72033: सोमे ह्वरितः

Padacheda: सोमे | S | 7 | 1 |

ह्वरितः | S | 1 | 1 |

Sutrartha


Vasu English Summary

ह्वरित् is irregularly formed from ह्वृ in the छन्दस् (Vedas) by गुण substitution and इट् augment when it refers to सोम।

Vasu English Translation

ह्वरित् is irregularly formed from ह्वृ in the छन्दस् (Vedas) by गुण substitution and इट् augment when it refers to सोम। As मा नः सोमो ह्वरितो, विह्वरितस्त्वम् ॥

Kashika

ह्वरित इति ह्वरतेर्निष्ठायामिडागमो गुणश्च निपात्यते छन्दसि विषये, सोमश्चेद् भवति। मा नः सोमो ह्वरितः, विह्वरितस्त्वम्॥

Siddhanta Kaumudi

इड्गुणौ निपात्येते । मा नः सोमो ह्वरितः (मा नः॒ सोमो॑ ह्वरितः) ॥

Balamanorama

सोमे ह्वरितः - वा द्रुहः ।दादे॑रित्यतो घ इत्यनुवर्तते । झलीति पदस्येति अन्ते #इति पूर्ववदनुवर्तते । तदाह — एषामिति । द्रुहादीनां चतुर्णामित्यर्थः । ध्रुक् — ध्रुगिति । घत्वपक्षे भष्भावे चर्त्वविकल्प इति भावः । ध्रुट् ध्रुडिति । घत्वाऽभावपक्षे ‘हो ढः’ इति ढत्वे भष्भावे चर्त्वविकल्पः । अत्र भष्भावार्थमेव ‘हो ढः’ इति सूत्रे ढ एव विहित, नतु डः । तथा सति झषन्तत्वाऽभावाद्भष्भावो न स्यात् । अचि सुपि दुर्हमित्यादि । ध्रुग्भ्यामिति । घत्वपक्षे भष्भावः । ध्रुड्भ्यामिति । घत्वाऽभावपक्षे ढत्वे जश्त्वे रूपम् । एवं भिसि भ्यसि च रूपद्वयम् । द्रुहः । द्रुहः । द्रुहोः द्रुहाम् । ध्रुक्ष्विति । घत्वे भष्भावे ‘आदेशप्रत्यययोः’ इति षत्वेखरि चे॑ति चर्त्वम् । ध्रुट्त्स्विति । घत्वाऽभावपक्षे ढत्वे भष्भावे ढस्य जश्तेव धुटि चर्त्वे डस्य चर्त्वम् । चर्त्वस्याऽसिद्धत्वा॒च्चयो द्वितीयाः॑ इति तकारस्य थो न भवति । न पदान्ता॑दिति ष्टुत्वं न । ध्रुट्स्विति । धुडभावे रूपम् । हस्य ढः, भष्भावः, ढस्य जश्त्वेन डः, तस्य चर्त्वेन टः । एवमिति ।भष्भाववर्ज॑मिति शेषः । विआं वहतीत्यर्थभजोण्वि॑रित्यतो ण्विरित्यनुवृत्तौवहश्चे॑ति ण्विः । णकार इत् । वेर्लोपः । ‘अत उपधायाः’ इति वृद्धिः । उपपदसमासः । विआवाहितिं रूपम् । ततस्सोर्हल्ङ्याबिति लोपे हो ढः॑ इति ढत्वे ‘वाऽसाने’ इति चर्त्वविकल्पे-विआवाट् विआआड्, विआआहौ, विआवाहः ।

Padamanjari

इडागमो गुणश्चेति । चकारादादेशाभावश्च ॥ एग्रसितस्कमितस्तभितोतभितचतविकस्ता विशस्तृशस्तृशास्तृतरुतृतरुतृवरुतृवरुतृवरुत्रीरुज्ज्वलितिक्षरितिक्षमितिवमित्यमितीति चः ॥ एग्रसु अदने, स्कम्भु स्तुम्भु रोधनार्थौ, सौत्रौ, चते याचने, कस गतौ, शसु हिंसायाम्, शंसु स्तुतौ, शासु अनुशिष्टौ, तृ प्लवनतरणयोः, वृङ् वरणे, ज्वल दीप्तौ, क्षर सञ्चलने, क्षमूष् सहने, दुवम उद्गिरणे, अमगत्यादिषु । उताभितेति । उदः स्थास्तम्भोः पूर्वस्य इति पूर्वसर्वणः, सकारस्य तकारः । अन्योपसर्गपूर्वः स्तभितशब्दो न भवतीति । यदि स्यात्, उदभितग्रहणमनर्थकं स्यात् । निपातनबहुत्वापेक्षमिति । तेन छान्दसः प्रयोगः एकवचनान्तोऽप्युदाहृत इति भावः । इतिकरणः प्रदर्शनार्थ इति । तस्य प्रकारार्थत्वात् ॥

Nyaas

इडागमो गुणश्च निपात्यते इति। चकारात्? ह्यु इत्येतस्यादेशाभावश्च॥

Prakriyasarvasvam

सोमे वाच्ये इण् निपात्यते । मानः सोमो ह्वरितो जीवतस्ते ।