जाल्म ॥
Why do we say ‘a verb’? Observe अङ्ग देवदत्त मिथ्या वदसि ॥
Why do we say “when this calls for a conclusion”? Observe अङ्ग पच ॥ Here it is a complete sentence and does not demand another to complete the sense.
The word भर्त्सने of the last sutra is understood here also. Therefore not here, अङ्ग अधीष्व, ओदनं ते दास्यामि ॥ Here अङ्ग has the force of solicitation. (8.1.33).
Kashika¶
अङ्ग इत्यनेन युक्तं तिङन्तमाकाङ्क्षं भर्त्सने प्लवते। अङ्ग कू॒ज३, अङ्ग व्या॒ह॒र३ इदानीं ज्ञास्यसि जाल्म। तिङिति किम् ? अङ्ग देवदत्त, मिथ्या वदसि। आकाङ्क्षमिति किम्? अङ्ग पच। नैतदपरमाकाङ्क्षति। भर्त्सन इत्येव — अङ्गाधीष्व, ओदनं ते दास्यामि॥
Siddhanta Kaumudi¶
अङ्गेत्यनेन युक्तं तिङन्तं प्लवते । अङ्ग कूज3 इदानीं ज्ञास्यसिजाल्म । तिङ् किम् । अङ्ग देवदत्त मिथ्या वदसि । आकाङ्क्षं किम् । अङ्ग पच । नैतदपरमाकाङ्क्षति । भर्त्सन इत्येव । अङ्गाधीष्व भक्तं तव दास्यामि ॥
Padamanjari¶
आकाङ्क्षतीत्याकाङ्क्षम्, पचाद्यच् । इदानीं ज्ञास्यसि जाल्मेत्येष द्वयोरप्युदाहरणयोः शेषः । कूजनफलं व्याहारफलं वास्मिन्नेव क्षणे ज्ञास्यसीत्यर्थः । अङ्गशब्दोऽमर्षे, प्रत्युदाहरणे त्वनुनये । अङ्ग देवदतेत्येतावदेकं वाक्यम् । एतच्व वाक्यं मिथ्या वदसीत्येतदपेक्षते ॥
Nyaas¶
आकाङ्क्षम् इति। आकाङ्क्षति अपेक्षत इत्याकाङ्क्षम्, पचाद्यच्। अङ्ग कूज3 इत्यादि। अङ्गकूज 3, अङ्ग व्याहर 3 -इत्येतदुभयमपि इदानीं ज्ञास्यति जाल्म इत्येतदपेक्षते। अङ्ग देवदत्त इत्येतदपि मिध्या वदसि इत्येतत्। अधीष्व इत्येतदपि ओदनं ते दास्यामि इत्येतत्। नैतदपरमाकाङ्क्षति इति। विवक्षितार्थस्य परिसमाप्तत्वात्। अथ युक्तग्रहणं किमर्थम्, यावता पदविधित्वादेव योगो विज्ञास्यते। एवं तर्हि युक्तग्रहणं कुर्दन्नेतज्ज्ञापयति -समर्थः पदविधिः (2.1.1) इत्येषा परिभाषाऽनित्या। तेनाऽसूर्यम्पश्यानि मुखानीति नञोऽसत्यपि सूर्यशबह्देन सामर्थ्ये समासः सिद्धो भवति॥
Prakriyasarvasvam¶
अङ्गशब्दयुक्तं वाक्यान्तराकाङ्क्षं तिङन्तं भर्त्सने प्लवते । अङ्ग प्रलप³ ३ इदानीं ज्ञास्यसि ।