72035: आर्धधातुकस्येड् वलादेः

Padacheda: आर्धधातुकस्य | S | 6 | 1 |

इट् | S | 1 | 1 |

वलादेः | S | 6 | 1 |

Sutrartha

वलादि-आर्धधातुक-प्रत्ययस्य इट्-आगमः भवति ।

यस्य आर्धधातुकप्रत्ययस्य प्रथमवर्णः यकारम् विहाय अन्यत् व्यञ्जनमस्ति, तस्य आर्धधातुकप्रत्ययस्य इट्-आगमः भवति । यथा - 1. [तकारादिप्रत्ययः] अर्च् + तृच् → अर्चिता । 2. [सकारादिप्रत्ययः] लिख् + स्य + तिप् → लेखिष्यति । 3. [थकारादिप्रत्ययः] चल्-धातोः लिट्-लकारस्य मध्यमपुरुषैकवचनम् - चल् + थल् → चेलिथ । 4. [वकारादिप्रत्ययः] पच्-धातोः लिट्-लकारस्य उत्तमपुरुषद्विवचनम् - पच् + व → पेचिव । 5. [मकारादिप्रत्ययः] हस्-धातोः लिट्-लकारस्य उत्तमपुरुषबहुवचनम् - हस् + म = जहसिम । 6. [धकारादिप्रत्ययः] स्पर्ध्-धातोः लिट्-लकारस्य मध्यमपुरुषबहुवचनम् - स्पर्ध् + ध्वे - पस्पर्धिध्वे । ज्ञातव्यम् - 1. आर्धधातुकं शेषः (3.4.114) इत्यनेन धातुभ्यः विहिताः तिङ्भिन्नाः शित्-भिन्नाः च प्रत्ययाः ‘आर्धधातुक’संज्ञकाः भवन्ति । 2. आर्धधातुकप्रत्यये इत्-वर्णाः सन्ति चेत् तेषां लोपं कृत्वा अनन्तरमेव ‘प्रथमः वर्णः कः’ इति निश्चेतव्यम् । यथा, ‘ण्यत्’ अस्य प्रथमः वर्णः यकारः अस्ति, यतः णकारस्य चुटू (1.3.7) इत्यनेन इत्संज्ञा लोपश्च भवति । 3. यदि प्रत्ययस्य कश्चन आदेशः उक्तः अस्ति, तर्हि प्रथमं तमादेशं कृत्वा अनन्तरमेव तस्य आदेशस्य आदिवर्णः द्रष्टव्यः । यथा, यद्यपि ‘ण्वुल्’ प्रत्ययः वकारादिः अस्ति, तथापि अस्य प्रत्ययस्य युवोरनाकौ (7.1.1) इत्यनेन अक-आदेशः भवति, यः अजादिः अस्ति । अतः ण्वुल्-प्रत्ययः अजादिः एव ज्ञातव्यः । 4. ये धातवः औपदेशिक-अवस्थायाम् एकाचः सन्ति, येषां स्वरः च अनुदात्तसंज्ञकः अस्ति, तेषां विषये अनेन सूत्रेण इडागमे प्राप्ते एकाच उपदेशेऽनुदात्तात् (7.2.10) इत्यनेन सः निषिध्यते । अतः एतेषां विषये वलादि-आर्धधातुके प्रत्यये परे अपि इडागमः न भवति । एते धातवः एव सामान्यभाषायाम् ‘अनिट्’ धातवः नाम्ना ज्ञायन्ते । 5. अस्य सूत्रस्य प्रसक्तिः आर्धधातुकप्रत्यये परे एव अस्ति, सार्वधातुके प्रत्यये परे न ।

Sutrartha (English)

An आर्धधातुक-प्रत्यय that starts with a वल् letter gets an इट् आगम.

Vasu English Summary

An आर्धधातुक affix – आर्द्धधातुकं शेषः (3.4.114) etc., beginning with a consonant (except य) gets the augment इट् (in these rules).

