72029: हृषेर्लोमसु

Padacheda: हृषेः | S | 6 | 1 |

लोमसु | S | 7 | 3 |

Sutrartha


Vasu English Summary

The participial affix may optionally get इट् augment after हृष् when the word लोमन् or its synonym is in construction with it.

Vasu English Translation

The participial affix may optionally get इट् augment after हृष् when the word लोमन् or its synonym is in construction with it. As हृष्टानि लोमानि or हृषितानि लोमानि; हृष्टाः केशाः or हृषिताः केशाः, हृष्टं or हृषितं लोमभिः or केशैः ॥ हृषु ‘to lie’ (1.7.1) is exhibited with an indicatory उ in the Dhatupatha, and would have been consequently always anit, in the Nishtha (7.2.15) because it was optionally anit before ktva (7.2.56) hence this rule. ह्रष् ‘to be delighted’ (4.1.9) is also included here, this verb is सेट् ॥ The option appertains to both these verbs. The word लोम means the hair of the body as well as of the head : as in the sentence लोमनखं स्पृष्ट्वा शौचं कर्त्तव्यम् ॥ The sense of हृष् in connection with लोम or will be that of bristling up, horipillation. Why do we say “in connection with लोम?” Observe हृष्टो (bhuadi) देवदत्तः ‘the deceived Devadatta’ and ह्रषितो (Divadi) देवदत्तः ‘the delighted Devadatta’.

Vart:- The option is allowed also in the senses of ‘astonished’ and ‘beaten back’, as ह्रष्टो or हृषितो देवदत्तः ‘the astonished Devadatta’. हृष्टाः or हृषिता दन्ताः ‘the bent or destroyed teeth’.

Bhashya

हृषेर्लोमसु ॥ 8 ॥ हृषेर्लोमकेशकर्तृकस्य ॥ हृषेलोमकेशकर्तृकस्येति वक्तव्यम् । हृष्टानि लोमानि हृषितानि लोमानि । हृष्टं लोमभिः हृषितं लोमभिः । हृष्टाः केशाः हृषिताः केशाः । हृष्टं केशैः हृषितं केशैः ॥ ( ॥ विस्मितप्रतिघातयोः(1) ॥) ॥ विस्मितप्रतिघातयोरिति वक्तव्यम् । हृष्टो देवदत्तः । हृषितो देवदत्तः। हृष्टा दन्ताः । हृषिता दन्ताः ॥ ( हृषेर्लोमसु ) ॥

Kashika

लोमसु वर्तमानस्य हृषेर्निष्ठायां वेडागमो न भवति। हृष्टानि लोमानि, हृषितानि लोमानि। हृष्टं लोमभिः, हृषितं लोमभिः। हृष्टाः केशाः, हृषिताः केशाः। हृष्टं केशैः, हृषितं केशैः। हृषु अलीके इत्युदित्त्वाद् निष्ठायामनिट्। हृष तुष्टौ इत्ययं सेट्। तयोरुभयोरिह ग्रहणमित्युभयत्रविभाषेयम्। लोमानि मूर्द्धजानि अङ्गजानि च सामान्येन गृह्यन्ते, यथा लोमनखं स्पृष्ट्वा शौचं कर्तव्यम् (महाभाष्य १.२५) इति। तद्विषये च हृषिर्वर्तमानो लोमसु वर्तत इत्युच्यते। लोमस्विति किम्? हृष्टो देवदत्त इत्यलीकार्थस्य, हृषितो देवदत्त इति तुष्ट्यर्थस्य॥ विस्मितप्रतिघातयोश्चेति वक्तव्यम्॥ हृष्टो देवदत्तः, हृषितो देवदत्तः। विस्मित इत्यर्थः। हृष्टा दन्ताः, हृषिता दन्ताः। प्रतिहता इत्यर्थः॥

