72034: ग्रसितस्कभितस्तभितोत्तभितचत्तविकस्ताविशस्तृशंस्तृशास्तृतरुतृतरूतृवरुतृवरूतृवरूत्रीरुज्ज्वलितिक्षरितिक्षमितिवमित्यमितीति च

Padacheda: ग्रसित-स्कभित-स्तभित-उत्तभित-चत्त-विकस्ता-विशस्तॄ-शंस्तृ-शास्तृ-तरुतृ-तरूतृ-वरुतृ-वरूतृ-वरूत्रीः-उज्ज्वलिति-क्षरिति-क्षमिति-वमिति-अमिति | S | 1 | 1

इति | S | 0 | 0 |

च | S | 0 | 0 |

Sutrartha


Vasu English Summary

In the छन्दस् (Vedas), the following irregular forms are found, some with and some without the augment इट् 1. ग्रसित 2. स्कभित 3. स्तभित 4. उत्तभित 5. चत्त 6. विकस्त 7. विशस्तॄ 8. शंस्तृ 9. शास्तृ 10. तरुतृ 11. तरूतृ 12. वरुतृ 13. वरूतृ 14. वरुत्रीः 15. उज्ज्वलिति 16. क्षरिति 17. क्षमिति 18. वमिति and 19. अमिति।

Vasu English Translation

In the छन्दस् (Vedas), the following irregular forms are found, some with and some without the augment इट् 1. ग्रसित 2. स्कभित 3. स्तभित 4. उत्तभित 5. चत्त 6. विकस्त 7. विशस्तॄ 8. शंस्तृ 9. शास्तृ 10. तरुतृ 11. तरूतृ 12. वरुतृ 13. वरूतृ 14. वरुत्रीः 15. उज्ज्वलिति 16. क्षरिति 17. क्षमिति 18. वमिति and 19. अमिति। Of the above nineteen words, 1.2, 3, and 4 are from roots ग्रसु, ‘to swallow’ (1.6.1) स्कम्भु ‘to stop’ (1.4.4) and स्तम्भु (1.4.3) all having an indicatory उ, and therefore by (7.2.56) read with (7.2.15), their Nishtha would not have taken इट् ॥ Thus ग्रसितं (verb ग्रस्त) वा एतत् सोमस्य ॥ विष्कभिते अजरे (= विष्कब्धः); येन स्वस्तभितम् (=स्तब्धम्), सत्येनोत्तभिता भूमिः (= उत्तब्धः) ॥ The irregularity is only with the preposition उत्, with other prepositions, the form स्तभित is not employed. Similarly (5) चत्ता (= चतिता) वर्षेण विद्युत् from चते याचने ॥ (6) उत्तानाया हृदयं यद् विकस्तम् (= विकसितम्) The forms, 7 8, and 9 are from the roots शसु हिंसायाम् and शंसु स्तुतौ, and शासु अनुशिष्टौ with the affix तृच् and no augment; as एकस्त्वष्टुरश्वस्याविशस्ता (= विशसिता), उत शंस्ता सुविप्रः (= शंसिता), प्रशास्ता (= प्रशासितम्) ॥ The forms 10.11, 12.13 and 14 are from the roots तृ and वॄ (वृङ् and वृङ्), with the affix तृच्, and the augment उट् and ऊट् ॥ As तरुतारं or तरूतारं रथानाम् (= तरितारम् or तरीतारम्), वरुतारम् or वरूतारम् रथानाम् (= वरितारम् or वरीतारम्); वरूत्रीष्टा देवीर्विश्वदेव्यावती ॥ वरूत्रीः is exhibited in this form of Nominative Plural of the feminine वरूत्री merely for the sake of showing one form in which it is found : another form is अहोरात्राणि वैवरूत्रयः ॥ Here the plural is formed irregularly, by taking the word as वरूत्रि ॥ The feminine form could have been easily obtained from वरूतृ, by adding ङीप्, the special mention is explanatory. The rest 15.16, 17.18 and 19 are from उत् - ज्वल, क्षर्, क्षम्, वम्, and अम्, formed with the vikarana शप् and the affix of the 3rd Person Singular तिप्, इ being substituted for अ of शप, or शप् is elided and the augment इट् is added ॥ As अग्निरुज्ज्वलिति (= उज्ज्वलति), स्तोमं क्षमिति (= क्षमिति), स्तोकं क्षरिति (= क्षरति), यः सोमं वमिति (= वमात्, अभ्यमिति वरुणः (= अभ्यमति) ॥ Sometimes we have अभ्यमीति, as रविमभ्यमीति ॥

