82091: ब्रूहिप्रेष्यश्रौषड्वौषडावहानामादेः

Padacheda: ब्रूहिप्रेस्यश्रौषड्वौषडावहानाम् | S | 6 | 3 |

आदेः | S | 6 | 1 |

Sutrartha


Vasu English Summary

In a sacrificial work, the first syllable of 1. ब्रूहि 2. प्रेष्य 3. श्रौषट् and 4.आवह is प्लुत।

Vasu English Translation

In a sacrificial work, the first syllable of 1. ब्रूहि 2. प्रेष्य 3. श्रौषट् and 4.आवह is प्लुत। Thus अग्नयेऽनुब्रू꣡३हि (Maitr Samhita I.4. II), अग्नये गोमयानि (or म्) प्रे꣡ ३ष्य, अस्तु श्रौ꣡ ३षट्; सोमस्याग्ने वीही ३ वौ꣡ ३षट्, अग्निमा꣡ ३वह ॥

So also in पित्र्यायामनुस्व३धाon the analogy of ब्रूहि, so also अस्तुस्व३धा ॥ The word वौषट् is illustrative of the six forms वषट्, वौषट्, वौक्षट्, वाक्षट्, वामद, वक्षाट् ॥

But there is no prolation in आवह देवान् यजमानाय; आवह जात वेदः ॥

Kashika

ब्रूहि प्रेष्य श्रौषट् वौषट् आवह इत्येतेषामादेः प्लुतो भवति यज्ञकर्मणि। अग्नये॒ऽनुब्रू३हि॒ (श०ब्रा० २.५.३.१२)। प्रेष्य — अग्नये गोमयान् प्रे३ष्य॑। श्रौषट् — अस्तु॒ श्रौ३ष॒ट् (तै०सं० १.६.११.१)। वौषट् — सोमस्याग्ने वीही३वौ३ष॑ट् (ऐ०ब्रा० ३.५,६)। आवह — अ॒ग्निमा३व॑ह (तै०ब्रा० ३.५.३.२)। आव॑ह दे॒वान् यज॑मानाय (तै०ब्रा० ३.५.३.२) इत्येवमादावयं प्लुतो न भवति। सर्वे विधयश्छन्दसि विकल्प्यन्ते इति॥

Siddhanta Kaumudi

एषामादेः प्लुतो यज्ञकर्मणि । अग्नयेनुब्रू3हि । अग्नये गोमयानि प्रे3ष्य । अस्तु श्रौ3षट् । सोमस्याग्ने वीही वौ3षट् । अग्निमा3वह ॥

Padamanjari

पित्र्यायामनुस्वधेति सम्प्रेष्येत्यत्रापि अनुस्व3धेति प्लुतो भवति; ब्रूहिस्थानापन्नत्वात्स्वधाशब्दस्य । तथा अस्तु स्वधेति प्रत्याश्रवणमित्यत्रापि भवति; अस्तु स्वधेति श्रौषट्स्थानापन्नत्वात् । तथा च वषडित्येके समामनन्ति, वौषडित्येके, वाषडित्येके, वौक्षडित्येके, वाक्षडित्यके, वक्षाडित्येके इति षड्विधस्यापि वषट्कारस्य प्लुतो भवति; वषटकारोपलक्षणत्वाद्वौषट्शब्दस्य । आवह देवान् यजमानायेत्येवमादिष्विति । आदिशब्देन -आवह जातवेदः, सुयजा यजेत्यादेग्रेहणम् ॥

Nyaas

श्रौषट्, वौषडिति निपातौ; इतराणि लोण्मध्यमपुरुषैकवचनानि। केचित्तु आवहशब्दोऽपि निपात इत्याहुः। प्रेष्य इति। ईषु गतौ [दिवादिषु इष गतौ इत्येव पठते] (धातुपाठः-1127), दिवादित्वाच्छ्यन्, उपसर्गाकारेण सह आद्गुणः (6.1.87) । अथेह कस्मान्न भवति -आवह देवान्? यजमानाय (वा।सं।5।12), आवह जातवेदः (आ।श्रौ।सू।1.3.22), सुयजा यज? इत्याह -आवह देवान् इत्यादि। आदिग्रहणं वाक्यादेर्मा भूदिति॥

Prakriyasarvasvam

यज्ञे एषामादेरचः प्लुतः स्यात् । अग्नयेऽनुब्रू ३ हि । अग्नये प्रै ३ ष्य । अस्तु श्रौ ३ षट् । जिह्वामग्ने चकृषे हव्यवाहां ३ वौ ३ षट् । जिह्वामग्ने चकृषे हव्यवाहां ३ वौषट् । वौषट् शब्दस्योपलक्षणत्वाद् वषट् शब्दमते तस्यापि स्यात् । अग्निमा ३ वह । आवह देवानित्यादौ छन्दसि सर्वस्य विकल्पितत्वान्न प्लुतः ।