82088: ये यज्ञकर्मणि¶
Padacheda: ये | S | | | 6
यज्ञकर्मणि | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
The vowel of ये becomes प्लुत in a sacred text when it is used in a sacrificial work.
Vasu English Translation¶
The vowel of ये becomes प्लुत in a sacred text when it is used in a sacrificial work. Thus ये३यजामहे ॥ Why do we say when employed in sacrificial work? Observe ये यजामह इति पञ्चाक्षरम् “Ye yajamahe consists of five syllables”. Here it is simple recitation.
Ishti:- The word ये is pluta before यजामहे only. Therefore not so here: ये देवा॑सो दि॒व्येकाद॑शस्थ (Rig. I.139.11).
Bhashya¶
ये यज्ञकर्मणि ॥ ये यज्ञकर्मणीत्यतिप्रसङ्गः॥ ये यज्ञकर्मणीत्यतिप्रसङ्गो भवति। इहापि प्राप्नोति-ये देवासो दिव्येकादशस्थेति॥ सिद्धं तु ये यजामह इति ब्रूह्यादिषूपसङ्ख्यानात्॥ सिद्धमेतत्॥ कथम्?॥ झ्र्ठये यजा(3) मह इति ब्रूह्यादिषूपसङ्ख्यानात्ट। ये यजामहेशब्दो(4) ब्रूह्यादिषूपसङ्ख्येयः।
Kashika¶
ये इत्येतस्य यज्ञकर्मणि प्लुतो भवति। ये३ यजामहे। यज्ञकर्मणीति किम्? ये यजा॑मह॒ इति॒ पञ्चा॑क्षरम् (तै०सं० १.६.११.१) इति स्वाध्यायकाले मा भूत्। ये यजामह इत्यत्रैवायं प्लुत इष्यते। इह हि न भवति — ये दे॑वासो दि॒व्येका॑दश॒ स्थ (ऋ०१.१३९.११) इति॥
Siddhanta Kaumudi¶
ये3यजामहे । यज्ञेति किम् । ये यजामहे ॥
Padamanjari¶
ये यजामह इत्यत्रैवायं प्लुत इष्यते इति । पित्र्यायां ये स्वधेत्यत्रापि भवति; एतत्स्थानापन्नत्वातस्य ॥
Nyaas¶
येज्ञकर्मणि इति। कर्मशब्दः क्रियावाची। यज्ञक्रियायामित्यर्थः। ये3 यजामहे इत्यत्रैवायं प्लुत इष्यत इत्येतच्च प्राचाम् इत्यस्यानुवृत्तेः, व्यवस्थितविभाषाविज्ञानाच्च लभ्यत इति वेदितव्यम्॥
Prakriyasarvasvam¶
ये यजामहे इत्यादौ ये इत्यस्य यज्ञकर्मणि प्लुतः स्यात् । ये ३ यजामहे ।