Kashika

ग्रसित स्कभित स्तभित उत्तभित चत्त विकस्त विशस्तृ शंस्तृ शास्तृ तरुतृ तरूतृ वरुतृ वरूतृ वरूत्रीः उज्ज्वलिति क्षरिति क्षमिति वमिति अमिति इत्येतानि छन्दसि विषये निपात्यन्ते। तत्र ग्रसितस्कभितस्तभितोत्तभितेति ग्रसु स्कम्भु स्तम्भु इत्येतेषामुदित्त्वाद् निष्ठायामिट्प्रतिषेधे प्राप्त इडागमो निपात्यते। ग्रसि॒तं॑ वा॑ ए॒त॑त्सो॑म॒स्य॒ (मै०सं० ३.७.४)। ग्रस्तमिति भाषायाम्। स्कभित — विष्क॑भिते अ॒जरे॑ (ऋ० ६.७०.१)। विष्कब्ध इति भाषायाम्। स्तभित — येन॒ स्वः॑ स्तभि॒तम् (ऋ० १०.१२१.५)। स्तब्धमिति भाषायाम्। उत्तभित — स॒त्येनोत्त॑भिता॒ भूमिः॒ (ऋ० १०.८५.१)। उत्तब्धेति भाषायाम्। उत्तभितेति उत्पूर्वस्य निपातनसामर्थ्यादन्योपसर्गपूर्वः स्तभितशब्दो न भवति। चत्त विकस्तेति चतेः कसेश्च विपूर्वस्य निष्ठायामिडभावो निपात्यते। चत्ता वर्षेण विद्युत्। चतितेति भाषायाम्। विकस्त — उत्ता॒ना॑या॒ हृ॑दयं॒ य॑द् वि॑क॒स्तम् (मै०सं० २.७.४)। विकसितमिति भाषायाम्। निपातनबहुत्वापेक्ष विकस्ता इति बहुवचनं कृतम्। अपरेषु तु निपातनेषु प्रत्येकं विभक्तिनिर्देशः। विशस्तृ शंस्तृ शास्तृ इति शसेर्विपूर्वस्य शंसेः शासेश्च तृचीडभावो निपात्यते। विशस्तृ — एक॒स्त्वष्टु॒रश्व॑स्या विश॒स्ता (ऋ० १.१६२.१९) विशसितेति भाषायाम्। शंस्तृ — उ॒त शंस्ता॒ सुवि॑प्रः (ऋ० १.१६२.५)। शंसितेति भाषायाम्। शास्तृ — प्र॑शा॒स्ता (ऋ० १.९४.६)। प्रशासितेति भाषायाम्। तरुतृतरूतृवरुतृवरूतृवरूत्रीरिति तरतेर्वृङ्वृञोश्च तृचि उट् ऊट् इत्येतावागमौ निपात्येते। तरु॒तारं॒ रथा॑नाम् (ऋ० १०.१७८.१)। तरूतारम्। तरितारम्, तरीतारमिति भाषायाम्। वरुतारं रथानाम्, वरूतारं रथानाम्। वरितारम्, वरीतारमिति भाषायाम्। वरू॑त्रीष्ट्वा, दे॒वीर्वि॒श्वदे॑व्यावतीः (मा०सं० ११.६१)। जसि पूर्वसवर्णोच्चारणं प्रयोगदर्शनार्थम्। अतन्त्रं चैतत्, इदमपि हि भवति — अहोरात्रा॒णि वै व॒रूत्रयः (श० ब्रा० ६.५.४.६) इति। छान्दसिकमत्र ह्रस्वत्वम्। प्रपञ्चार्थमेव च ङीबन्तस्य निपातनम्। वरूतृशब्दो हि निपातितः, तत एव ङीपि सति सिद्धो वरूत्रीशब्दः। उज्ज्वलिति क्षरिति क्षमिति वमित्यमितीति च ज्वलतेरुत्पूर्वस्य क्षर क्षम वम अम इत्येतेषां च तिपि शप इकारादेशो निपात्यते, शपो लुग्वेडागमः। अग्निरुज्ज्वलिति। उज्ज्वलतीति भाषायाम्। क्षरिति — स्तोकं क्षरिति। क्षरतीति भाषायाम्। क्षमिति — स्तोमं क्षमिति। क्षमतीति भाषायाम्। वमिति — यः सोमं वमिति। वमतीति भाषायाम्। अमिति — अभ्यमिति वरुणः। अभ्यमतीति भाषायाम्। इतिकरणं प्रदर्शनार्थम्, तेन क्वचिदीकारो भवति। र॒विम॒भ्य॒मीति॒ वरु॑णः (मा०सं० २२.५) इत्यपि हि वेदे पठ्यते।

