72026: णेरध्ययने वृत्तम्

Padacheda: णेः | S | 6 | 1 |

अध्ययने | S | 7 | 1 |

वृत्तम् | S | 1 | 1 |

Sutrartha


Vasu English Summary

The word वृत्त is formed from the causative of वृत् in the sense of ‘studied through or read’.

Vasu English Translation

The word वृत्त is formed from the causative of वृत् in the sense of ‘studied through or read’. There is absence of इट् and luk-elision of the causative sign. As वृत्तो गुणो देवदत्तेन ‘Devadatta has read or gone through Guna.’ (गुणः पाठः पदक्रमसंहिता रूपोऽध्यनविशेषः)॥ वृत्तं पारायणं देवदत्तेन ॥ When the sense is not that of ‘read’, we have वर्त्तितम् ॥ The root वृत् is intransitive, and becomes Transitive when employed in the Causative. The participle is formed from this Transitive causative verb, otherwise it could not have governed an object as shown above. “The affix क्त is added with a Passive force to वृत्, as we find the author himself using this form in निर्वृत्तम् in sutras (4.2.68), and (5.1.79); on the analogy of निर्वृत्त the word वृत्तः could also have been formed without this sutra.”

Bhashya

णेरध्ययने वृत्तम् किं पुन(1)रिदमध्ययनाऽभिधायिकायां निष्ठायां निपातनं क्रियते आहोस्विदध्ययने चेद्वृतिर्वर्त्तत इति ? ॥ किं चातः ? ॥ यद्यध्ययनाभिधायिकायां निष्ठायां(2) निपातनं क्रियते, सिद्धं वृत्तो गुणः वृत्तं पारायणम् । वृत्तं(3) गुणस्य वृत्तं पारायणस्येति न सिध्यति ॥ अथ विज्ञायते - अध्ययने चेद्वृतिर्वर्त्ततइति न दोषो भवति ॥ यथा न दोषस्तथास्तु ॥ अध्ययने चेद्वृतिर्वर्त्ततःइत्यपि वै विज्ञायमाने न सिध्यति ॥ किं कारणम् ? ॥ वृत्तिरयमकर्मकः ॥ अकर्मकाश्चापि ण्यन्ताः सकर्मका भवन्ति, अकर्मकश्चात्र वृतिः ॥ कथं पुनर्ज्ञायतेऽकर्मकोऽत्र वृतिरिति ? ॥ अकर्मकाणां भावे क्तो भवती(1)त्येवमत्र भावे क्तो भवति । तत्र उदितः क्त्व विभाषा(2), यस्य विभाषेति इट्प्रतिषेधो भविष्यति ॥ अथ णिग्रहणं किमर्थम् ? ॥ ॥ वृत्तनिपातने णिग्रहण(3)मण्यन्तस्याऽवधारणप्रतिषेधार्थम् ॥ वृत्तनिपातने णिग्रहणं क्रियते ॥ (किं प्रयोजनम्(4) ? ॥ अण्यन्तस्याऽवधारणप्रतिषेधार्थम्) । अण्यन्तस्याऽवधारणं माभूदिति ॥ कैमर्थक्यान्नियमो भवति ? ॥ विधेयं नास्तीति कृत्वा ॥ इह चास्ति विधेयं ॥ किम्(4) ? ॥ ण्यधिकाद्वृते रिट्प्रतिषेधो विधेयः तत्राऽपूर्वो विधिरस्तु नियमोऽस्त्वित्यपूर्व एव विधिर्भविष्यति न नियमः ॥ कुतो नु खल्वेतदधिकार्थ आरम्भे सति ण्यधिकस्य भविष्यति न पुनः(5) सनधिकस्य वा स्याद्यङि्धकस्य वेति ? ॥ तस्माण्णिग्रहणं(6) कर्तव्यम् ॥ अथ किमर्थं निपातनं क्रियते ? ॥ निपातनं णिलोपेङ्गुणप्रतिषेधार्थम् ॥ निपातनं क्रियते । (किमर्थम् ? ॥ णिलोपेङ्गुणप्रतिषेधार्थम् ) । णिलोपार्थमिङ्गुणप्रतिषेधार्थं च ॥ (णेरध्ययने वृत्तम् ) ॥

