72038: वॄतो वा¶
Padacheda: वॄतः | S | 5 | 1 |
वा | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
The इट् augment is optionally lengthened after वॄ , वृञ् and after roots ending in long ॠ, except in the लिट् (Perfect Tense).
Vasu English Translation¶
The इट् augment is optionally lengthened after वॄ , वृञ् and after roots ending in long ॠ, except in the लिट् (Perfect Tense). As वरिता । वरीता । प्रावरिता । प्रावरीता ॥ ॠकारान्तेभ्यः । तरिता । तरीता । आस्तरिता । आस्तरीता ॥ वृत इति किम् । करिष्यति हरिष्यति । अलिटीत्येव । ववरिथ । तैरिथ ॥ Why do we say ‘after वृ and long ॠ ending roots’? Observe करिष्यति and हरिष्यति ॥ Why do we say except in the Perfect? Observe ववरिथ and तैरिथ ॥
Kashika¶
वृ इति वृङ्वृञोः सामान्येन ग्रहणम्, तस्मादुत्तरस्य ॠकारान्तेभ्यश्चेटो वा दीर्घो भवति। वरिता, वरीता। प्रावरिता, प्रावरीता। ॠकारान्तेभ्यः — तरिता, तरीता। आस्तरिता, आस्तरीता। वृृत इति किम्? करिष्यति। हरिष्यति। अलिटीत्येव — ववरिथ। तेरिथ॥
Siddhanta Kaumudi¶
वृङ्वृञ्भ्यामॄदन्ताञ्चेटो दीर्घो वा स्यान्न तु लिटि । तरीता । तरिता । अलिटीति किम् । तेरिथ । हलि च (SK354) इति दीर्घः । तीर्यात् ॥
Laghu Siddhanta Kaumudi¶
वृङ्वृञ्भ्यामॄदन्ताच्चेटो दीर्घो वा स्यान्न तु लिटि । परीता, परिता । परीष्यति, परिष्यति । पिपर्तु । अपिपः । अपिपूर्ताम् । अपिपरुः । पिपूर्यात् । पूर्यात् । अपारीत् ॥
Balamanorama¶
वॄतो वा - वृतो वा । वृ ॠत् इत्यनयोः समाहारद्वन्द्वात्पञ्चम्येकवचनम् । वृ इति वृङ्वृञोग्र्रहणम् ।आर्धधातुकस्ये॑डित्यत इडित्यनुवृत्तं षष्ठ्या विपरिणम्यते ।ग्रहोऽलिटि दीर्घ इत्यनुवर्तते । तदाह — वृङ्वृञ्भ्यामित्यादि । तरिता तरीतेति । इटो दीर्घविकल्पः ।गुणे रपरत्वम् । तरिष्यति । तरतु । अतरत् । तरेत् । हलि चेति । आशीर्लिङि कित्त्वादृकारस्य गुणनिषेधे, इत्त्वे, रपरत्वे ‘हलि चे’ ति दीर्घे, तीर्यादिति रूपमित्यर्थः । अतारीत् अतारिष्टामित्यादौ ‘वृतो वा’ इति दीर्घे प्राप्ते — सिचि च । अत्रेति । परस्मैपदपरके सिचि वृङ्वृञ्भ्यामृद्नताच्च परस्य इटो दीर्घो नेत्यर्थः ।न लिङी॑त्यतो नेत्यनुवर्तते । अतारिष्टामिति । अतारिषुः । अतारिषमतारिष्व अतारिष्म.अतरिष्यत् । गुप गोपने इति । गोपनं — रक्षणम् । तिज निशाने इति । निशानं — तीक्ष्णीकरणम् । मान पूजायाम् । बध बन्धने इति । एते चत्वारोऽनुदात्तेत इति स्थितिः ।
Tattvabodhini¶
वॄतो वा - वृतो वा । इहआर्धधातुकस्ये॑डित्यत इडित्यनुवर्तते,ग्रहो लिटी॑त्यतो लिटि दीर्घ इति च । तदाह — — इटो दीर्घो वेत्यादि ।
Padamanjari¶
अत्र यदि वृ वरणे इत्येतस्य तसिला निर्द्देशः स्यात् व्रः इत्येव निर्दिश्येत, यथा ग्रो यङ् ईति । अथ तस्य ऋकारान्तानां च ग्रहणम् एवमपि तस्य पृथग्ग्रहणमनर्थकम्, ऋकारान्तत्वात् । अथ तस्य ऋकारान्तानां एच तथा च सति ऋतश्च संयोगादेः इत्यत्र ऋतः इति न वक्तव्यमस्यैवानुवृतेः । अथ वृङ्वृञोः ऋकारान्तानां च तथापि वृग्रहणमनर्थकमृकारान्तत्वात् । तस्माद्वृत्तिकारोपदर्शितानामेव ग्रहणम् । वृत इति किमिति । उः इति वक्तव्यमिति मन्यते ॥
Prakriyasarvasvam¶
वृङ्वृञोर्ऋदन्तानां चालिटीटो वा दीर्घः स्यात् । वरिता वरीता । वृ । तरिता तरीता । अथानिटः— जरित्वा जरीत्वा । व्रश्चित्वा । जॄपो जीर्वेति केचिदित्यनिच्छयाह माधवः ॥
Sutra Prayogas¶
वरीतुम् (शिशुपालवधम्): वॄतो वा इतीटो दीर्घः।
अवतरीतुम् (शिशुपालवधम्): वृतो वा इति विकल्पाद्दीर्घः।
विवरिष्यति (शिशुपालवधम्): वृतो वा इति दीर्घविकल्पः।
वरीतुं (भट्टिकाव्यम्): वृतो वा इति इटो दीर्घत्वम्।
आवरीतुमिवाऽऽकाशं वरितुं (भट्टिकाव्यम्): वृतो वा इति विकल्पेनेटो दीर्घत्वम्।