Vasu English Translation

An आर्धधातुक affix – आर्द्धधातुकं शेषः (3.4.114) etc., beginning with a consonant (except य) gets the augment इट् (in these rules). Thus लविता, लवितुम्, लवितव्यम्, पविता, पवितुम्, पवितव्यम् ॥ Why ‘ardhadhatuka’? Observe आस्ते, वस्ते ॥ The niyama rule of (7.2.76) ordaining इट् augment to sarvadhatuka affixes of Rudadi verbs, would prevent इट् augment before sarvadhatuka affixes when coming after other roots. The employment of ardhadhatuka here can be dispensed with. Why before affixes beginning with a वल्-consonant? Observe लव्यम्, पव्यम्, लवनीयम्, पवनीयम् ॥ Though the anuvritti of इट् was understood here, its repetition is for the sake of preventing the prohibition of the foregoing sutras like (7.2.8).

Bhashya

आर्धधातुकस्येड्वलादेः आर्धधातुकग्रहणं किमर्थम् ? ॥ वलादिग्रहणमार्धधातुकविशेषणं(4) यथा विज्ञायेत - वलादेरार्धधातुकस्येति ॥ अथाऽक्रियमाणे आर्धधातुकग्रहणे कस्य वलादिग्रहणं विशेषणं स्यात् ? ॥ अङ्गस्येति वर्ततेऽङ्गविशेषणम् ॥ तत्र को दोषः ? ॥ अङ्गस्य वलादेरादित इट्प्रसज्येत - अडाड्वत् । तद्यथा - अडाटावङ्गस्यादितो भवतस्तद्वत् ॥ क्रियमाणेऽप्यार्धधातुकग्रहणेऽनिष्टं शक्यं(5) विज्ञातुं - वलादेरार्धधातुकस्य यदङ्गमिति । अक्रियमाणे चेष्टम् - अङ्गस्य योवलादिरिति ॥ किं चाङ्गस्य वलादिः ? ॥ निमित्तं, - यस्मिन्नङ्गमित्येतद्भवति ॥ कस्मिन्नङ्गमित्येतद्भवति ? ॥ प्रत्यये ॥ यावता क्रियमाणेऽपि चाऽनिष्टं विज्ञायते, अक्रियमाणे चेष्टं. तत्राऽक्रियमाणे एवेष्टं विज्ञास्यामः ॥ इदं तर्हि प्रयोजनम् - ःइह मा भूत् - आस्ते शेते ॥ एतदपि नास्ति प्रयोजनं - रुदादिभ्यः सार्वधातुक इत्येतन्नियमार्थं भविष्यति - रुदादिभ्य एव सार्वधातुक इड्भवति नान्येभ्य इति ॥ एवमपि वृक्षत्वं वृक्षता - अत्र प्राप्नोति ॥ एवं तर्हि विहितविशेषणं धातुग्रहणं - धातोर्यो विहितः ॥ ननु च(3) धातोरेवाऽयं विहितः ॥ न चायं धातोरित्येवं विहितः ॥ क्व पुनर्धातुग्रहणं प्रकृतम् ? ॥ ऋत इद्धातोरिति ॥ तद्वै षष्ठीनिर्दिष्टं पञ्ञ्चमीनिर्दिष्टेन चेह विहितः(4) शक्यते विशेषयितुम् ॥ अथेदानीं षष्ठीनिर्दिष्टेनचापि विहितः(4)शक्यते विशेषयितुम् । शक्यमार्धधातुकग्रहणमकर्तुमिति ॥

Kashika

छन्दसीति निवृत्तम्। आर्धधातुकस्य वलादेरिडागमो भवति। लविता। लवितुम्। लवितव्यम्। पविता। पवितुम्। पवितव्यम्। आर्धधातुकस्येति किम्? आस्ते। शेते। वस्ते। रुदादिभ्यः सार्वधातके (७.२.७६) इत्येतस्मिन् नियमार्थे विज्ञायमाने प्रतिपत्तिगौरवं भवतीति आर्धधातुक्रहणं क्रियते। वलादेरिति किम्? लव्यम्। पव्यम्। लवनीयम्। पवनीयम्। इडिति वर्तमाने पुनरिड्ग्रहणं प्रतिषेधनिवृत्त्यर्थम्॥

