72027: वा दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्ताः¶
Padacheda: वा | S | 0 | 0 |
दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्ताः | S | 1 | 3 |
Sutrartha¶
Vasu English Summary¶
The following irregularly formed participles from the causative roots may optionally take इट् - 1. दान्त 2. शान्त 3. पूर्ण 4. दस्त 5. स्पष्ट 6. छन्न and 7. ज्ञप्त।
Vasu English Translation¶
The following irregularly formed participles from the causative roots may optionally take इट् - 1. दान्त 2. शान्त 3. पूर्ण 4. दस्त 5. स्पष्ट 6. छन्न and 7. ज्ञप्त। These words are formed either from the causative base or from the primary roots दम् &c. The other forms are दमितः, शमितः, पूरितः, दासितः, स्पाशितः, छादितः and ज्ञपितः ॥ The words दान्त &c. are formed by the luk-elision of णि (Causative), and not taking the इट् Augment. By (7.2.49) ज्ञप् optionally is सेट् and, therefore, by (7.2.15), its Participle would have been always अनिट्, hence, this sutra makes an option.
Bhashya¶
वा दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्ताः अथ(1) दान्तशान्तयोः किं निपात्यते ? ॥ दान्तशान्तयोरुपधादीर्घत्वं च ॥ (दान्तशान्तयोरुपधादीर्घत्वञ्ञ्च) ॥ किं च ? ॥ णिलोपेट्प्रतिषेधौ च ॥ उपधादीर्घत्वमनिपात्यं, वृध्द्या सिद्धम् ॥ न सिध्यति, मितां ह्रस्व इति ह्रस्वत्वेन भवितव्यम् ॥ एवं तर्ह्यनुनासिकस्य क्विझलोः क्ङितीत्येवात्र (2)दीर्घत्वं भविष्यति ॥ न सिध्यति ॥ किं कारणम् ? ॥ णिचा व्यवहितत्वात् ॥ णिलोपे कृते नास्ति व्यवधानम् ॥ स्थानिवद्भावाद्व्यवधानमेव ॥ प्रतिषिध्यतेऽत्र स्थानिवद्भावो दीर्घविधि प्रति न स्थानिवदिति ॥ अथ स्पष्टच्छन्नयोः किं निपात्यते ? ॥ स्पष्टच्छन्नयोरुपधाह्रस्वत्वं च ॥ ( स्पष्टच्छन्नयोरुपधाह्रस्वत्वं च ) ॥ किं च ? ॥ णिलोपेट्प्रतिषेधौ च ॥
Kashika¶
णेरित्यनुवर्तते। दम् शम् पूरी दस् स्पश् छद् ज्ञप् इत्येतेषां ण्यन्तानां धातूनां वानिट्त्वं निपात्यते। दान्तः, दमितः। शान्तः, शमितः। पूर्णः, पूरितः। दस्तः, दासितः। स्पष्टः, स्पाशितः। छन्नः, छादितः। ज्ञप्तः, ज्ञपितः। इट्प्रतिषेधो णिलुक् च निपात्यते। ज्ञपेस्तु भरज्ञपिसनाम् (७.२.४९) इति विकल्पविधानाद् यस्य विभाषा (७.२.१५) इति नित्ये प्रतिषेधे प्राप्ते विकल्पार्थं निपातनम्॥
Siddhanta Kaumudi¶
एते णिचि निष्ठान्ता वा निपात्यते । पक्षे । दमितः । शमितः । पूरितः । दासितः । स्पाशितः । छादितः । ज्ञपितः ॥
Balamanorama¶
वा दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्ताः - वा दान्त ।णेरध्ययने वृत्त॑मित्यतो णेरित्यनुवर्तते । ‘दमु शमु उपशमे’ ण्यन्ताभ्यामिडभावो निपात्यते ।अनुनासिकस्ये॑ति दीर्घः । णिलोपस्तु न स्थानिवत्, निपातनाद्दीर्घविधौ तन्निषेधाच्च । दान्तः । शान्तः । ‘पूरी आप्यायने’ ण्यन्तात्क्तः, इडभावो निपात्यते, णिलोपः । रात्परत्वान्नत्वं, णत्वं । पूर्णः । एतेनन ध्याख्यापृमूर्च्छी॑त्येव सिद्धे पूर्णग्रहणं व्यर्थमित्यपास्तम्, पूरीधातोण्र्यन्तात्पूर्णरूपार्थत्वात् । ‘दसु उपक्षये’ ण्यन्तात् इडभावो निपात्यते, उपधावृद्ध्यभावश्च । णिलोपः । ‘स्पश बाधने’ ण्यन्तात् क्तः, इडभावो निपात्यते, उपधावृद्ध्यभावश्च । णिलोपः । स्पष्टम् ।छद अपवारणे॑ । ण्यन्तात्क्तः । इडभावो वृद्ध्यभावश्च निपात्यते । णिलोपः ।रदाभ्या॑मिति नत्वं, — छन्नः ।ज्ञप मिच्चे॑ति चुरादिण्यन्तात् क्तः । इडभावो णिलोप इति कैयटः । ज्ञप्तः । पक्ष इति । निपातनाऽभावपक्ष इत्यर्थः । दमितः शमित इति । अमन्तत्वेन मित्त्वाद्ध्रस्वः । ज्ञापत इति । अचौरादिकस्य रूपम् । चौरादिकस्य तु ज्ञपित इत्येव ।
