72028: रुष्यमत्वरसंघुषास्वनाम्¶
Padacheda: रुष्यमत्वरसंघुषास्वनाम् | S | 6 | 3 |
Sutrartha¶
Vasu English Summary¶
The participial affix may optionally get इट् augment after 1. रुष् 2. अम् 3. त्वर 4. संघुष् and 5. आस्वन्।
Vasu English Translation¶
The participial affix may optionally get इट् augment after 1. रुष् 2. अम् 3. त्वर 4. संघुष् and 5. आस्वन्। As रुष्टः or रुषितः ॥ By (7.2.48), the affixes after रुष् are optionally सेट्, and therefore by (7.2.15), the Nishtha after this verb would have been always anit; hence this optional rule. अभ्यान्तः or अभ्यमितः; तूर्णः or त्वरितः ॥ The त्वर् is exhibited in the Dhatupatha as ञित्वरा (1.8.2) i.e. with an indicatory long आ, and hence by (7.2.16). would have been anit always, this rule makes it optionally anit. So also, संघुष्टौ पादौ, or संघुषितौ पादौ, संघुष्टं or संघुषितं वाक्यमाह, संघुष्टौ or संघुषितौ दम्यौ ॥ घुष preceded by सम् will be optionally anit, even when having any sense other than that of ‘proclaimed’, as this subsequent sutra supersedes (7.2.23) so far. So also आस्वान्तः or आस्वनितौ देवदत्तः, आस्वान्तम् or आस्वनितं मनः ॥ स्वन् when preceded by आ, though denoting ‘mind,’ is optionally anit, in spite of (7.2.18), that rule being superseded so far by this subsequent rule.
Bhashya¶
रुष्यमत्वरसंघुषास्वनाम् ॥ घुषिस्वनोर्वावचनमिट्प्रतिषेधाद्विप्रतिषेधेन ॥ घुषिस्वनोर्वानचनमिट्प्रतिषेधाद्भवति विप्रतिषेधेन । घुषेरिट्प्रतिषेधस्याऽवकाशः - असंपूर्वादविशब्दनम् - घुष्टा रज्जुः घुष्टो माथः(4) । वावचनस्यावकाशः - संपूर्वाद्विषब्दनम् - सङ्घुष्टं वाक्यं सङ्घुषितं वाक्यम् । संपूर्वादविशब्दने उभयं प्राप्नोति - सङ्घुष्टा रज्जुः सङ्घुषिता रज्जुः । वावचनं भवति विप्रतिषेधेन ॥ स्वन इट्प्रतिषेधस्यावकाशः अनाङ्पूर्वान्मनोऽभिधानं - स्वान्तं मनः । वावचनस्यावकाशः - आङ्पूर्वादमनोऽभिधानम् - आस्वान्तो देवदत्तः आस्वनितो देवदत्तः । आङ्पूर्वान्मनोभिधान उभयं प्राप्नोति - आस्वान्तं मनः आस्वनितं मनः । वावचनं भवति विप्रतिषेधेन ॥ ( रुष्यमत्वरसंघुषास्वनाम् ) ॥
Kashika¶
वेति वर्तते। रुषि अम त्वर संघुष आस्वन इत्येतेषां निष्ठायां वेडागमो न भवति। रुष्टः, रुषितः। तीषसहलुभरुषरिषः (७.२.४८) इति विकल्पविधानाद् यस्य विभाषा (७.२.१५) इति प्रतिषेधे प्राप्ते विकल्पार्थं वचनम्। अम् — अभ्यान्तः, अभ्यमितः। त्वर — तूर्णः, त्वरितः। आदितश्च (७.२.१६) इति प्रतिषेधे प्राप्ते वचनम्। संघुष — संघुष्टौ पादौ, संघुषितौ पादौ। संघुष्टं वाक्यमाह, संघुषितं वाक्यमाह। संघुष्टौ दम्यौ, संघुषितौ दम्यौ। संपूर्वस्य घुषेरविशब्दनेऽपि परत्वादयमेव विकल्पो भवति। आस्वन — आस्वान्तो देवदत्तः, आस्वनितो देवदत्तः। आस्वान्तं मनः, आस्वनितं मनः। आङ्पूर्वस्य स्वनेर्मनोऽभिधानेऽपि परत्वादयं विकल्पः क्षुब्धस्वान्त० (७.२.१८) इति निपातनं बाधते॥
