72036: स्नुक्रमोरनात्मनेपदनिमित्ते

Padacheda: स्नुक्रमोः | S | 6 | 2 |

अनात्मनेपदनिमित्ते | S | 1 | 2 |

Sutrartha


Vasu English Summary

The augment इट् is added to a आर्धधातुक वलादि affixes after स्नु and क्रम् only then they do not occasion the taking of the personal endings of the आत्मनेपद ।

Vasu English Translation

The augment इट् is added to a आर्धधातुक वलादि affixes after स्नु and क्रम् only then they do not occasion the taking of the personal endings of the आत्मनेपद । The roots स्नु and क्रम् are udatta, and will get इट् augment naturally, the sutra makes a restriction or niyama. The restriction is that when the roots themselves occasion atmanepada affixes, then they do not take इट्, otherwise they will.

When do roots give occasion to Atmanepada affixes? The roots occasion atmanepada affixes when employed in the Impersonal, Passive, and Intensive senses. Sutras (1.3.38) — (1.3.43), teach us when क्रम takes Atmanepada affixes. Thus प्रस्नविता, प्रस्नवितुम्, प्रस्नवितव्यम्, प्रक्रमिता, प्रक्रमितुम्, प्रक्रमितव्यम् ॥ Why do we say ‘when not the occasion of getting the Atmanepada affixes’? Observe, प्रस्नोषीष्ट, प्रक्रंसीष्ट, प्रस्नोष्यते, प्रक्रंस्यते, प्रस्नुषिष्यते, प्रचिक्रंसिष्यते ॥ In all these examples स्नु and क्रम् have become the causes of taking the Atmanepada affixes. The Desiderative is also Atmanepadi because of (1.3.62).

Why have we used the word निमित्त in the sutra? Would it not have been simpler to say स्नुक्रमोरमात्मनपदे ? This form of sutra would have indicated that whenever an atmanepada affix followed, then there would be no इट् augment. Now the rule is that all words exhibited in the Locative case in this Grammar, have the force of परसप्तमी, i. e. when that word follows. Therefore आत्मनेपदे would mean when an atmanepada affix followed. If then this “atmanepada” be taken as qualifying स्नु and क्रम्, then it must follow immediately after those roots, as in प्रस्नोषीष्ट and प्रक्रंसीष्ट; but we would not get the forms प्रस्नोष्यते and प्रक्रंस्यत, because स्य intervenes between the atmanepada and the affix. On the other hand if “atmanepada” be taken to qualify the word “ardhadhatuka affix” understood, viz, if the sutra meant स्नुक्रमिभ्यां परस्यार्धधातुकस्यात्मनेपदेऽनन्तरे then the forms प्रस्नोष्यते and प्रक्रंस्यते would be valid, but we should not get the forms प्रस्नोषीष्ट and प्रक्रंसीष्ट, because the augment सीयुट् is a portion of the atmanepada affix, and there is no ardhadhatuka affix here. If the sutra be taken to have both the above senses, then we could not get the form प्रचिक्रंसिष्यते in the Desiderative, because here the atmanepada does not follow immediately after the sarvadhatuka affix that follows क्रम् ॥ Therefore, the word निमित्त should be taken. For by so doing, there takes place prohibition with regard to सीयुट् &c, and also with regard to that after which comes the atmanepada, as the स्य in प्रचिक्रंसिष्यते, and also with regard to that which precedes the latter, as the सन् affix in the above. In प्रस्नवित्रीयते (प्रस्नवितेवाचरति), the root स्नु has not occasioned the atmanepada affix, but the affix क्यङ्, hence the prohibition of this sutra does not apply.

Vart:- Prohibition of इट् augment should be stated with regard to क्रम् when an Krit-affix, with active force, follows not in the atmanepada, though in the Active voice such क्रम् was subject of Atmanepada. When क्रम् takes no upasargas, we have according to one view two forms क्रन्ता and क्रमिता (1.3.43) because the atmanepada here is optional. According to the other view there will be only one form, as क्रमिता ॥ But with प्र and उप् we have प्रक्रन्ता and उपक्रन्ता ॥ Why do we say ‘the Krit-affix should have an active force’? Observe प्रक्रमितव्यम्, उपक्रमितव्यम् ॥ Why do we say “when it was subject of Atmanepada”? Observe निष्क्रमिता ॥ Here there is इट् augment ; for by (1.3.42), क्रम् is subject of atmanepada, when the upasargas प्र and उप precede, but not otherwise.