Siddhanta Kaumudi

वलादेरार्धधातुकस्येडागमः स्यात् । बभूविथ । बभूवथुः । बभूव । बभूव । बभूविव । बभूविम ॥

Laghu Siddhanta Kaumudi

वलादेरार्धधातुरस्येडागमः स्यात्। बभूविथ। बभूवथुः। बभूव। बभूव। बभूविव। बभूविम॥

Balamanorama

आर्धधातुकस्येड् वलादेः - सिपस्थलि बभू थ इति स्थिते — आर्धधातुस्येट् ।नेड्वशि कृती॑त्यस्मादनुवृत्त्यैव सिद्धेरिहेड्ग्रहणं न कार्यमितिनेड्वशी॑ति सूत्रभाष्ये प्रत्याख्यातम् । आर्धधातुकस्येति किम् । जुगुप्सति । अत्र ‘गुप्तिज्किद्भ्य’ इति सनो धातोरित्यधिकृत्य विहितत्वाऽभावान्नार्धधातुकत्वम् । बभूविथेति । सिपस्थलि तस्य इडागमे वुगादि पूर्ववत् । बभूवथुरिति । थसोऽथुसादेशे वुगादि पूर्ववत् । सकारस्य रुत्वविसर्गौ । बभूवेति । मध्यमपुरुषबहुवचनस्य अकारः सर्वादेश इतिपरस्मैपदानां णलतु॑सित्यत्रोक्तम् । वुगादि पूर्ववत् । बभूवेति । मिपो णलि वुगादि पूर्ववत् । बभूविवेति । वसो वादेशे वलादित्वादिडागमे वुगादि पूर्ववत् । नचात्रश्र्युकः किती॑तीडागमनिषेधः शङ्क्यः,कृसृभृवृस्तुद्रुरुआउश्रुवो लिटी॑ति क्रादिनियमादिटसिद्धेः । बभूविमेति । मसो मादेशे इडागमे वुगादि पूर्ववत् । इति लिट्प्रक्रिया ।

