72037: ग्रहोऽलिटि दीर्घः

Padacheda: ग्रहः | S | 5 | 1 |

अलिटि | S | 7 | 1 |

दीर्घः | S | 1 | 1 |

Sutrartha


Vasu English Summary

The augment इट् added to वलादि आर्धधातुक affixes, becomes lengthened, except in the personal endings of the लिट् (Perfect Tense), after the root ग्रह।

Vasu English Translation

The augment इट् added to वलादि आर्धधातुक affixes, becomes lengthened, except in the personal endings of the लिट् (Perfect Tense), after the root ग्रह। As ग्रहीता, ग्रहीतुम्, ग्रहीतव्यम् ॥ Why not in the Perfect? Observe जगृहिव, जगृहिम् ॥ The lengthening takes place of the इट् taught in (7.2.35), and does not refer to the चिण्वद् इट् of (6.4.62) : as ग्राहिता, ग्रहिष्यते ॥

Bhashya

ग्रहोऽलिटि दीर्घः ॥ ग्रहेर्दीर्घत्वे इड्ग्रहणम्(2) ॥ ग्रहेर्दीर्घत्वे इड्ग्रहणं कर्तव्यम् । इटो दीर्घ इति वक्तव्यम् ॥ न वक्तव्यम् - प्रकृतमनुवर्तते ॥ क्व प्रकृतम् ? ॥ आर्धधातुकस्येड्वलादेरिति ॥ एवमपि कर्त्तव्यमेव(3) ॥ अकरणे(4) ह्यसंप्रत्ययः षष्ठ्यभावात् ॥ अक्रियमाणे हीड्ग्रहणेऽसंप्रत्ययः स्यात् ॥ किं कारणम् ? ॥ षष्ठ्यभावात् । षष्ठीनिर्दिष्टस्य आदेशा उच्यन्ते न चात्र षष्ठीं पश्यामः ॥ क्रियमाणे चापि इड्ग्रहणे(1) - ॥ चिण्वदिटः प्रतिषेधः ॥ चिण्वदिटः प्रतिषेधो वक्तव्यः । ग्रहिष्यते ॥ यङ्लोपे च ॥ यङ्लोपे च प्रतिषेधो वक्तव्यः । जरीगृहिता जरीगृहितुम् जरीगृहितव्यम् ॥ यदि पुनरिड् दीर्घ आगमान्तरं विज्ञायेत ? ॥ इड्दीर्घ इति चेद्विप्रतिषिद्धम् ॥ इडदीर्घ इति चेद्विप्रतिषिद्धं भवति(3) । यदि इण्न दीर्घः, अथ दीर्घो नेट्, इड् दीर्घश्चेति विप्रतिषिद्धम् ॥ प्रतिषिद्धस्य च पुनर्विधाने दीर्घत्वाऽभावः(1) ॥ प्रतिषिद्धस्य च (2)पुनर्विधाने दीर्घत्वस्याऽभावः । वुवूर्षते विवरिषते विवरीषते ॥ अत्रापीड् दीर्घ इत्यनुवर्तिष्यते ॥ यत्तर्हि विदेशस्थं प्रतिषिध्य पुनर्विधानं तन्न सिध्यति । जॄव्रश्च्योः क्त्विश्र्युकः कितीत्यनेन प्रतिषिद्धे दीर्घत्वं न प्राप्नोति । जरित्वा जरीत्वा । इर्टो विधिरिटः प्रतिषेधः । यथाप्राप्त(3) इड् दीर्घो भविष्यति ॥ यदि तर्हीटो ग्रहणे इर्टो ग्रहणं न भवति, - जरीत्वा - न क्त्वा सेडिति कित्त्वप्रतिषेधो न प्राप्नोति । इह चाऽग्रहीदिति - इट इर्टीति सिज्लोपो न प्राप्नोति । इह चाऽग्रहीत् - नेटीति वृद्धिप्रतिषेधो न प्राप्नोति ॥ मा भूदेवं ह्मयन्तानामित्येवं भविष्यति ॥ अत्रापि नेटीत्येवानुवर्तते । तच्चावश्यमिड्ग्रहणमनुर्वत्यम्-अधाक्षीदित्येवमर्थम्(4) । तथा - अग्रहीध्वम्(5) अग्रहीढ्वं - विभाषेट इति मूर्धन्यो न प्राप्नोति । तस्मान्नैतच्छक्यं(1) वक्तुम् - ःइटोग्रहणे इर्टो ग्रहणं न भवतीति ॥ भवति चेत्प्रतिषिद्धस्य च(2) पुनर्विधाने दीर्घाऽभाव (ःइत्येव) । तस्मादशक्य इड् दीर्घ आगमान्तरं विज्ञातुम् । न चेद्विज्ञायते इटो ग्रहणं कर्तव्यम् ॥ न कर्तव्यम् । आर्धधातुकस्येति वर्तते । ग्रहः परस्यार्धधातुकस्य दीर्घत्वं वक्ष्यामि ॥ इहापि तर्हि प्राप्नोति - ग्रहणम् ग्रहणीयम् ॥वलादेरिति वर्तते ॥ एवमपि ग्रहीता ग्रहीतुमत्र न प्राप्नोति ॥ भूतपूर्वगत्या भविष्यति । एवमपि ग्राहकः-अत्र प्राप्नोति ॥ किं चेट्प्रतिघातेन खल्वपि दीर्घत्वमुच्यमानमिटं बाधेत(3) । तस्मादिटो ग्रहणं कर्तव्यम् ॥ न कर्तव्यम् । प्रकृतमनुवर्तते ॥ क्व प्रकृतम् ? ॥ आर्धधातुकस्येड्वलादेरिति ॥ ननु चोक्तम् - एवमपि कर्तव्यमेव(5), अग्रहणे ह्यसंप्रत्ययः षष्ठ्यनिर्देशा - दिति ॥ नैषः दोषः । ग्रह इत्येषा पञ्ञ्चमी इडिति प्रथमायाः षष्ठीं प्रकल्पयिष्यति - तस्मादित्युत्तरस्येति ॥ एवं च कृत्वा सोऽप्यदोषो भवति यदुक्तं चिण्वदिटः प्रतिषधइति ॥ कथम् ? ॥ प्रकृतस्येट(6) इदं दीर्घत्वं, न च चिण्वदिट्प्रकृतः ॥ यङ्लोपे च(7) कथम् ? ॥ प्रकृतस्येट(6) इदं दीर्घत्वं, न च चिण्वदिट्प्रकृतः ॥ यङ्लोपे च(7)कथम् ? ॥ यङ्लोपे चोक्तम् - इटि सर्वत्र ॥ क्व सर्वत्र ? ॥ यद्येव(1) प्रकृतस्येटो दीर्घत्वमथापि इर्ड्दीर्घ(2) आगमान्तरं विज्ञायेत (2) ॥ यङ्लोपे चोक्तम्(4) ॥ किमुक्तम् ? ॥ तदन्तद्विर्वचनादिति ॥