Kashika

ण्यन्तस्य वृतेर्निष्ठायाम् अध्ययनार्थे वृत्तमितीडभावो णिलुक् च निपात्यते। वृत्तो गुणो देवदत्तेन। वृत्तं पारायणं देवदत्तेन। अध्ययन इति किम्? वर्तितमन्यत्। वृतिरयमकर्मकः, स ण्यर्थे वर्तमानः सकर्मको भवति। तेन निर्वृत्तम् (५.१.७९) इति हि प्रकृतेरेव कर्मणि क्तप्रत्ययो दृश्यते। तद्वदिहापि ण्यर्थवृत्तेरेव च वृतेर्वृत्तो गुणो देवदत्तेनेति भविष्यतीति निपातनमनर्थकम्? तत् क्रियते यदापि णिचैव ण्यर्थोऽभिधीयते, तदा वर्तितमित्यध्ययने मा भूदिति केचित्। अपरे तु वर्तितो गुणो देवदत्तेनेत्यपीच्छन्ति॥

Siddhanta Kaumudi

ण्यन्ताद्वृत्तेः क्तस्येडभावो णिलुक्चाधीयमानेऽर्थे । वृत्तं छन्दश्छात्रेण । संपादितम् । अधीतमिति यावत् । अन्यत्र तु वर्तिताः रज्जुः ॥

Balamanorama

णेरध्ययने वृत्तम् - णेरध्ययने । णिलुक् चेति । णिलोपे तु लघूपधगुणः स्यादिति भावः । अधीयमान इति । सूत्रे अध्ययनशब्दः कर्मणि ल्युडन्त इति भावः ।

Tattvabodhini

णेरध्ययने वृत्तम् - णेः । अधीयत इति अध्ययनम् ।कृत्यल्युटः॑ इति बहुलवचनात्कर्मणि ल्युट् । णिलुक् चेति ।निपात्यते॑ इति शेषः । लोपे हि प्रत्ययलक्षणेन गुणः स्यादिति भावः ।

Padamanjari

अधीयत् इत्यध्ययनमिति कृत्यल्युटो बहुलम् इति कर्मणि ल्युट् । निषठाविशेषणं चैतत् - अध्ययनाभिधायिन्यां निष्ठायामिति । णिलुक्वेति । प्रत्ययलक्षणेन गुणो मा भूदिति णेर्लुग्निपातनम्, लोपनिपातने तु गुणः स्यात् । वृतो गुणो देवदेतेनेति । गुणः - पाठः, पदक्रमसंहितारुपोऽध्ययनविशेषः, स वृतः - सम्पादित इत्यर्थः । वृत्तिरयमित्यादिना सूत्रस्यानारम्भमाशङ्कते । अकर्मक इति वृतं गुणसुय, वृतं पारायाणस्यते भावे क्तस्य प्रयोगार्थमिदमुक्तम् । अकर्मकत्वे हि भावे निष्ठा भवति तयोरेव इत्यत्र भावे चाकर्मकेभ्यः इत्यनुवृतेः । योऽपि नपुंसके भावे क्तः, सोऽपि सकर्मकेभ्यो न भवति तयोरेव इत्यत्र क्तमात्रस्य ग्रहणात् । अन्यथा सक्रमकाद्भावे क्ते विधीयमाने कर्मणि द्वितीया प्रज्येत - ग्रामं गतम्, ओदनं भुक्तमिति । यदि तर्ह्यकर्मकः, कथं एवृतो गुण इति कर्मणि निष्ठा इत्याशङ्क्याह - स ण्यर्थे वर्तमाने इति । यदि वा - अयं वृत्तिरकर्मकः स ण्यर्थे वर्तमानः इत्येक एव ग्रन्थः, अकर्मका अपि धातवोऽन्तर्भावितण्यर्थाः प्रयोज्येन कर्मणा सकर्मका भवन्ति, यथा - राजयुध्वेति, दृश्यते च वृतेरन्तर्भावितण्यर्थस्य प्रयोग इत्याह - तेन निर्वृत्तिमिति हीति । न चात्रोपसर्गवशात्सकर्मकत्वम्, ण्यर्थगतेः वृतेणिचि योऽर्थः । निवर्त्यते यैर्नियमाभिषेकः इत्यादौ तदवगतेरित्यर्थः। ततस्मात् । वृतेरेवेति । प्रकृत्यन्तादेवेत्यर्थः । वृतो गुण इति । उदितो वा इति क्त्वायां विकल्पितेट्कत्वाद् यस्य विभाषा इतीट्प्रतिषेधः सिद्धः । तदेवं निपातनमनर्थकमित्येव मतं चोद्यम् । परिहरति - तत्क्रियत इति । इष्टस्यान्यथासिद्धावप्यनिष्टनिवृत्यर्थं निपातनसित्यर्थः । अपरे त्विति । तेषां मते नानेनार्थः सूत्रेण ॥