Tattvabodhini

आर्धधातुकस्येड् वलादेः - ॒नेड्वशि कृती॑त्यत इडित्यनुवर्तमाने पुनरिड्ग्रहणं निषेधसंबद्धस्येटो निवृत्त्यर्थम् । वस्तुतस्तुसमर्थानां प्रथमाद्वे॑त्यनुवृत्तस्य पदत्रयस्य् मध्येप्राग्दिश् इत्यनन्तरंसमर्थानां प्रथमा॑दिति निवृत्तं,वे॑तित्वनुवर्तत इति व्याख्यानमिवनेति निवृत्तम्, इडित्यनुवर्तते॑ इति व्याख्यातुं शक्यत्वादिड्ग्रहणं त्युक्तं शक्यम्, तथापि स्पष्टप्रतिपत्त्यर्थं तत्स्वीकृतमिति बोध्यम् । आर्धधातुकस्येति किम् । आस्ते, शेते । वलादेः किम् । एधनीयम् । ननुरुदादिभ्यः सार्वधातुके॑ इत्यनेन सार्वधातुकस्य यदीड्भवति तर्हि रुदादिभ्य एवे॑ति नियमादास्ते शेत इत्यत्र इड्न भवेदित्याद्र्धधातुकस्येति ग्रहणं व्यर्थम् । न च रुदादिभ्यः सार्वधातुक एवेति विपरीतनियमाद्रोदितेत्यत्र न स्यात्, आस्ते शेत इत्यत्र तु स्यादिति शङ्क्यम् ।रुदविदमुषग्रहिस्वपिप्रच्छः संश्चे॑ति क्त्वाप्रत्यये औपदेशिककित्त्वस्य सुस्थत्वात् ।हलन्तञ्चे॑ति झलादिसनः कित्त्वाच्च । तस्माद्विपरीतनियमाऽसंभवेनाद्र्धदातुकग्रहणं व्यर्थमेव । ननु तद्ग्रहणाऽभावे वलादेरित्यस्य — अङ्गस्येति यदधिकृतं तद्विशेष्यं स्यात्, ततश्च अडाटाविवेडागमोऽतादवस्थ्यात्, अकृते ।पि तद्ग्रहणेऽङ्गस्य यो वलादिरङ्गनिमित्तं तस्येडिति व्याख्यानादिष्टसिद्धेश्च । तस्मादुभयथापि व्याख्यानेशरणीकर्तव्येआर्धधातुकस्ये॑त्यस्य त्याग एव श्रेयान् । नन्वेवंकेशवः॑,अङ्गना॑वृक्षत्व॑मित्यत्रेट् स्यात् ।ऋत इद्धातो॑रित्यतो धातोरित्यनुवर्तनादधातोः परस्य न भवतीति परिहारसंभवेऽपि लूभ्यां पूभ्यामित्यत्र दुर्वार एवेडागमः । विहितविशेषणेनाप्ययं वारयितुमशक्यः, क्विबन्ता धातुत्वं न जहतीति लूभ्यां लूभिरित्यत्र ब्यामादेर्धातोर्विहितत्वाऽनपायात् । किंचजुगुप्सते॑ इत्यादौगुप्तिज्किद्भ्यः॑ इति धातोर्विहितस्य सन इड् दुर्वारः स्यात् । न चेह धातोः परत्र विहितस्य वलादेरिति व्याख्यानलाभाय धातोरिति पञ्चम्यन्तमपेक्षितं, तच्च दुर्लभम्,ऋत इद्धातो॑रित्यत्र धातोरित्यस्य षष्ठन्तत्वात्, तथा च वृक्षत्वमित्यादावपीडागमप्रसङ्ग इति वाच्यं, शब्दाधिकारपक्षे स्वरितत्वेन तत्सदृशशब्दोऽनुमीयत इति पञ्चम्यन्तलाभात् । अस्तु वा षष्ठन्तत्वं, विहितत्वं षष्ठर्थ इति व्याख्यायामिष्टसिद्धः । तस्माज्जुगुप्सत इत्यादावतिप्रसङ्गवारणार्थमाद्र्धधातुकस्यति ग्रहणम् । केचित्तु - धातोरित्युच्चार्य विहितो यः प्रत्ययस्तस्य#एडिति यदि व्याख्यायेत तदा लूभ्यां जुगुप्सत इत्यत्रातिप्रसङ्गाऽभावादाद्र्धधातुकस्येति व्यर्थमित्याहुः । बभूविवेति । न चाऽत्रश्र्युकः किती॑तीण्निषेधे वुगागमोऽपि न स्यादिति शङ्क्यं, क्रादिनियमादिटः प्रवृत्तेः॥