Kashika

ग्रह उत्तरस्येटोऽलिटि दीर्घो भवति। ग्रहीता। ग्रहीतुम्। ग्रहीतव्यम्। अलिटीति किम्? जगृहिव, जगृहिम। प्रकृतस्येटो दीर्घत्वमिदं चिण्वदिटो न भवति। ग्राहिता। ग्राहिष्यते॥

Siddhanta Kaumudi

एकाचो ग्रहेर्विहितस्येटो दीर्घः स्यान्नतु लिटि । ग्रहीता । लिटि तु जग्रहिथ । गृह्यात् । ग्रहीषीष्ट । ह्म्यन्त - (SK2299) इति न वृद्धिः । अग्रहीत् । अग्रहीष्टाम् । अग्रहीष्ट । अग्रहीषाताम् । अग्रहीषत ॥

Laghu Siddhanta Kaumudi

एकाचो ग्रहेर्विहितस्येटो दीर्घो न तु लिटि । ग्रहीता । गृह्णातु । हलः श्नः शनञ्झविति श्नः शनजादेशः । गृहाणा । गृह्यात्, ग्रहीषीष्ट । ह्म्यन्तेति न वृद्धिः । अग्रहीत् । अग्रहीष्टाम् । अग्रहीष्ट । अग्रहीषाताम् ॥ {$ {! 17 कुष !} निष्कर्षे $} (धातुपाठे (09.0054)) ॥ कुष्णाति । कोषिता । {$ {! 18 अश !} भोजने $} (धातुपाठे (09.0059)) ॥ अश्नाति । आश । अशिता । अशिष्यति । अश्नातु । अशान ॥ {$ {! 19 मुष !} स्तेये $} (धातुपाठे (09.0066)) ॥ मोषिता । मुषाण ॥ {$ {! 20 ज्ञा !} अवबोधने $} (धातुपाठे (09.0043)) ॥ जज्ञौ ॥ {$ {! 21 वृङ् !} सम्भक्तौ $} (धातुपाठे (09.0045)) ॥ वृणीते । ववृषे । ववृढ्वे । वरिता, वरीता । अवरीष्ट, अवरिष्ट, अवृत ॥ इति क्र्यादयः ॥ ९ ॥

Balamanorama

ग्रहोऽलिटि दीर्घः - ग्रहोऽलिटि दीर्घः ।ग्रहट इति दिग्योगे पञ्चमी । ‘आर्धधातुकस्येट्’ इत्यत इडित्यनुवृत्तं षष्ठन्तं विपरिणम्यते,एकाच उपदेशेऽनुदात्ता॑ दित्यत एकाचेति च । तदाह — एकाच इत्यादि । एकाचः किम । यङ्लुकि माभूत् । जाग्रहिता । विहितस्येति किम् । ग्रहितम् । णिलोपे कृते ग्रहधातोः परत्वेऽपि विहतत्वाऽभावादिटो न दीर्घः । न च णिलोपस्य स्थानिवत्त्वान्न ग्रहधातोः पर इडिति वाच्यं, दीर्घकित्त्वात्संप्रसारणमिति भावः । लिङस्तङ्याह — ग्रहीषीष्टेति । ‘ग्रहोऽलिटी’ ति दीर्घः ।न लिङी॑ति इटो दीर्घनिषेधस्तु न, तत्रवृतट इत्यनुवृत्तेः । अग्रहीष्टामिति ।ग्रहोऽलिटी॑ति दीर्घः । अग्रहीषुः । अग्रहीरित्यादि । लुङस्तङ्याह — अग्रहीष्टेति ।ग्रहोऽलिटी॑ति दीर्घः । अग्रहीषतेति । अग्रहीष्ठा इत्यादि सुगमम् । इति क्र्यादयः ।॥ इति बालमनोरमायाम् क्र्यादयः॥अथ तिङन्ते लकारार्थप्रक्रिया ।अथ लकारार्थप्रक्रिया निरूप्यते ।