With regard to स्नु, it will take no इट् in the Desiderative, and before a कित् affix, by virtue of (7.2.11) and (7.2.12). Therefore, we have the forms प्रसुस्नुषति, प्रस्नुतः, प्रस्नुतवान् ॥

Bhashya

स्नुक्रमोरनात्मनेपदनिमित्ते ॥ स्नुक्रमोरनात्मनेपदनिमित्तेचेत्कृत्युपसङ्ख्यानम् ॥ स्नुक्रमोरनात्मनेपदनिमित्ते चेत्कृत्युपसङ्ख्यानं कर्तव्यम् । प्रस्नविता प्रस्नवितुम् प्रस्नवितव्यम् । प्रक्रमिता प्रक्रमितुम् प्रक्रमितव्यम् ॥ तत्तर्हि वक्तव्यम् ? ॥ न वक्तव्यम् । अविशेषेण स्नुक्रमोरिडागममुक्त्वा आत्मनेपदपरे नेति वक्ष्यामि । ॥ आत्मनेपदपरप्रतिषेधे तत्परपरसीयुडेकादेशेषु प्रतिषेधः ॥ आत्मनेपदपरप्रतिषेधे(च)तत्परपरसीयुडेकादेशेषु प्रतिषेधो वक्तव्यः । तत्परपरे तावत् - प्रसुस्नूषिष्यते । प्रचिक्रंसिष्यते ॥ सीयुटि - प्रस्नोषीऽट प्रक्रंसीष्ट । एकादेशे - प्रस्नोष्यन्ते । प्रक्रंस्यन्ते । एकादेशे कृते व्यपवर्गाऽभावान्न प्राप्नोति ॥ अन्तादिवद्भावेन व्यपवर्गः ॥ उभयत आश्रये नान्तादिवत् ॥ एवं तर्ह्येकादेशः पूर्वविधौ(1) स्थानिवद्भवतीति स्थानिवद्भावाद्व्यपवर्गः ॥ तत्परपरसीयुटोस्तर्हि प्रतिषेधो वक्तव्यः ॥ सिद्धंतु स्नोरात्मनेपदेन समानपदस्थास्येट्प्रतिषेधात् ॥ सिद्धमेतत् ॥ कथम् ? ॥ (ठस्नोरात्मनेपदेन समानपदस्थस्येट्प्रतिषेधात् । ) । स्नोरात्मनेपदेन समानपदस्थस्य नेड्भवतीति वक्तव्यम् । यदि स्नोरात्मनेपदेन समानपदस्थस्येण्न भवतीत्युच्यते - प्रस्नवितेवाचरति प्रस्नवित्रीयते - अत्र न प्राप्नोति ॥ ॥ बहिरङ्गत्वाच्च(3) ॥ बहिरङ्गलक्षणमत्रात्मनेपदम् ॥ ॥ क्रमेश्च(4) ॥ क्रमेश्चात्मनेपदेन समानपदस्थस्येण्न(5) भवतीति वक्तव्यम् ॥ अथ किमर्थं क्रमेः पृथग्ग्रहणं क्रियते न स्नुक्रमिभ्यामित्येवोच्येत ? ॥ कर्तरि चात्मनेपदविषयात्कृति नेति वक्ष्यति तत्क्रमेरेव(6) यथा स्यात्स्नोर्मा भूत् । व्यतिप्रस्नविता(1) । व्यतिप्रस्नवितारौ । व्यतिप्रस्नवितारः ॥ कर्तरि चात्मनेपदविषयात्कृति प्रतिषेधः(1) ॥ कर्तरि चात्मनेपदविषयात्कृति प्रतिषेधो वक्तव्यः । प्रक्रन्ता । उपक्रन्ता ॥ तत्तर्हीदं बहु वक्तव्यम् - स्नोरात्मनेपदेन समानपदस्थस्येण्न भवतीति वक्तव्यम् । क्रमेश्चेति वक्तव्यम् । कर्तरि चात्मनेपदविषयात्कृतीति वक्तव्यम् । सूत्रं च भिद्यते ॥ यथान्यासमेवाऽस्तु । ननु चोक्तं - स्नुक्रमोरनात्मनेपदनिमित्ते चेत्कृत्युपसङ्ख्यानमिति ॥ नैषः दोषः । स्नुक्रमी एवात्मनेपदनिमित्तत्वेन विशेषयिष्यामः, - न चेत्स्नुक्रमी आत्मनेपदस्य निमित्ते इति ॥ कथं पुनर्धातुर्नामाऽऽत्मनेपदस्य निमित्तं स्यात् ? ॥ धातुरेव निमित्तम् । आह हि भगवान्(2) - अनुदात्तङित आत्मनेपदम् शेषात्कर्त्तरि परस्मैपदमिति ॥ यत्र तर्हि धातुर्नाश्रीयते - भावकर्मणोरिति ? ॥ अत्रापि धातुरेवाश्रीयते - भावकर्मवृत्ताद्धातोरिति ॥ कथं प्रक्रमितव्यमुपक्रमितव्यम् (1)? ॥ सत्यात्मनेपदे निमित्तशब्दो वर्तते ॥ कथं प्रक्रन्ता उपक्रन्ता ॥ तस्मादसत्यपि ॥ कथं प्रक्रमितव्यम् । उपक्रमितव्यम्(4) । तस्मात्सत्येव ॥ कथं प्रक्रन्ता उपक्रन्ता ? ॥ वक्तव्यमेवैतत् - कर्त्तरि चात्मनेपदविषयात्कृतीति ॥ अथ वा कृतीति वर्तते ( स्नुक्रमोरनात्मनेपदनिमित्ते ) ॥