Siddhanta Kaumudi

अष्टादश निपात्यन्ते । तत्र ग्रसु स्कम्भु स्तम्भु एषामुदित्त्वान्निष्ठायामिट्प्रतिषेधे प्राप्ते इण्निपात्यते । युवं शचीभिर्ग्रसिताममुञ्चतम् (यु॒वं शची॑भिर्ग्रसि॒ताममुञ्चतम्) । विष्कभिते अजरे (विष्क॑भिते अ॒जरे॑) । येन स्वः स्तभितम् (येन॒ स्वः॑ स्तभि॒तम्) । सत्येनोत्तभिता भूमिः (स॒त्येनोत्त॑भिता॒ भूमिः॑) । स्तभितेत्येव सिद्धे उत्पूर्वस्य पुनर्निपातनमन्योपसर्गपूर्वस्य मा भूदिति । चते याचने । कस गतौ । आभ्यां क्तस्येडभावः । चत्तो इतश्चत्तामुतः (च॒त्तो इ॒तश्च॒त्तामुतः॑) । त्रिधा ह श्यावमश्विना विकस्तम् (त्रिधा॑ ह॒ श्याव॑मश्विना॒ विक॑स्तम्) । उत्तानाया हृदयं यद्विकस्तम् । निपातनबहुत्वापेक्षं सूत्रे बहुवचनं विकस्ता इति । तेनैकवचनान्तोऽपि प्रयोगः साधुरेव । शसु शंसु शासु एभ्यस्तृच इडभावः । एकस्त्वष्टुरश्वस्याविशस्ता (एक॒स्त्वष्टु॒रश्व॑स्याविश॒स्ता) । ग्रावग्राभ उत शंस्ता (ग्रा॒व॒ग्रा॒भ उ॒त शंस्ता॑) । प्रशास्ता पोता (प्र॒शा॒स्ता पोता॑) । तरतेर्वृङ्वृञोश्च तृच उट् उट् एतावागमौ निपात्येते । तरुतारं रथानाम् (त॒रु॒तारं॒ रथा॑नाम्) । तरूतारम् । वरूतारम् । वरूत्रीभिः सुशरणो नो अस्तु (वरू॑त्रीभिः सुशर॒णो नो॑ अस्तु) । अत्र ङीबन्तनिपातनं प्रपञ्चार्थम् । वरूतृशब्दो हि निपातितः । ततो ङीपा गतार्थत्वात् उज्ज्वलादिभ्यश्चतुर्भ्यः शप इकारादेशो निपात्यते । ज्वल दीप्तौ । क्षर संचलने । टुवम उद्गिरणे । अम गत्यादिषु । इह क्षरितीत्यस्यानन्तरं क्षमितीत्यपि केचित्पठन्ति । तत्र क्षमूष् सहने इति धातुर्बोध्यः । भाषायां तु ग्रस्तस्कब्धोस्तब्धोत्तब्धचतितविकसिताः । विशसिता । शंसिता । शासिता । तरीता । तरिता । वरीता । वरिता । उज्जवलति । क्षरति । पाठान्तरे, क्षमति । वमति । अमति । बभूथाऽततन्थजगृभ्मववर्थेति निगमे (SK2527) विद्मा तमुत्सु यत आवभूथ (वि॒द्मा तमुत्सु॒ यत॑ आव॒भूथ॑) । येनान्तरिक्षमुर्वाततन्थ (येना॒न्तरि॑क्षमु॒र्वा॑त॒तन्थ॑) । जगृभ्मा ते दक्षिणामिन्द्र हस्तम् (ज॒गृभ्मा ते॒ दक्षि॑णामिन्द्र॒ हस्त॑म्) । त्वं ज्योतिपा वितमो ववर्थ (त्वं ज्योति॑पा॒ वितमो॑ ववर्थ) । भाषायां तु बभूविथ । आतेनिथ । जहृहिम । ववरिथेति ॥