Tattvabodhini

ग्रहोऽलिटि दीर्घः - ग्रहिषीष्टेति ।वृत॑ इत्यनुवृत्तेर्न लिङी॑ति दीर्घनिषेधो न प्रवर्तते । अग्रहीषातामिति । लुङ् । आत्मनेपदद्विवचनम् ।इति तत्त्वबोधिन्याम् क्र्यादयः ।अथ तिङन्ते लकारार्थप्रक्रिया ।

Nyaas

ग्रह उत्तरस्य ग्रह इति पञ्चमीं दर्शयति। यद्येवम्, तदेङ्ग्रहणं कर्तव्यम्? न कर्तव्यम्; प्रकृतमेव तदनुवर्तते। तद्धि प्रथमान्तनिर्दिष्टम्, षीष्ठीनिर्देशेन चेहार्थः? नैष दोषखः; ग्रहः इत्येषा पञ्चमीति प्रथमायाः षष्ठीत्वं प्रकल्पयिष्यति; तस्मादित्युत्तरस्य (1.1.67) इति वचनात्। जगृहिव, जगृहिम् इति। ग्रह्रादिसूत्रेण (6.1.16) सम्प्रसारणम्।तथा ग्राहिता, ग्राहिष्यत इत्यत्र कथं चिण्वदिटो न भवति? इत्याह - प्रकृतस्यैव इत्यादि। आर्धधातुकस्येति यः प्रकृत इट्? तस्येदं दौर्घत्वं भवति, न चिण्वदिटः; तस्याप्रकृतत्वात्। चिण्वदित्यनेन चिण्वद्भाव उपलक्ष्यते। तत्सहचरित इट्? चिण्वदित्युच्यते। ग्राहित इति। अनद्यतने लुट् (3.3.15) , स्यतासी लृलुटोः (3.1.33) इति तासिः, भावकर्मणोः` (1.3.13) इत्यात्मनेपदम्, लुट प्रथमस्य (2.4.85) इत्यादिना डादेशः, टिलोपः, स्यसिच्सीयुट्तासिषु (6.4.62) इत्यादिनेट्? चिण्वद्भावाद्वृद्धिः। अथ जरीगृहिता, जरीगृहीतुमित्यत्र यङन्तात्? तृनि तुमुनि च यलोपाल्लोपयोः कृतयोर्दीर्घः कस्मान्न भवति? उत्तरसूत्रे वाग्रहणस्योभयोरपि योगयोः शेषभूतत्वाद्व्यवस्थिविभाषाविज्ञानात्। अथ वा - विहितविशेषणपक्षोऽत्र व्याख्यायते। ग्रहेर्थो विहित इट्? तस्य दीर्घो भवति। न चात्र ग्रहेर्विहित इट्? कुतस्तर्हि? यङ्न्तात्। तस्मान्नेह दीर्घस्य प्रसङ्गः। अथ ग्रह ईडलिटि इत्येवं कस्मान्नोक्तम्, किं दीर्घग्रहणेन? नैवं शक्याम्; एवं सतीट्कार्यमीटो न स्यात्, ततश्चाग्रहीदित्यत्र इट ईटि (8.2.28) इति सिचो लोपो न स्यात्, नेटि (7.2.4) इति प्रतिषेधश्च; इह चाग्रहीढ्वम्, अग्रहीध्वमित्यत्रेटः विभाषेटः (8.3.79) इति मूर्घन्यश्च; दीर्घ इट आदेशे सति तस्य स्थानिवद्भावदिट्कार्यमुपपद्यत इति दीर्घं एव विधीयते॥

Prakriyasarvasvam

ग्रहेः परस्येटो दीर्घः स्यात् न तु लिटि । ग्रहीता । लिटि तु जगृहेिव ।

Sutra Prayogas

  • ग्रहीतुम् (शिशुपालवधम्): ग्रहोऽलिटि दीर्घः इतीटो दीर्घः ।

  • प्रत्यग्रहीष्टां (भट्टिकाव्यम्): ग्रहोऽलिटि दीर्घः इति दीर्घः।

  • निगृहीताऽरि-शासनः (भट्टिकाव्यम्): ग्रहोऽलिटि दीर्घः इतीटो दीर्घत्वम्।