Kashika

नियमार्थमिदम्। स्नुक्रमोरार्धधातुकस्य वलादेरिडागमो भवति, न चेत् स्नुक्रमौ आत्मनेपदस्य निमित्तं भवतः। क्व च तावात्मनेपदस्य निमित्तम्? यत्रात्मनेपदं तदाश्रयं भवति, भावकर्मकर्मकर्तृकर्मव्यतिहाराः क्रमेर्वृत्त्यादयश्च। तेनायं सत्यात्मनेपदे प्रतिषेधो भवति, नासतीति। प्रतिषेधफलं चेदं सूत्रम्। स्नुक्रमोरुदात्तत्वादिट् सिद्ध एव। प्रस्नविता। प्रस्नवितुम्। प्रस्नवितव्यम्। प्रक्रमिता। प्रक्रमितुम्। प्रक्रमितव्यम्। अनात्मनेपदनिमित्त इति किम्? प्रस्नोषीष्ट। प्रक्रंसीष्ट। प्रस्नोष्यते। प्रक्रंस्यते। प्रसुस्नूषिष्यते। प्रचिक्रंसिष्यते। सर्वत्रैवात्र स्नौतिः क्रमिश्चात्मनेपदस्य निमित्तम्। सनन्तादपि हि पूर्ववत्सनः (१.३.६२)इत्यात्मनेपदं विधीयते। निमित्तग्रहणं किम्? सीयुडादेस्तत्परपरस्य च प्रतिषेधार्थम्। इह तु प्रस्नवितेवाचरतीति प्रस्नवित्रीयत इति क्यङन्तमात्मनेपदस्य निमित्तम्, न स्नौतिः॥ क्रमेस्तु कर्तर्यात्मनेपदविषयादसत्यात्मनेपदे कृति प्रतिषेधो वक्तव्यः ॥ प्रक्रन्ता। उपक्रन्ता। कर्तरीति किम्? प्रक्रमितव्यम्। उपक्रमितव्यम्। आत्मनेपदविषयादिति किम्? निष्क्रमिता। स्नौतेः सनि किति च प्रत्यये श्र्युकः किति**(७.२.११), **सनि ग्रहगुहोश्च (७.२.१२) इत्येव प्रतिषेधो भवति। प्रसुस्नूषति। प्रस्नुतः। प्रस्नुतवान्॥

Siddhanta Kaumudi

अत्रैवेट् । अक्रमीत् ।अथ रेवत्यन्ता अनुदात्तेतः ॥{$ {!474 अय!} {!475 वय!} {!476 पय!} {!477 मय!} {!478 चय!} {!479 तय!} {!480 णय!} गतौ$} । अयते ॥

Balamanorama

स्नुक्रमोरनात्मनेपदनिमित्ते - स्नुक्रमोः । पञ्चम्यर्थे षष्ठी । आत्मनेपदनिमित्तस्याऽभावः — अनात्मनेपदनिमित्तम् । अर्थाभावेऽव्ययीभावेन सह नञ्तत्पुरुषो विकल्प्यत इत्युक्तेः समासः । आत्मनेपदनिमित्ताऽभावे सति स्नुक्रम्भ्यां परस्य वलाद्यार्धधातुकस्य इट् स्यादित्यर्थः । स्नुक्रमोरनुदात्तोपदेशानन्तर्भावदिटि सिद्धे वचनमिदं नियमार्थमित्याह — अत्रैवेडिति । एवं च भावकर्मलकारेषु इण्न भवति । उपस्नोष्यते जलेन । बावलकारोऽयम् । उपक्रस्यते । कर्मणि लुट् । स्यः ।प्रस्नुत॑मित्यत्र तु श्र्युकः कितीति निषेधान्नेट्,आर्धधातुकस्येड्वलादे॑रितीड्विधेः पुरस्तात्प्रतिषेधकाण्डारम्भसामर्थ्यात् ।स्नुक्रमोरनात्मनेपदे॑ इति तु न सूत्रितम्, आत्मनेपदभिन्ने परस्मैपदे परे इत्यर्थे चिक्रमिषिष्यतीत्यसिद्देः, स्येन व्यवधानात् । आत्मनेपदे परे नेडित्र्थे तु प्रचिक्रंसिष्यत इत्यसिद्धिः, अतो निमित्तग्रहणमित्यलम् । अक्रमीदिति ।ह्म्यन्ते॑ति न वृद्धिः । इति क्रम्यन्ताः परस्मैपदिनो गातः । रेवत्यन्ता इति ।रेवृ प्लवगता॑वित्येतत्पर्यन्ता इत्यर्थः । अयपयेत्यारभ्य शल चलने इत्यतः प्राग यकारान्ताः ।