Siddhanta Kaumudi¶
एभ्यो निष्ठाया इड्वा । रुषितः । रुष्टः । आन्तः । अमितः । तूर्णः । त्वरितः । अस्याऽऽत्त्वे फलं मन्दम् । संघुष्टः । संघुषितः । आस्वान्तः । आस्वनितः ॥
Balamanorama¶
रुष्यमत्वरसंघुषास्वनाम् - रुष्यमत्वर । रुषि, अम,त्वर, संघुष् , आस्वन् — एषां द्वन्द्वः । णेरिति निवृत्तम् । पञ्चम्यर्थे षष्ठी । तदाह — एभ्य इति । वा स्यादिति । ‘वा दान्ते’ त्यतस्तदनुवृत्तेरिति भावः । रुष्टः रुषित इति ।तीषसहे॑ति रुषो वेट्कत्वात्यस्य विभाषे॑ति निषेधे प्राप्ते विकल्पोऽयम् । आन्तः अमित इति । ‘अम गत्यादिषु’ क्तः । इडभावपक्षेअनुनासिकस्ये॑ति दीर्घः । तूर्णः त्वरित इति । ‘ञि त्वरा संभ्रमे’ क्तः, इडभावपक्षेज्वरत्वरे॑त्यूठ् ।रदाभ्या॑मिति नत्वम् । णत्वम् ।आदितश्चे॑ति नित्यमिण्निषेधे प्राप्ते विकल्पोऽयम् । आदित्त्वस्य तु फलमात्मनेपदमात्रं । तदाह — अस्य आदित्वे फलं मन्दमिति । तथा च ‘एध वृद्धौ’ इत्यादिवद्ध्रस्वानुबन्धत्वमेव न्याय्यमिति भावः । संघुष्टः संघुषित इति । ‘घुषिरविशब्दने’ इति घुषेः संपूर्वस्य नित्यमिण्निषेधे प्राप्ते विकल्पोऽयम् । आस्वान्तः आस्वनित इति । आङ्पूर्वात् स्वनेः क्तः । इडभावपक्षेअनुनासिकस्ये॑ति दीर्घः ।क्षुब्धस्वान्ते॑ति निपातनं तु आङ्पूर्वस्य स्वनेर्न भवति, परत्वादस्यैव विकल्पस्य प्राप्तेरित्याहुः ।न वे॑ति सूत्रभाष्ये तुसङ्घुषाऽऽस्वनोर्विषये उभयत्र विभाषे॑त्युक्तम् ।
Tattvabodhini¶
रुष्यमत्वरसंघुषास्वनाम् - रुष्य । रुष रोषेतीषसहे॑ति विकल्पितेट्कत्वात्यस्य विभाषे॑त नित्ये निषेधे प्राप्ते विकल्पो विधीयते । अम गत्यादिषु । अम रोगे इति चौरादिकस्तु न गृह्रते,एकाचः॑ इत्यधिकारादित्ययाहुः । आन्त इति ।अनुनासकिस्ये॑ति दीर्घः । तूर्ण इति । ञित्वरा संभ्रमे,ज्वरत्वरे॑त्यूठ् । निष्ठानत्वम् ।आदितश्चे॑ति निषेधे प्राप्ते विकल्पः । एवं च आदित्त्वस्य फलमात्मनेपदमात्रं, तच्च एधत्यादिवद्ध्रस्वानुबन्धत्वेऽपि सिध्यत्येवेत्याशयेनाह — फलं मन्दमिति । संघुष्ट इति । संपूर्वाद्धुषेर्विशब्दने इटि प्राप्ते विकल्पोऽयम् । अविशब्दनेऽपि संपूर्वस्य परत्वादयं विकल्प एव । आस्वान्त इति । आङ्पूर्वस्य स्वनेर्मनोभिधानेऽप्ययमेव विकल्पः, परत्वात् । आस्वान्तं मनः । आस्वनितं मन इति ।
Padamanjari¶
