72024: अर्देः संनिविभ्यः

Padacheda: अर्देः | S | 6 | 1 |

सन्निविभ्यः | S | 5 | 3 |

Sutrartha


Vasu English Summary

The participial affix does not take the augment इट् after the root अर्द when it is preceded by 1. सं 2. नि or 3. वि।

Vasu English Translation

The participial affix does not take the augment इट् after the root अर्द when it is preceded by 1. सं 2. नि or 3. वि। As समर्णः, ‘plagued’ न्यर्णः, ष्यर्णः ॥ Why ‘of अर्द’? Observe समेधितः ॥ Why ‘सम्, नि or वि’? Observe अर्दितः ॥

Kashika

सं नि वि इत्येतेभ्य उत्तरस्यार्देर्निष्ठायामिडागमो न भवति। समर्णः। न्यर्णः। व्यर्णः। अर्देरिति किम्? समेधितः संनिविभ्य इति किम्? अर्दितः॥

Siddhanta Kaumudi

एतत्पूर्वादर्देर्निष्ठाया इण्न स्यात् । समर्णः । न्यर्णः । व्यर्णः । अर्दितोऽन्यः ॥

Nyaas

अर्देः इति। अर्द गतौ याचने च (धातुपाठः-55)॥

Prakriyasarvasvam

एभ्योऽर्देर्निष्ठायामिण् न । दान्तत्वान्नत्वम् । समर्णः । न्यर्णः । व्यर्णः । अर्दितोऽन्यः ॥

Sutra Prayogas

  • अ-व्यर्णो (भट्टिकाव्यम्): अर्देः सं-नि-विभ्यः इति इट्प्रतिषेधः।