Tattvabodhini

स्नुक्रमोरनात्मनेपदनिमित्ते - स्नुक्रमो । अनात्मनेपदनिमित्ते इति । आत्मनेपदनिमित्ताऽभावे इत्यर्थः । अन्ये तु द्विवचनस्थाने व्यत्ययेन एकवचनम्, अनात्मनेपदनिमित्तयोरित्यर्थ इत्याहुः । उभयोरपि भावकर्मकर्मव्यतिहारास्तङो निमित्तं, क्रमेस्तु वृत्तिसर्गादयोऽपीति बोध्यम् । स्नुकर्मोरुदात्तत्वदिटि सिद्धे नियमार्थोऽमित्याह — अत्रैवेडिति । अनात्मनेपदेति किम् ।उपस्नोष्यते जलेन॑ ।उपक्रंस्यते॑ ।आक्रंस्यते॑ । निमित्त इति किम् स्नौतीति स्नविता, स इवाचरति स्नवित्रीयते । इह क्यङ् आत्मनेपदनिमित्तं न तु स्नौतिरित्याहुः ।

Padamanjari

स्नुक्रमोरुदातत्वादिटि सिद्धे नियमार्थं वचनम् - अनात्मनेपदनिमित एव यथा स्यादन्यत्र मा भूदिति । अथ प्रस्नुतः, प्रस्नुतवान्, प्रसुस्नूषति, क्रान्तः, क्रान्तवान् - इत्यत्र र्श्युकः किति, सनि ग्रहगुहोश्च, यस्य विभाषा इति प्रतिषेधे प्राप्ते विध्यर्थमेतत्कस्मान्न भवति पुरस्तात्प्रतिषेधकाण्डकरणात् । तस्य हि प्रयोजनम् - अनाश्रितविधानविशेषस्येण्मात्रस्य प्रतिषेधो यथा स्यादिति । यद्यनात्मनेपदनिमित इति प्रसज्यप्रतिषेधः स्नुक्रमोरात्मनेपदनिमितत्वे सतीण्न भवतीति, एवं च प्रतिषेधप्रकरण एवैतत्पठितव्यम्, तत्रायभष्यथेः - नञुपादानं न कर्तव्यं भवति तथा तु न कृतमित्येव । अत्र यद्यात्मनेपदशब्देन नञः समासं कृत्वा पश्चान्निमितशब्देन षष्ठीसमासः क्रियेत - आत्मनेपदादन्यदनात्मनेपदम्, परस्मैपदमिति यावत्, तस्य निमितम्, ततश्च यत्र स्नुक्रमौ परस्मैपदनिमिते - चक्रमिथ, चक्रमिव, चक्रमिम, प्रास्नावीत्, प्रसुस्नुविवेत्यादौ - तत्रैवेड्भवतीत्यर्थः स्यात्, ततश्च कृति न स्यात् - प्रस्नविता, प्रस्त्रवितुम्, प्रस्नवितव्यम्, प्रक्रमिता, प्रक्रमितुम्, प्रक्रमितव्यमिति, तथा चिक्रमिषतीत्यत्रापि न स्यात्, न हि सनन्तादुत्पद्यमानस्य परस्मैपदस्य क्रमिर्निमितम्, परस्मैपदग्रहणमेव च कर्तव्यं स्यात्, तस्मादात्मनेपदशब्दस्य निमितशब्देन समासं कृत्वा पश्चान्नञा समासः कर्तव्यः । प्रसज्यप्रतिषेधे त्वनुन्मेष एवास्य पक्षस्य स्यात् । तत्र यद्यनात्मनेपदनिमित इति सप्तम्येकवचनं स्यात्, ततोऽयमर्थः स्यात् - आत्मनेपदस्य यन्निमितं ङ्कारादि तस्मिन्सति न भवतीति, ततश्च प्रस्नवित्रीयत इत्यत्रापि प्रतिषेधः स्यात्, विद्यते ह्यत्रात्मनेपदस्य निमितम् क्यङे ङ्कार इति । प्रथमाद्विवचनान्तं स्नुक्रमोर्विशेषणमिति दर्शयति - न चेत् स्नुक्रमौ आत्मनेपदस्य निमितमिति । वेदाः प्रमाणम् इतिवदेकवचनम् । सूत्रे तु प्रत्येकं निमितत्वस्य विवक्षितत्वात् द्विवचनम् । निमितशब्दोऽयमस्ति