72032: अपरिह्वृताश्च¶
Padacheda: अपरिह्वृताः | S | 1 | 3 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
The word अपरिह्वृता is irregularly formed in the छन्दस् (Vedas).
Vasu English Translation¶
The word अपरिह्वृता is irregularly formed in the छन्दस् (Vedas). The ह्रु substitution required by the last sutra, does not take place here. As अपरिह्वृताः सनुयाम वाजम् (Rig I.100.19).
Kashika¶
अपरिह्वृता इति निपात्यते छन्दसि विषये। ह्रु इत्येतस्यादेशस्याभावो निपात्यते। अप॑रिह्वृताः सनुयाम॒ वाज॑म् (ऋ० १.१००.१९)॥
Siddhanta Kaumudi¶
पूर्वेण प्राप्तस्यादेशस्याभावो निपात्यते । अपह्वृताः सनुयाम वाजम् (अप॑ह्वृताः सनुयाम॒ वाज॑म्) ॥
Padamanjari¶
आदेशस्याभाव इति । पूर्वसूत्रेण प्राप्तस्य । वहूवचननिर्द्देशश्च्छन्दसि तस्यैव प्रयोगदर्शनात् ॥
Nyaas¶
ह्यु इत्येतस्यादेशस्याभावो निपात्यते` इति। पूर्वसूत्रेण प्राप्तस्य। बहुवचननिर्देशो बहवचन एव निपातनं यथा स्यात्। तेन क्चनान्तरे हि अपरिह्युतः, अपरिह्यु, अपरिह्युतावित्येव भवति॥
Prakriyasarvasvam¶
अत्रादेशाभावो निपात्यते । अपरिह्वृताः सनुयाम । परिह्वृते दना जन इत्यपि दृश्यते ।