Siddhanta Kaumudi

हृषेर्निष्ठाया इड्वा स्यात् लोमसु विषये । हृष्टं हृषितं लोम ।<!विस्मितप्रतिघातयोश्च !> (वार्तिकम्) ॥ हृषो हृषितो मैत्रः । विस्मितः प्रतिहतो वेत्यर्थः । अन्यत्र तु । हृषु अलीके । उदित्वान्निष्ठायां नेट् । हृष तुष्टौ इट् ॥

Balamanorama

हृषेर्लोमसु - ह्मषेर्लोमसु । लोमसु कर्तृष्विति बोध्यम् । इदं चअजर्य॑मिति सूत्रे भाष्ये स्पष्टम् । ह्मष्टं ह्मषितं लोमेति ।गत्यर्थाऽकर्मके॑ति कर्तरि क्तः । रोमाञ्चितभूतमित्यर्थः । विस्मितप्रतिघातयोश्चेति । वार्तिकमिदम् ।ह्मषेर्निष्ठाया इड्वे॑ति शेषः । उदित्त्वादिति ।उदितो वे॑ति क्त्वायां वेट्कत्वात्यस्य विभाषे॑ति निष्ठायां नेडित्यर्थः । तथा अलीकेऽर्थे ह्मष्ट इत्येव । मृषोक्तवानित्यर्थः । इडिति । ‘ह्मष तुष्टौ’ इति धातोः क्ते इडेव भवतीत्यर्थः । ह्मषितः । तुष्ट इत्यर्थः । विस्मितप्रतिघातयोस्तु धातूनामनेकार्थत्वाद्वृत्तिः । तत्र लोमसु, विस्मितप्रतिघातयोश्च ‘ह्मषु अलीके’ इत्यस्मात् ।यस्य विभाषेटति नित्यमिण्निषेधे प्राप्ते विभाषेयम् । ‘ह्मष तुष्टौ’ इत्यस्मात्तु नित्यमिट्प्राप्तौ विभाषेति विवेकः ।

Tattvabodhini

हृषेर्लोमसु - ह्मषेः । ह्मषु अलीके । उदित्तवन्निष्ठायामनिट्, ह्मष तुष्टौ सेट्, उभयोरपि ग्रहणमित्युभयत्र विभाषेयम् ।

Padamanjari

हृष्टानि - उत्स्फुटानि, मूद्धंजाः - केशाः । अङ्गान्तरजानि लोमानि इति निघण्टुअप्रसिद्धिः । कल्पसूत्रकारणामपि तदनुगुणाः प्रयोगाः - केशश्मश्रुलोमनखं वापयन्तीति, तैह तु केशानामपि ग्रहणम् इत्याह - मूर्द्धजान्यङ्गजानि चेति । अत्र विशेष्यं मृघ्यम् । सामान्येन गृह्यन्त इति । क्व यथा इत्यात्राह - यथेति । ननु क्रियावचनस्य धातोः कथं द्रव्यात्मकेषु लोमसु वृत्तिः इत्यत आह - तद्विषये चेति । प्रतिहताः कठिनद्रव्याखादनेन, शीतपीङ्या वा हता इत्यर्थः ॥

Vartika

विस्मितप्रतिघातयोश्च ।

Sutra Prayogas

  • हृषिततनुरुहा (शिशुपालवधम्): हृषेर्लोमसु इतीडागमः।

  • हृषिताभिः (शिशुपालवधम्): हृषेर्लोमसु इतीडागमः।

  • सुखवेदनाहृषितरोमकूपया (शिशुपालवधम्): हृषेर्लोमसु इतीडागमः।

  • हृष्टरोमेव (शिशुपालवधम्): हृषेर्लोमसु इति विकल्पादिडभावः।

  • हृषितवपुः (शिशुपालवधम्): हृषेर्लोमसु इतीडागमः।

  • यियविषुर (भट्टिकाव्यम्): सनीवन्त इति विभाषेट्।