72022: कृच्छ्रगहनयोः कषः¶
Padacheda: कृच्छ्रगहनयोः | S | 7 | 2 |
कषः | S | 6 | 1 |
Sutrartha¶
Vasu English Summary¶
The participial affix does not take the augment इट् after the root कष् when the participle means ‘difficult’ and ‘impenetrable’.
Vasu English Translation¶
The participial affix does not take the augment इट् after the root कष् when the participle means ‘difficult’ and ‘impenetrable’. As कष्टोऽग्निः, कष्टं व्याकरणं, ततोऽपि कष्टतराणि सामानि ॥ “Difficult is Fire-sacrifice i. e. it is difficult to completely master the ritual connected with the worship of fire; and difficult enough is Grammar, but the Samans are worst of all”. कष्टानि वनानि ‘impervious forests’. कष्टाः पर्वताः ॥ When not having these senses, we have कषितं सुवर्णम् ॥
Kashika¶
कृच्छ्र गहन इत्येतयोरर्थयोः कषेर्धातोर्निष्ठायामिडागमो न भवति। कष्टोऽग्निः। कष्टं व्याकरणम्। ततोऽपि कष्टतराणि सामानि। कृच्छ्रं दुःखम्, तत्कारणमप्यग्न्यादिकं कृच्छ्रमित्युच्यते। गहने — कष्टानि वनानि। कष्टाः पर्वताः। कृच्छ्रगहनयोरिति किम्? कषितं सुवर्णम्॥
Siddhanta Kaumudi¶
कषो निष्ठाय इण्न स्यादेतयोरर्थयोः । कष्टं दुःखं तत्कारणं च । स्तात्कष्टं कृच्छ्रमाभीलम् । कष्टो मोहः । कष्टं शास्त्रम् । दुरवगाहमित्यर्थः । कषितमन्यत् ॥
Balamanorama¶
कृच्छ्रगहनयोः कषः - कृच्छ्रगहनयोः । कृच्छ्रशब्दो दुःखे, तत्कारणे च वर्तते । कष्टं दुःखं, तत्कारणं चेति ।स्यात्कष्टं कृच्छ्रमाभील॑मित्यमरकोशवाक्यम् । दुःखकारणे उदाहरति — कष्टो मोह इति । गहने उदाहरति — कष्टं शास्त्रमिति । गहनशब्दं विवृणोति — दुरवगाहमिति ।
Tattvabodhini¶
कृच्छ्रगहनयोः कषः - कृच्छ्रगहनयोः । कृच्छ्रं दुःखं, तत्कारणं च लक्षणया गृह्रते । कषतिहिंसार्थः । कष्टो मोह इति । दुःखहेतुरित्यर्थः ।
Padamanjari¶
कषतिर्हिसार्थः । कष्टोऽग्निरिति । चीयमानोऽग्निरत्राग्निशब्देन विवक्षितः, स कष्टो भवति, चयनप्रकारस्य दुर्ज्ञानत्वात् । व्याकरमस्य कष्टत्वमिडागमादिव्यवस्थाया दुर्ज्ञानत्वात् । सान्नं कष्टत्वं वर्षभदस्य एस्वरस्य स्तोमादीनां च दुर्ज्ञानत्वात् । कारणमपीति । लक्षणया, कृच्छ्रमिति व्युत्पत्या वा ॥
Nyaas¶
कष्टः इति। कषिशिषीत्यादिहिंसार्थधातुवर्गे कषिः पठते। किं पुनः कृच्छ्रं नाम? इत्याह - कृच्छ्रं दुःखम् इति। यद्येवम्, दुःखे प्राणिधर्मे प्रतिषेध उच्यमानोऽग्न्यादौ न सिध्यते? इत्याह - तत्कारणमप्यग्न्यादिकं कृच्छ्रमुच्यते इति। कारणे कार्योपचारात्, यथा - नङ्वलोदकं पादरोग इति। चिन्त्यं पुनरेतत्? किं मुख्ये सति गौणस्य ग्रहणं युक्तम्? उत नेति? यदि तु कृच्छ्रशब्दाण्णिजन्तात्? पचाद्यचमुत्वाद्य कृच्छ्रयतीति कृच्छ्र इत्येवं व्युत्पाद्यते, तदा कृच्छ्रशब्दोऽपि मुख्येऽगन्यादावपीति न किञ्चिच्चिन्त्यम्; न चास्यां व्युत्पत्तौ तत्कारणमप्यगन्यादिकं कृच्छ्रमित्युच्यत इत्येतद्विरुध्यते। यद्धि कृच्छ्रयति तन्नियोगत एव दुःखस्य कारणं भवति॥
Prakriyasarvasvam¶
असह्यदुष्प्रापयोर्वाच्ययोः कषेरिण् न । कष्टो विरहः । कष्टं वनम् । कषितमन्यत् ॥
Sutra Prayogas¶
कष्टं (भट्टिकाव्यम्): कृच्छ्र-गहनयोः कपः इति इट्प्रतिषेधः।