72031: ह्रु ह्वरेश्छन्दसि

Padacheda: ह्रु | S | | | 1

ह्वरेः | S | 6 | 1 |

छन्दसि | S | 7 | 1 |

Sutrartha


Vasu English Summary

ह्रु is substituted for ह्वर् in the छन्दस् (Vedas) before the Participial-affix.

Vasu English Translation

ह्रु is substituted for ह्वर् in the छन्दस् (Vedas) before the Participial-affix. As ह्रुतस्य चाह्रुतस्य च, आह्रुतमसि हविर्धानम् (Vaj San. I.9). But ह्रुतम् in secular literature.

Kashika

ह्वरतेर्धातोर्निष्ठायां छन्दसि ह्रु इत्ययमादेशो भवति। ह्रुतस्य चाह्रुतस्य च। अह्रु॑तमसि हवि॒र्धान॑म् (मा०सं० १.९)। छन्दसीति किम्? ह्वृतम्॥

Siddhanta Kaumudi

ह्ररेर्निष्ठाया ह्रु आदेशः स्यात् । अह्रुतमसि हविर्धानम् ॥

Padamanjari

ह्वरेरिति । ह्वृ कौटिल्ये । आगन्तुकेकारे गुणेन निर्द्देशः ॥

Nyaas

ह्वृ कौटिल्ये (धातुपाठः-931) इत्येतस्यानुदात्तत्वादिट्प्रतिषेधोऽस्त्येवेत्यादेशार्थ वचनम्॥

Prakriyasarvasvam

ह्वृ कौटिल्ये इत्य स्य निष्ठायां हु इति स्यात् । अहुतो महः ।