योग्यतामात्रे - कुसूलस्थेष्वपि बीजेषु वक्तारो भवन्ति - अङ्कुरनिमितान्यतानीति अस्ति च कुर्वद्रूपे । तत्राद्ये पक्षे कृत्यापि प्रतिषेधः स्यात् - प्रस्नविता, प्रस्नवितुम्, प्रस्नवितव्यम्, प्रक्रमिता, प्रक्रिमितुम्, प्रक्रमितव्यमिति । अस्ति ह्यत्र यथायोगं भावकर्मकर्तृविषयत्वादात्मनेपदं प्रति योग्यत्वम्, तदिह किं विवक्षितम् इति पृच्छति - क्व च तावात्मनेपदस्य निमितमिति । इतरोऽपि कुर्वद्रूपपक्षाश्रयणेन परिहरति - यत्रेत्यादि । अत्रैवं व्याख्येयम् - यत्रात्मनेपदं तदाश्रयं भवति तत्रैवात्मनेपदस्य एनिमितम् । किं पुनस्तद्यत्र तदाश्रयमात्मनेपदं भवति इत्यत आह - भावकर्मेत्यादि । अत्र हि विषये स्नुक्रम्योः श्रूयमाणमात्मनेपदं भवतीति, कुर्वद्रूप एव निमितशब्दो मुख्यः, योग्यतामात्रे त्वौपचारिक इति भावः । ननु च भावकर्मादिषु त एवार्था आत्मनेपदस्य निमितम्, स्नुक्रमी, क्व तर्हि प्रतिषेधः स्याद् यत्र हि क्रिमिरेव निमितम्, अनुपसर्गाद्वा - क्रंस्यते नैष दोषः, भावकर्मकर्तारः क्रमेश्च वृत्यादयः । सर्वमेवैतद्धातोरेव विषयतया विशेषणम्, धातुरेव तु साक्षादात्मनेपदस्य मिमितम् - भावादिविषयाद्धातोरात्मनेपदं भवतीति । तेनेत्यादि । यत एएवं कुर्वद्रूपमेवात्र निमितम्, तेनायं सत्यात्मनेपदे प्रतिषेध इत्यर्थः । किमुच्यते प्रतिषेध इति, यावता पर्युदासाश्रयेणोकपक्रमे व्याख्यातम् तत्राह - प्रतिषेधफलं चेदं सूत्रमिति । सत्यं पर्युदासेऽपि नियमार्थत्वान्नियमस्य चेतरव्यावृत्तिफलकत्वादेवमुक्तमित्यर्थः । प्रस्नोषीष्टेति । आशिषि लिङ्, भावकर्मणोः इत्यात्मनेपदम् । प्रकंसीष्टेति । अत्र तु प्रोपाभ्यां समर्थाभ्याम् इति कर्तरि । सर्वत्रेत्यादिना सूत्रार्थमुदाहरणे दर्शयति । ननु सनन्ताद्विधीयमानस्यात्मनेपदस्य स एव धातुर्निमितं न स्नुक्रमी तत्राह - सनन्तादपीति । पूर्ववदिति वचनात्प्रकृतिगतमेव सनन्तेऽपि निमितमिति भावः । यदा तर्हि सनन्ताद्भावकर्मणोरात्मनेपदं तदा प्रतिषेधो न प्राप्नोति, न हि तदा प्रकृतिगतं निमितमपेक्षितम्, किं तर्हि सनन्तमेव स्वतन्त्रं निमितम्, पुत्रीयत त्याइदिवत् एवं तर्हि सनन्ताद्भावकर्मणोरपि पूर्ववत्सनः इत्यात्मनेपदं भविष्यति एतयोरर्थयोः सन्प्रकृतावात्मनेपदस्य दृष्टत्वात् । तत्र यद्यपि सनन्तमपि स्वयमेव निमितमुपपद्यते, तथापि भावकर्मणोः इत्यस्यावकाशः - भूयते, पच्यते पूर्ववत्सनः इत्यस्यावकासः - शिशयिषते सनन्ताद्भावकर्मणोरुभयप्रसंगे परत्वात् पूर्ववत्सनः इत्यनेन भविष्यति । यदि परं विशेषो नास्तीत्युच्यते तदपि न अत्रैव विशेषस्य सम्भवात् । एवमपि न सिध्यति, पूर्ववत्सनः