अभ्यान्त इति । अम गत्यादिषु, पुर्ववद्दीर्घः । तॄण इति । ञित्वरा सम्भ्रमे, ज्वरत्वर तैत्यादिनोठ । आदितश्चेतीट्प्रतिषेधे प्राप्त इति । आदित्वे तु प्रयोजनं मृग्यम् । आत्मनेपदार्थं तावत्कश्चिदनुबन्ध थाअसञ्जनीयः । कश्चिदाह - आदित्वं यङ्लुगर्थमिति, न हि तत्रायं विकल्पः, एकाचः इत्यनुवृतेः । आदित्करणसामर्थ्याच्चानुबन्धनोऽपि आदितश्च इतीट्पिरतिषेधो यङ्लुकि भवति । सम्पूर्वस् धुषेरिति । घुषिरविशब्दने इत्यस्यासम्पूर्वोऽवकाशः - घुष्टा रज्जुः, अस्य विकल्पस्यावकाशः सम्पूर्वत्वे सति विशब्दने - संघुष्ट्ंअ वाक्यमाह, संपूर्वस्याविशब्दने विप्रतिषेधः । आङ्पूर्वस्येत्यादि । क्षुब्धस्वान्त इति निपातनस्यावकाशोऽनाङ्पूर्वत्वे सति मनोऽभिधाने - स्वान्तं मन इति , अस्य विकल्पस्यावकाशः, - आङ्पूर्वत्वे सत्यमनोऽभिधाने आङ्पूर्वत्वे मनोऽभिधाने च सति विप्रतिषेधः ॥
Nyaas¶
रुष रोषे (धातुपाठः-1670), अम गत्यादिषु (धातुपाठः-465)। अम रोगे (धातुपाठः-1720) इत्येतस्य चौरादिकस्य ग्रहणं न भविष्यति; एकाच (7.2.10) इत्यधिकारात्। ञि त्वरा सम्भ्रमे (धातुपाठः-775) सम्पूर्वः। पूर्वोक्तो धुषिः। आङ्पूर्वः पूर्वोक्त एव स्वनिः। आस्वान्तः इति। पूर्ववद्दीर्घः। तूर्णः इति। ज्वरत्वररुआव्यविमवामुपधायाः (6.4.20) इत्यूठ्। सम्पूर्व इत्यादि। घुषिर्? अविशब्देने (धातुपाठः-653) इत्यस्यावकाशोऽसम्पूर्वत्वे सत्यविशब्देन - घुष्टा रज्जुः, धुष्टौ पादाविति। अस्य च वचनस्यावकाशः सम्पूर्वत्वे सति विशब्दने - संघुषितं वाक्यमाह, संघुष्टं वाक्यमाहेति; सम्पूर्वत्वे सत्यविशब्दन उभयप्राप्तौ परत्वादनेन विक्लपो भवति - संघुष्टौ दन्तौ, संघुषितौ दन्ताविति। आङ्पूर्वस्य इत्यादि। क्षुब्धस्वान्त (7.2.18) इति स्वनरिट्प्रतिषेधस्यावकाशः। अनाङपूर्वत्वे सति मनोऽभिधाने स्वान्तं मन इत्यस्यावकाशः, आङ्पूर्वत्वे सतयमनोऽभिधानम्। आस्वन्तो देवदत्तः, आस्वनितो देवदत्तः इति। आङ्पूर्वत्वे सति मनोऽभिधाने स्वान्तं मन इत्यस्यावकाशः, आङ्पूर्वत्वे सत्यमनोऽभिधानम्। आस्वन्तो देवदत्तः, आस्वनितो देवदत्तः इति। आङ्पूर्वत्वे सति मोनऽभिधाने परत्वादयमेव विकलपो भवति - आस्वान्तं मनः, आस्वनितं मनः॥
Prakriyasarvasvam¶
एषां निष्ठायामनिट्त्वं वा स्यात् । रुष्टः, रुषितः । ‘अम गत्यादौ रोगे च’ । ‘अनुनासिकस्य—’ (६-४-१५) इति दीर्घः । आन्तः, अमितः । ‘ज्वरत्वर—’ (६-४-२०) इति झल्युठ् । ‘रदाभ्यां—’ (८-२-४२) इति नः । तूर्णः, त्वरितः । संघुष्टः, संघुषितः । आस्वान्तः, आस्वनितः ॥
Sutra Prayogas¶
तूर्णम् (भट्टिकाव्यम्): रुष्यमत्वर… इत्यादिना पक्षे दाशरथम् ।
राम-संघुषितं (भट्टिकाव्यम्): तस्य निष्ठायां रुष्यमत्वर इत्यादिना वि कल्पेनेट्।
रुषितो रुष्टांस्त्वरितस् (भट्टिकाव्यम्): रुष्यमत्वर इत्यादिना निपातः।