Tattvabodhini¶
वा दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्ताः - वा दान्त । शमु दमु उपशमे, पूरी आप्यायने, दिवादिश्चुरादिश्च । दसु उपक्षये, स्पश बाधने, छद अपवारणे । ज्ञपिर्मित्संज्ञायांमारणतोषणनिशामनेष्वि॑त्युक्तः ।
Padamanjari¶
दान्तः, शान्त इति । दमिशमी उपशमनार्थे । णलुगिट्प्रतिषेधयोः अनुनासिकस्य क्विझलोः इति दीर्घः । निपात्यमानस्य च णिलुकोऽपरनिमितकत्वाद्दीर्घविधिं प्रति निषेधाच्च स्थानिवद्भावो नास्ति । पूर्ण इति । पूरी आप्यायने दिवादिः, चुरादिश्च । दस्त इति । तसु उपक्षये दमु च । अत्र ह्रस्वत्वमपि निपात्यते । स्पष्टः च्छन्न इति । स्पशबाधनस्पर्शनयोः, च्छद अपवारणे । अत्रापि ह्रस्वत्वमपि निपात्यते । ज्ञप्त इति । ज्ञप मिच्च, एचुरादिः । इट्प्रतिषेधो णिलुक्च निपात्यत इति । चकारात्क्वचिदुपधाह्रस्वत्वं च । क्वचित्पठ।ल्ते - ज्ञपेभंरज्ञपिसनामिति विकल्पिविधानाद्यस्य विभाषेतीट्प्रतिषेधे प्राप्ते विकल्पार्थे निपातनमिति । एकाज्ग्रहणम् यस्य विभाषा इत्यत्र नानुवर्तत इति भावः । अत्रादितश्चतुर्णां ग्रहणं शक्यमकर्तुम् । कथमन्तर्भवितण्यर्थानां प्रकृत्यन्तानां दान्त इत्यादीनि रुपाणि, अन्यत्र ण्यन्तानां दमित इत्यादीनि ॥
Nyaas¶
दान्तः, शान्तः इति। शमु दमु उपशमे (धातुपाठः-1201,1203)। हेतुमण्णिच्, णिलुगिट्प्रतिषेधयोः कृतयोः अनुनासिकस्य क्विझलोः क्ङिति (6.4.15) इति दीर्घः। ननु च णिलोपस्य स्थानिवद्भावाद्व्यवधाने सति न प्राप्नोति? नैतदस्ति; न हि निपातनेन लोपे सति तस्य परनिमित्तत्वव्यपदेशो विद्यते, तत्? कुतः स्थानिवद्भावः! न पदान्त (1.1.57) इत्यादिना दीर्घविधौ स्थानिवद्भावप्रतिषेधाच्च। दमितः, शमितः इति। मितां ह्रस्वः (6.4.92) इति ह्रस्वत्वम्। पूर्णः इति। पूरी आप्यायने (धातुपाठः-1803)। दिवादिश्चुरादिश्च। दस्तः इति। तसु उत्क्षेपे (धातुपाठः-1212) [उपक्षये - धातुपाठः-] दसु च (धातुपाठः-1213)। अत्रोपधा ह्रस्वत्वमपि निपात्यते। स्पष्टश्छन्नः इति। स्पश बाधनस्पर्शनयोः (धातुपाठः-887), `छद अपवारणे (धातुपाठः- 1935)। अत्रापयुपधाह्रस्वत्वमपि निपात्यते। ज्ञप्त इति। ज्ञप मारणतोषणनिशामनेषु (धातुपाठः-1624)[ज्ञानज्ञापनमारणतोषणनिशाननिशामनेषु - धातुपाठः-] इति चुरादिः, `मारणतोषणनिशामनेषु ज्ञा मिच्च (धातुपाठः-811) इति घटादिश्च, ततो णिच्। इट्प्रतिषेधो णिलुक्च इति। चकारात्? क्वचिदुपधाह्रस्वत्वमपि निपात्यते॥
Prakriyasarvasvam¶
णिजन्तानां दमादीनां दान्ताद्या वा निपातिताः । <karika>दान्तश्च दमितः शान्तः शमितः पूर्णपूरितौ ॥ ११७ ॥</karika> <karika>उपक्षये दसिस्तस्य णिचि दस्तश्च दासितः । स्पश बाधन इत्यस्य स्पष्टः स्पाशित इत्यपि ॥ ११८ ॥</karika> एवं छन्नः छादितः । ज्ञप्तः ज्ञपितः । ज्ञपयतेर्ज्ञानार्थत्वात् तस्य च सनि वेट्त्वात् ज्ञातोऽपि ज्ञप्तः । सर्वत्रेट्पक्षे ‘निष्ठायां सेटि’ (६-४-५२) इति णिलोपः । अन्यत्र निपातनात् सर्वसिद्धिः ॥
Sutra Prayogas¶
प्रशान्तघर्माभिभवः (किरातार्जुनीयम्): वा दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्ताः इति निपातनात्साधुः।
प्रच्छन्नः (किरातार्जुनीयम्): वा दान्तशान्त- इत्यादिना निपातः।
छन्नेऽपि (शिशुपालवधम्): वा दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्ताः इति वैकल्पिको निपातः।