इत्यत्र कर्तरि कर्मव्यतिहारे इत्यतः कर्तरीत्यनुवृतेः । तत्र हि प्रकरणे सर्वज्ञैव कर्तरिति सम्बध्यते । अथापि न सम्बध्यते, एवमपि यदा सनन्ताद् णिचि कृते णिचश्चेति, भावकर्मणोः इति वा आत्मनेपदम्, तदा प्रतिषेधो न सिध्यति - चिक्रंस्यते, चिक्रंस्यत इति । किं च - भोस्तदानीमपि प्रतिषेध इष्यते बाढमिष्यते । यदाह वार्तिककारः - सिद्धं तु स्नोरात्मनेपदेन समानपदस्थस्योट्प्रतिषेधात्, क्रमेश्चेति । तदेवमात्मनेपदेन समानपदस्थत्वे प्रतिषेधं कुर्वतो वार्तिककारस्यैवंविधे विषये प्रतिषेध इष्टो लक्ष्यते । यथा पुनर्वृत्तिकारेण व्याकख्यातं तथा न प्राप्नोति कर्तव्योऽत्र यत्रः । यदि सत्यात्मनेपदे प्रतिषेधः मा कारि निमितग्रहणमनात्मनेपदे इत्येवास्तु, सतिसप्तमी विज्ञास्यते - आत्मनेपदे सति न भवतीति, यद्येतल्लभ्यते कृतं स्यात्, ततु न लभ्यम्, शास्त्रे याः सप्तम्यस्ताः सर्वा परसप्तम्य इति नियमात् परसपतम्यां तु यदि स्नुक्रमोर्विशेषणं स्नुक्रमोरात्मनेपदेऽनन्तर इति, सिद्धं प्रस्नोषीष्ट, प्रक्रसीष्ट, प्रस्नोष्यते, प्रक्रंस्यते - अत्र न प्राप्नोति, स्येन व्यवहितत्वात् । आर्थार्धधातुकस्य विशेषणम् - स्नुक्रमिभ्यां परस्यार्धधातुकस्यात्मनेपदेऽनन्तर इति सिद्धं प्रस्नोष्यते, प्रक्रंस्यते, प्रस्नोषीष्ट, प्रक्रंसीष्ट - अत्र न प्राप्नोति, सीयुट आत्मनेपदभक्तत्वात् । उभयथापि प्रचिक्रंसिष्यते - अत्र न प्राप्नोति, न ह्यत्र क्रमेस्तत्परस्य सार्वधातुकस्यात्मनेपदमनन्तरम् । तस्मान्निमितग्रहणं कर्तव्यम् । तदाहनिमितग्रहणमित्यादि । तदात्मनेपदं परं यस्मात्स ततप्रः, प्रचिक्रसिष्यते इत्यादौ स्यप्रत्ययः, स परो यस्मात्स तत्परः, सन्प्रत्ययः । इह त्वित्यादि । प्रगेव व्याक्यातम् । प्रस्नवित्रीयत इति । रीङ् ऋतः । वातिककारमतेऽप्यत्र प्रतिषेधो न भवति, कथम् समानपदस्थस्य इति वचनात् इडागमेन पदावस्थापेक्षणीया । तत्र तृचि विभक्तावुत्पन्नायां लब्धेऽपि पदत्वे आत्मनेपदस्यासन्निधानादिट् प्रवर्तते । प्रतिक्रंसिष्यत इत्यत्र तु पदावस्थायामात्मनेपदसन्निधानात् प्रतिषेधप्रवृत्तिः। एआत्मनेपदविषयादिति । तद्येग्यादित्यर्थः । सत्यात्मनेपदे प्रतिषेध इत्युक्तत्वादिदमारभ्यते । अनुपसर्गात्क्रमेः क्रन्ता, क्रमिता - इत्युभयमपि भवति अनुपसर्गाद्वा इति वकल्पेनात्मनेपदनिमितत्वादित्येके । अन्ये त्वात्मनेपदविषयादिति अनन्यभावे विषयशब्दं वर्णयन्तः क्रिमितेत्येव भवितव्यमित्याहुः । स्नौतेः सनि किति चेति । उपलक्षणमेतत् । क्रमेश्च निष्ठायाम् यस्य विभाषा इति द्रष्टव्यम् । प्रतिषधो भवतीति । अत्र हेतुः प्रागेवोक्तः ॥