Padamanjari

आस्ते, वस्त इति । ननु च रुदादिभ्यः सार्वधातुके इत्येतन्नियमार्थ भविष्यति - रुदादिभ्य एव एसार्वधातुक इति तत्राह - रुदादिभ्यः सार्वधातुक इत्येतस्तमिन्निति । नियमे त्वेतस्मिन् विज्ञायमाने विपरीतोऽपि नियमः सम्भाव्यते - रुदादिभयः सार्वधातुके एवेति । तत्र च वक्तव्यं रुदविदेति क्त्वासनोः कित्वविधानान्न भविष्यति । तानिटः सनो झलादेर्हलन्ताच्च इत्येव सिद्धत्वात् । क्त्वोऽप्यनिट औपदेशिककित्वसद्भावादिति, ततश्च प्रतिपतिगौरवं स्यात् । ननु चासत्यार्धधातुकग्रहतणे अङ्ग्स्य इत्यधिकारतस्यैवेट् प्राप्नोति, यथा लुङ्लङ्लृङ्क्ष्वडुदातः इति ज्ञापकात्सिद्धम्, यदयम् एकाच उपदेशेषनुदातात् इति प्रत्ययस्यट्प्रतिषेधं शास्ति, यच्च निष्ठायां सेटि न क्त्वा सेट् इत्याह, तज्ज्ञापयति - प्रत्ययस्यैवायमिडिति । न च वृक्षत्वमित्यादौ प्रतिपदिकप्रत्ययस्य प्रसङ्गः, आञ्त तैद्धातोः इत्यधिकारात् । एवमपि जुगुप्सते, ल्भ्याम्, लूभिरित्यादौ प्रसङ्गः इदितो नुम् धातोः इत्यतो द्वितीयमपि धातुग्रहणमनुवर्तिष्यते, तत्रैकं स्वरुपपदार्थकम्, ततश्च धातोः इत्येवं धातुसंश्बदनेन विहितस्य धातोः परस्येड्विधानान्न क्वाप्यनिष्ट्ंअ रूपम् । तदेवं बहुप्रतिविधेयत्वात् प्रतिपतिगौरवपरिहार्थमार्धधातुकस्य इत्युक्तम् । प्रतिषेधनिवृत्यर्थमिति । केन पुनः प्राप्तस्य प्रतिषेधः शङ्क्यते इदमेव वचनं कल्पकं स्यात् - अस्त्यार्द्धधातुकमात्रस्येट्, यतो वलादेः प्रतिषिध्यत इति । तनेङ्वशि कृति थैत्यादिकस्तु प्रतिषेधो नियमार्थः स्यात् ॥