Nyaas

ग्रसु स्कन्भु स्तन्भु इत्येतेषाम् इत्यादि। ग्रसु ग्लसु अदने (धातुपाठः-630,631), स्कन्भु, स्तन्भु (3.1.82) इत्येतौ सौत्रौ धातू; स्तम्भुस्तुम्भुस्कम्भुस्कुम्भुस्कुञ्भ्यः श्नुश्च (3.1.82) इति सूत्रे पाठात्। स्कभितम्, स्तभितम् इति। अनिदिताम् (6.4.24) इत्यनुनासिकसलोपः। स्कब्धभ्, स्तब्धम् इति। झषस्तथोर्धोऽधः (8.2.40) इति धत्वम्, झलां जश् झशि (8.4.53) इति जश्त्वम्। उत्तभितम् इति। उदः स्थास्तम्भोः पूर्वस्य (8.4.61) इति पूर्वसवर्णः। अन्योपसर्गपूर्वः स्तभितशब्दो न भवतीतीति। यदि स्यात्, उत्पूर्वस्य निपातनमनर्थकं स्यात्। `चतेः, कसेश्च इति। चते चदे याचने (धातुपाठः-865,866), कस गतौ (धातुपाठः-860)। ननु सूत्रे विकस्तशब्दाद्वहुवचनं श्रूयते, ततश्च कथमसौ वृत्तादेकवचनान्त उदह्मतः? इत्यत आह - निपातनं बहुत्वापेक्षम्। विकस्ता इति बहुवचनम् इति। सूत्रे ग्रसितादीनि निपातनानि कृतद्वन्द्वानि, अतस्तदपेक्षया बहुवचनं कृतम्। वृत्तौ त्वसमस्त एक एवायं विकस्तशब्दः। न चैतदर्थस्य बहुवचनं विवक्षिम्, अत एकवचनान्त एवोदाहृतः। अपरेषु इति। विशस्तृप्रभृतिषु। प्रत्येकं विभक्तिनिर्देशः इति। बहुत्वाभावाद्बहुवचनम्, तेन तत्र न कृतमित्यभिप्रायः। शसेर्विपूर्वस्य शंसेः शासेश्चेति। शसु हिसायाम् (धातुपाठः-727), शन्सु स्तुतौ (धातुपाठः-728) शासु अनुशिष्टौ (धातुपाठः-1075)। तरीतारम्? वरीतारम् इति। वृतो वा (7.2.38) इति दीर्घः। वरूत्रीः इति। ऋन्नेभ्यो ङीप् (4.1.5) इति ङीप्, तदन्ताज्जस्, वा छन्दसि (6.1.106) इति पूर्वसवर्णदीर्घः। जसि पूर्वसवर्णोच्चारणम्` इत्यादि। ननु यणादेशे कृते वरूत्र्य इति भवितव्यम्, कथं वरूत्रयः इति भवति? इत्याह - छान्दसम् इत्यादि। छान्दसत्वेन हि ह्रस्वत्वे कृते जसि च (7.3.109) इति यणादेशापवदो गुणो विधीयते। प्रपञ्चार्थम् इति। विस्तरेणान्वाख्यानमित्यर्थः। तथा हि पचिर्विस्तारवचने (धातुपाठः-1651) इति तस्यैवाजन्तस्य प्रपञ्चेति भवति। प्रपञ्चस्तु विस्पष्टार्थः। विस्तरेण ह्रन्वाख्यानं स्पष्टं भवति। अथ वरूत्रीशब्दस्य सिध्यर्थ निपातनं कस्मान्न भवति? इत्याह - वख्तृशब्दो हि इत्यादि। ज्वलतेरिति ज्वल दीप्तौ (धातुपाठः-831), क्षर सञ्चलने (धातुपाठः-851), टु वम उद्गिरणे (धातुपाठः-849) अम गत्यादिषु (धातुपाठः-465)। `इतिकरणं प्रदर्शनार्थम् इति एवम्प्रकारस्याम्यस्यापि प्रदर्शनार्थमितिकरणम्। तेन किं सिद्धं भवति? इत्याह - तेन क्वचित् इत्यादि। चकारस्श्छन्दसीत्यनुकर्षणार्थः। तेन चानुकृष्टत्वान्नोत्तरत्राभिसम्बध्यते। तेनोत्तरत्र विधानमविशेषेण भवति॥

Prakriyasarvasvam

ग्रसितं वा एतत्सोमस्य । विष्कभिते अजरे । “वैःस्कभ्नातेः” (८-३-७७) इति षः । येनस्वस्तभितम् । सत्येनोत्तभिता । चत्तो इतश्चतामुतः श्यावमश्विना विकस्तम् । अश्वस्याविशस्ता । उत शंस्ता सुविप्र । प्रशास्ता पोता । एष्वनिटामिट् सेटामनिट्त्वं च निपातितम् । तॄवृञोस्तु च उडूटौ । तरुतारं रथानाम् । तरुता । वरूतात्वावतो वरूता । वरूत्रीस्त्वा । विभक्तिरतन्त्रम् । वरूत्रीभिस्सुर- शरणः । ज्वलादेः शब्लुक् तिप् ईट् च* ।