Nyaas

स्नु प्ररुआवणे [ष्णु - धातुपाठः-] (धातुपाठः-1038), क्रमु पादविक्षेपे (धातुपाठः-473) - अनयोरुदात्तत्वादिटि सिद्धे नियमार्थं वचनम् - अनात्मनेपदविषय एवानयोर्यथा स्यात्, अन्यत्रा मा भूदिति। ननु च स्नोतेरुगन्तत्त्वात्? किति सनि च प्रतिषेधविधानात्? तस्य वचनं विद्यर्थमपि सम्भवति? नैतदस्ति; आर्धधातुकस्येड्वलादेः (7.2.35) इत्यनुवर्तते। तेनास्याः प्राप्तेर्विषये योगोऽयमिति विज्ञायते। न चास्याः प्राप्तेः सन्कितौ विषयौ; तयोरपवादविषयत्वात्। आत्मनेपदनिमित्ते इति प्रथमाद्विवचनान्तम्। स्नुक्रमोरेतद्विशेषणमिति दर्शयितुमाह - न चेत् इत्यादि। क्व च तावात्मनेपदनिमित्ते इति। किं यत्रात्मनेपदं प्रति योग्यतामात्रमपि तयोरस्ति तत्रापि तावात्मनेपदनिमित्ते? उत यत्र तदाश्रयमात्मनेपदं भवति तत्र? एवमर्थ पृच्छति - यत्र इत्यादि। अत्रैवं व्याख्यानम् - यत्र तदाश्रयमात्मनेपदं सम्भवति तत्र तावात्मनेपदनिमित्ते। किं पुनस्तद्? यत्र तदाश्रयमात्मनेपदं भवति? इत्याह - भावकर्मकर्त्तृकर्मकर्मव्यतीहारः, क्रमेश्च इति। एषु हि स्तुक्रम्याश्रयमात्मनेपदं भवति। आदिशब्देन सर्गादिपरिग्रहः। निमित्तम्=कारणम्। न चाकुर्वत्? कार्य#ं कारणं भवति। यत्र त्वकुर्वत्यपि कार्यं कुसूलस्य बीजादौ कारणमपि व्यपदेशः, तत्रासौ योग्यतयौपचारिकः। तस्माद्यत्र स्नुक्रमावाश्रित्यात्मनेपदं भवति, तत्रैव भावकर्मादौ तयोरात्मनेपदनिमित्तं मुख्यं विज्ञायते। तेन इत्यादि। यस्मादेवं यत्र तावाश्रित्यात्मनेपदं भवति तत्र तयोरात्मनेपदनिमित्तत्वम्। तेन सत्यात्मनेपदे प्रतिषेधोऽयं भवति, नासति। न ह्रसत्यात्मनेपदे तयोर्मुख्यमात्मनेपदनिमित्तत्वमुपपद्यते। ततश्च प्रस्नविता, प्रस्नवितुम्, प्रस्नवितव्यम्, प्रक्रमिता, प्रक्रमितुम्, प्रक्रमितव्यमित्यत्र यद्यप्यात्मनेपदयोग्यत्वात्? स्नुक्रमावात्मनेपदस्य निमित्तव्यपदेशमासादयतः, तथापि प्रतिषेधो न भवति। न ह्यत्र मुख्यमात्मनेपदनिमित्तत्वम्; आत्मनेपदाभावात्।प्राप्नोषीष्टेति। आशिषि लिङ्? सीयुट्, **भावकर्मणोः** (1.3.13) इत्यात्मनपदम्, `सुट्तिथोः (3.4.107) इति सुट्, षत्वम्, ष्टुत्वम्। प्रक्रंसीष्ट इति। अत्र प्रोपाभ्यां समर्थाभ्याम (1.3.42) इति कर्तर्थात्मनेपदम्। प्रस्नोष्यते इति। लृट्? शेषे च (3.3.13) इति लृट्। प्रचिक्रंसते [नास्तीदमुदाहरणं काशिकायाम्। प्रचिक्रंसिष्यते इत्येवास्ति] इति। सन्, पूर्ववत्सनः (1.3.62) इत्यात्मानेपदम्। सर्वत्रैव इत्यादि। युक्तं प्रक्रंसीष्ट, प्रस्नीषीष्टेत्यादौ स्नुक्रमोरात्मनेपदस्य निमित्तत्वम्, तस्मादात्मनेपदस्य विधानात्; प्रचिक्रंसत इत्यत्र तु कथं क्रमिरात्मनेपदस्य निमित्तम्, न ह्यत्र क्रमिमाश्रित्यात्मनेपदं भवति, किं तर्हि? सनन्तं धात्वन्तरम्? इत्याह - सनन्तादपि इत्यादि। सनन्तादपि हि यदात्मनेपदं विधीयते पूर्ववत्सनः (1.3.62) इत्यनेन। तेन तत्रापि पूर्ववदिति वचनात्? पूर्व धातुस्वरूपमात्मनेपदस्य निमित्तमाश्रीयत इति। यद्यपि सनन्तादात्मनेपदं विधीयते तथापि क्रमेस्तत्र निमित्ताभावोऽस्त्येवेत्यभिप्रायः। अथ निमित्तग्रहणं किमर्थमुपादीयते, न आत्मनेपदे इत्येवोच्यते? इत्यत आह - निमित्तग्रहणम् इत्यादि। सीयुट्? आदिर्यस्य स सीयुडादिः, तदात्मनेपदे परं