Nyaas

अध्ययनम् इति। कृत्यल्युटो बहूलम् (3.3.113) इति ल्युट्। अधीयत इत्यध्ययनम् - कर्मसाधनोऽध्ययनशब्दः। भावसाधने हि वृत्तो गुणो देवदत्तेनेति न स्यात्, वृत्तं गुणस्य देवदत्तेनेति स्यात्। निष्ठाविशेषणञ्चैतत्। अध्येतव्याभिधायिन्यां निष्ठायामित्यर्थः। णिलुक्? च इति। णिलुग्निपातनं प्रत्ययलक्षण प्रतिषेधार्थम्। लोपे हि प्रत्ययलक्षणेन गुणः स्यात्। लुकि सति न लुमताङ्गस्य (1.1.63) इति प्रत्ययलक्षणप्रतिषेधाद्गुणो न स्यात्। वृत्तो गुणः इति। गुणः कश्चिदेवाध्ययनविशेष इहोच्यते। वृत्तिरयमकर्मकः इति। दृतं गुणस्य, वृत्तं पारायणस्येति भावे निष्ठादर्शनात्। अकर्मकाणां हि भावे निष्ठा भवति, न सकर्मकाणाम्। स ण्यर्थे इत्यादि। सोऽन्तर्भावितण्यर्थो यदा भवति तदा प्रकृत्यन्तो ण्यर्थे वर्तमानः सकर्मको भवति, यथा - वद्र्धन्तु त्वां सुष्टुतय इत्यत्र वृधिः। कथमेतद्विज्ञायते? इत्याह - तेन निर्वृत्तम् इत्यादि। न चैतद्वक्तव्यम् - अकर्मका इति। धातवः सोपसर्गाः सकर्मका भवन्ति इति सोपसर्गत्वादिह वृत्तेः सकर्मकत्वम्। न तु ण्यर्थवृत्तित्वादिति कृतो ण्यर्थावगतिः? यदि सोपसर्गात्वादिह वृत्तेः सकर्मकत्वं स्यान्न ण्यर्थवृत्तित्वात्, ततो यथानुभूतः क्मबलो देवदत्तदेनेत्यत्र ण्यर्थो न गम्यते, तथा तेन निर्वृत्तः इत्यत्रापि न गम्येत; गम्यते च, तस्माण्णयर्थवृत्तित्वादेव वृत्तेः सकर्मकत्वम्। यदा च ण्यर्थवृत्तर्भवति तदा प्रयोजकव्यापारापेक्षयाऽस्य कर्ता कर्मभावभापद्यत इति। तेन प्रयोज्येन कर्मणा सकर्मको भवति। तद्वदिहापि इत्यादि। यस्मादेवाकर्मकोऽपि स न प्रकृत्यन्त एव ण्यर्थे वर्तमानः सकर्मको भवति तस्माद्वृत्तो गुणो देवदत्तेनेत्यत्रापि ण्यर्थवृत्तेरेव कर्मणि क्तप्रत्ययो भविष्यति। ततश्च निपातनमनर्थकं स्यात्। विनाऽपि तेन सिद्धत्वात्। कथमिति चेत्? वृत्तेः क्वाप्रत्यये उदितो वा (7.2.56) इतीङ्विकल्पे कृते निष्ठायाम्, यस्य विभाषा (7.2.15) इति प्रतिषेधात्। यद्येवम्, किमर्थं तदित्याह - तत्? क्रियते इत्यादि। कदाचिण्ण्यर्थोऽन्तर्भावितण्यर्थतया प्रकृत्यैवाभिधीयते, तत्र यदि निपातनं न क्रियेत, तदाध्ययनेऽपि वर्त्तितमिति स्यात्। तस्मादेतन्निवृत्त्यर्थं तदित्येके प्रतिपन्नः। अपरे तु इत्यादि। अन्ये तु वत्तितो गुण इत्यपीच्छन्ति। ण्यन्तस्याण्यन्तस्य च - वृत्तो गुण इति। तन्मतेन निपातनं न कर्तव्यमेव। क्रियमाणं वैचित्र्यार्थं वेदितव्यम्॥

Prakriyasarvasvam

ण्यन्तस्य वृत्तेरध्ययनेऽर्थे वृत्तमिति स्यात् । वृत्तो वेदः । अधीत इत्यर्थः । अन्यत्र ण्यन्तादिट् । वर्ति इ त ॥

Sutra Prayogas

  • वृत्त (भट्टिकाव्यम्): णेरध्ययने वृत्तम् इति इडभावो णिलुक् च निपात्यते।

  • अयुद्ध (भट्टिकाव्यम्): झलो झलि इति सिचो लोपः ।