Nyaas

आस्ते, शेते, वस्ते इति। आस उपवेशने (धातुपाठः-1021), शीङ्? स्वप्ने (धातुपाठः-1032), दस आच्छादने (धातुपाठः-1023)। अदादित्वाच्छपो लुक्, शीङः सार्वधातुके गुणः (7.4.21) । आर्धधातुकग्रहणादिह - सार्वधातुकस्येण्न भवतीति। ननु च रुदादिभ्यः सार्वधातुके (7.2.76) इत्येतन्नियमार्थ विज्ञायते - रुदादिभ्य एव सार्वधातुकस्य नान्येभ्य इति। रुदादिभ्यः सार्वधातुकस्यैव इत्येषा तु विपरीतनियमाशङ्का न कर्तव्या। यदि ह्रेवंविधो नियमः स्यात्, तदा रुदादेः परस्य सन इडागमो न स्यात्; नियमेन व्यावर्त्तितत्वात्। ततश्च रुदविद (1.2.8) इत्यत्र रुदिग्रहणमनर्थकं स्यात्; हलन्ताच्च (1.2.10) इति कित्त्वस्य सिद्धत्वात्। तस्मान्नात्र विपरीतनियमाशङ्का। रुदादिभ्य एव सार्वधातुकस्य, नान्येभ्यः इत्येष नियमो भविष्यति, ततो नार्थः सार्वधातुकनिवृत्त्यर्थेनार्धधातुकग्रहणेन? इत्यत आह - रुदादिभ्यः इत्यादि। रुदादिभ्यः सार्वधातुके (7.2.76) इत्येतस्मिन्नियमार्थे विज्ञायमाने कश्चिन्मन्दबुद्धिः प्रतिपत्ता विपरीतनियमं सम्भावयेत्, तत्रानन्तरोक्तया नीत्याऽभिमतनियमे प्रतिपद्यमाने प्रतिपत्तिगौरवं भवति इति। इतिकरणो हेतौ। यत एव रुदादिभ्यः सार्वधातुके (7.2.76) इत्येतस्मिन्नियमार्थे विज्ञायमाने प्रतिपत्तिगौरवं भवति, अतो हेतोरार्धधातुकग्रहणं कस्मान्न भवति? नार्हतीत्येवमर्थं भवितुम्। यदि ह्रङ्गस्य स्यात्, एकाच उपदेशेऽनुदात्तात् (7.2.10) इति प्रत्ययस्येट्प्रतिषेधोऽनर्थकः स्यात्; प्राप्त्यभावा। न क्त्वा सेट् (1.2.18) , निष्ठा शीङ् (1.2.19) इति वचनाच्च। न ह्रस्येडागमे सति क्त्वानिष्ठयोः सेट्त्वमुपपद्यते। इह तर्हि वृक्षात्वम्, वृक्षतेति प्रातिपदिकप्रत्ययस्य मा भूदित्येवमर्थं कस्मान्न भवति? एवमर्थमपि नार्हति भवितुम्, ऋत इद्धातोः (7.1.100) इत्यतः धातोः इत्यनुवर्तते। नन्वेवमपि लूभ्याम्, लूभिरित्यत्र प्राप्नोतीत्येव, न ह्यत्र प्रकृतेः प्रतिपदिकत्वेन धातुत्वं विहन्यते क्विबन्ता धातुत्वं न जहति (व्या।प।132) इति कृत्वा, तस्मादिह मा भूदित्येवमर्थमार्धधातुकग्रहणं युक्तम्? नैतदस्ति; ॠत इद्धातोः (7.1.100) इत्यत्र हि स्वरूपपदात्मकस्य धातुशब्दस्य ग्रहणम्। अत इहापि धातो रित्यनुवर्तमानं तथाभूतमेवानुवर्तते। तेन धातोः इत्येवंविहितस्येङ्विधानात्? लूभ्याम्, लूभिरित्यत्रासत्यार्धधातुकग्रहण इटः प्रसङ्गो न भवति। तथा जुगुप्सत इत्येवमादावपि; न ह्यत्र धातोरित्येवं सन्? विहितः, किं तर्हि? गुपादीन्? धातून्? स्वरूपेणोपादाय। तस्मादेतन्निवृत्त्यर्थमप्यार्धधातुकग्रहणं न भवतीति वेदितव्यम्। ऋत इद्धातोः (7.1.100) इत्यत्र स्वरूपपदात्मकस्य धातुशब्दस्य ग्रहणं स्यात्। तदा तस्यापि ऋतः इति विशेषणं न परिकल्प्येत। तस्य धातुशब्देऽसम्भवात्? तदर्थस्य विशेषणं विज्ञायत इत्यदोवः। अथ वा - तत्र तन्त्रेण द्वे धादुग्रहण उपात्ते; तत्रैकमर्थपदात्मकम्, अपरं स्वरूपपदात्मकम्। तत्र यदर्थपदात्मकं तत्र तस्योपयोगः, अपरस्य त्वत्रेति न कश्चिद्दोषः। तस्मात्? प्रतिपत्तिगौरवपरीहारार्थमेवार्धधातुकग्रहणम्। अथेङ्ग्रहणं किमर्थम्, यावता नेड् वशि कृति (7.2.8) इत्यत इङ्ग्रहणमनुवरत्तते? इत्याह - इडिति वर्तमाने इत्यादि। तद्धिड्ग्रहणं प्रतिषेधेन सम्बद्धम्, अतस्तदनुवृत्तौ तस्याप्यनुवृत्तिः स्यात्। तन्निवृत्यर्थ पुनरिड्ग्रहणं क्रियते। ननु च प्राप्तौ सत्यां प्रतिषेधः स्यात्, न च वलादेरार्धधातुकस्य केनचिदिट्प्राप्नोति, अतः प्राप्त्यभावादेव विधिरयं विज्ञास्यते, न प्रतिषेधः? नैतदस्ति; एतस्मादेव प्रतिषेधवचनाद्विधिरप्यनुमीयते। नूनमार्धधातुकस्येङ्विधिरस्तीति येन वलादेः प्रतिषेधं शास्ति। पुनरिड्ग्रहणात्? तु विधिरेष विज्ञास्यते॥

Prakriyasarvasvam

वलादेरार्धधातुकस्येडागमः स्यात् । इति तव्यस्येट् । टित्त्वादादौ । धातोर्गुणा- वादेशौ । भवितव्यं श्रिया । एवं भवनीयं श्रिया । इडनिड्व्यवस्थां तृचि वक्ष्यामः । <karika>शयितव्यं तु शयनं स्थातव्यं स्थितिरिव हि । एवं ल्युडादितुल्येऽपि भावे कृत्यान् हरोऽब्रवीत् ॥ ५६ ॥</karika>