यस्मात्? स तत्परः स्यप्रत्ययः, स परो यस्मात्? स तत्परपरः सन्प्रत्ययः; तयोः प्रतिषेदो यथा स्यादित्यवमर्थं निमित्तग्रहणम्। तत्र सीयुडादेः प्रतिषेधार्थम् - प्रस्नोषीष्ट, प्रक्रंसीष्टेति; तत्परपरस्य च प्रतिषेधार्थम् - प्रचिक्रंसिष्यत इति; अत्र हि निमित्तग्रहणं न क्रियते, तदा आत्मनेपदे इत्येषा परसप्तमी विज्ञायेत। न च प्रस्नीषीष्ट, प्रक्रंसीष्टेत्यात्मनेपदे परत आर्धधातुकमस्ति तथा ह्रात्मनेपदस्यागमः सीयुट्, तदेकदेशात्वदात्मनेपदे परत उच्चार्थमाणः प्रतिषेधो न स्यात्। प्रचिक्रंसिष्यत इत्यत्र आत्मनेपदे इत्येतस्यां परसप्तम्यां विज्ञायमानायां तस्मिन्निति निर्दिष्टे पूर्वस्य (1.1.66) इति निर्दिष्टग्रहणस्यानन्तर्यार्थत्वात्? स्येन व्यवधाने सति सन इट्प्रतिषेधो न स्यात्? निमित्तग्रहणे तु सति भवति। अस्ति ह्यत्र सर्वत्र स्नुक्रमोर्यथायोगमात्मनेपदं प्रति निमित्तभावः। तस्मान्निमित्तग्रहणं कर्तव्यम्। प्रस्नवित्रीयत इत्यत स्नौतेरात्मनेपदं परं चोपलब्धम्; अतः स्नौतिरात्मनेपदसय निमित्तमिति प्रतिषेधेन भवितश्यमिति कस्यचिद्भ्रान्तिः स्यात्, अतस्तां निराकर्त्तुमाह - इह प्रस्नवितेवाचरति` इत्यादि। क्वचित्? प्रस्नवितारमिवाचरति इति पाठः, स तु नोपपद्यते। न हि कर्मणः क्यङ्? विधीयते, किं तर्हि? सुबन्तात्? कर्त्तुः। तस्मात्? प्रमादकृतोऽयं पाठः। प्रस्नवितेवाचरतीति तृजन्तात्, कर्त्तुः क्यङ सलोपश्च (3.1.11) इति क्यङ्, रीङृतः (7.4.27) इति रीङ्। क्यङन्तादातमनेपदं विधीयमानं ङित इत्येवं विधीयते। स च स्नौतिर्ङित्? किं तर्हि? क्यङन्तः। तस्मात्? क्यङन्तमेवात्मनेपदनिमित्तं न स्नौतिरिति न भवति प्रतिषेधः। क्रमेस्तु इत्यादि। निमित्तग्रहणात्? सत्येवात्मनेपदे प्रतिषेधेन भवितव्यम्, नासतीति। कर्तरि कृति प्रतिषेधो न प्राप्नोतीत्युपसंख्यायते। प्रक्रान्ता, उपक्रान्ता इति। प्रोपाभ्यां समर्थाभ्याम् (1.3.42) इति प्रोपाम्यामुपसुष्टात्? क्रमेरात्मनेपदवषानादिह क्रमेरात्मनेपदस्य विषयः। आत्मनेपदविषयः [आत्मनेपदविषयात् - मूलम्] इति। आत्मनेपदं विषयो यस्य स आत्मनेपदविषयः। प्रक्रमितव्यम्, उपक्रमितव्यम् इति। तयोरेव कृत्यक्तखलर्थाः (3.4.70) इति भावे कर्मणि कृत्यः। निष्क्रमिता इति। इदुदुपषस्य (8.3.41) इति विसर्जनीयस्य षत्वम्। निष्फूर्वात्? क्रमेरात्मनेपदस्याभावादिहात्मनेपदस्य वषयो न भवति। अथ प्रसुस्नूषति, प्रस्नुतः, प्रस्नुतवानित्यत्र कस्मान्न भवति, न ह्यत्र स्नौतिरात्मनेपदविषयः? इत्यात आह - स्नौतेः इत्यादि। ननु श्रयुकः किति (7.2.11) , सनि ग्रहगुहोश्च (7.2.12) इतीट्प्रतिषेधस्य धात्वन्तरमुगन्तमवकाश इति परत्वादिदैवात्र भवितव्यम्, न प्रतिषेधेन? नैतदस्ति; उक्तं हि पुरस्तात्? प्रतिषेधकाण्जस्य बलीयस्त्वात्? प्रयोजनमिण्मात्रस्थानाश्रितविशेषविधानस्य प्रतिषेधो यथा स्यादिति॥

Sutra Prayogas

  • चिक्रंसया (शिशुपालवधम्): स्नुक्रमोरनात्मनेपदनिमित्ते इतीडागमो न भवति।

  • उपाक्रंस्यचेतितः (भट्टिकाव्यम्): स्रुक्रमोरनात्मनेपदनिमित्ते इति सिच इट् न भवति।

  • अक्रमीन्मारुतिः (भट्टिकाव्यम्): सु-क्रमोरनात्मनेपदनिमित्ते इतीट्।

  • तस्याऽप्यत्यक्रमीत्कालो (भट्टिकाव्यम्): नुक्रमोरनात्मनेपदनिमित्ते इतीट्।