82090: याज्याऽन्तः

Padacheda: याज्याऽन्तः | S | 1 | 1 |

Sutrartha


Vasu English Summary

The last vowel at the end of मन्त्र-s called याज्य , when used in sacrificial works is प्लुत and has the acute accent (उदात्त).

Vasu English Translation

The last vowel at the end of मन्त्र-s called याज्य , when used in sacrificial works is प्लुत and has the acute accent (उदात्त). Thus स्तोमैर्विधेमाग्नये३ (Rig. VIII.43. II), जिह्वामग्ने चकृषे हव्यवाहा३म् (Rig. X. 8.6).

Why do we say ‘at the end’? There are some Yajya hymns, consisting of several sentences. The final vowel (टि) of every sentence would have become pluta, in such a hymn. To prevent it, the word “anta” is used, so that the final vowel of the hymn at the end of all, becomes pluta.

Bhashya

याज्याऽन्तः अन्तग्रहणं किमर्थम्?॥ याज्या नामर्चो वाक्यसमुदायस्तत्र यावन्ति वाक्यानि सर्वेषां टेः प्लुतः प्राप्नोति, इष्यते चाऽन्त्यस्य स्यादिति। तच्चान्तरेण यत्नं न सिध्यतीत्येवमर्थमन्तग्रहणम्॥ झ्र्याज्याऽन्तःट।

Kashika

याज्या नाम ये याज्याकाण्डे पठ्यन्ते मन्त्रास्तेषामन्त्यो यष्टिः स प्लवते, यज्ञकर्मणि। स्तोम॑ैर्विधेमा॒ग्नये॑३ (ऋ० ८.४३.११)। जि॒ह्वाम॑ग्ने चकृषे हव्य॒वाह॑३म् (तै०सं० ४.४.४.१)। अन्तग्रहणं किम्? याज्या नाम ऋचः काश्चिद् वाक्यसमुदायरूपाः, तत्र यावन्ति वाक्यानि तेषां सर्वेषां टेः प्लुतः प्राप्नोति। सर्वान्त्यस्यैवेष्यते, तदर्थमन्तग्रहणम्॥

Siddhanta Kaumudi

ये याज्या मन्त्रास्तेषामन्त्यस्य टे प्लुतो यज्ञकर्मणि । जिह्वामगग्ने चकृषे हव्यवाहा3म् (जि॒ह्वाम॑ग्ने चकृषे हव्यवाहा3म्) । अन्तः किम् । याज्यानामृचां वाक्यसमुदाय रूपाणां प्रतिवाक्यं टेः स्यात् । सर्वान्त्यस्य चेत्यते ॥

Padamanjari

याज्याकाण्ड इति । याज्यानुवाक्याकाण्डमिति समाख्याने प्रकरणे । तेषामिति । मन्त्राणाम् । तासामिति पाठे तासां याज्यानामन्तः । प्लवत इति । त्रिमात्रतया वर्धत इत्यर्थः । अग्नये3 इति । चतुर्थ्येकवचनान्तस्याग्नयेशब्दस्य ठेचोऽप्रगृह्यस्यऽ इति प्लुतविकारः । इहेदमन्तग्रहणं टेरित्यस्य निवर्तकं वा स्याद्, विशेषणं वा; पूर्वस्मिन् कल्पे प्लुतश्रुत्याच्परिभाषोपस्थानादचान्ते विशेषेतेऽजन्ताया एव याज्यायाः प्लुतः स्यात् । पक्षान्तरे त्वन्तग्रहणमनर्थकम्; टेरन्तत्वाव्यभिचारादित्यभिप्रायेणाह - अन्तग्रहणं किमिति । इतरोऽपि विदिताभिप्राय आह - याज्या नामेति ॥

Nyaas

इहान्तग्रहणं टेरित्येतस्य निवर्तकं वा स्यात्? विशेषणं वा? पूर्वस्मिन्? पक्षेऽचान्ते विशेषितेऽजन्ताया एव याज्याया प्लुतः स्यात्। इतरस्मस्त्वन्तग्रहणमनर्थकम्, न ह्रनन्त्यष्टिः सम्भवति; अचोऽन्त्यादि टि (1.1.64) इत्यस्यैव टिशब्दरूपविशषसंज्ञाविधानादित्यभिप्रायेणाह -अन्तग्रहणं किम् इति। इतरोऽपि विदिताभिप्रायोऽन्यदेवान्तग्रहणस्य प्रयोजनं दर्शयितुमाह -याज्या नाम इत्यादि। गतार्थम्॥

Prakriyasarvasvam

याज्यानामन्तष्टिः प्लवते । जिह्वामग्ने चक्रृषे हव्यवाहां ३ वौ । अन्तग्रहणं मृङ्मध्यवाक्यान्त्यस्याभावार्थः ।