Sutras 21 - 40¶
- 72021: प्रभौ परिवृढः
- 72022: कृच्छ्रगहनयोः कषः
- 72023: घुषिरविशब्दने
- 72024: अर्देः संनिविभ्यः
- 72025: अभेश्चाविदूर्ये
- 72026: णेरध्ययने वृत्तम्
- 72027: वा दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्ताः
- 72028: रुष्यमत्वरसंघुषास्वनाम्
- 72029: हृषेर्लोमसु
- 72030: अपचितश्च
- 72031: ह्रु ह्वरेश्छन्दसि
- 72032: अपरिह्वृताश्च
- 72033: सोमे ह्वरितः
- 72034: ग्रसितस्कभितस्तभितोत्तभितचत्तविकस्ताविशस्तृशंस्तृशास्तृतरुतृतरूतृवरुतृवरूतृवरूत्रीरुज्ज्वलितिक्षरितिक्षमितिवमित्यमितीति च
- 72035: आर्धधातुकस्येड् वलादेः
- 72036: स्नुक्रमोरनात्मनेपदनिमित्ते
- 72037: ग्रहोऽलिटि दीर्घः
- 72038: वॄतो वा
- 72039: न लिङि
- 72040: सिचि च परस्मैपदेषु