Sutras 101 - 120¶
- 64101: हुझल्भ्यो हेर्धिः
- 64102: श्रुशृणुपॄकृवृभ्यश्छन्दसि
- 64103: अङितश्च
- 64104: चिणो लुक्
- 64105: अतो हेः
- 64106: उतश्च प्रत्ययादसंयोगपूर्वात्
- 64107: लोपश्चास्यान्यतरस्यां म्वोः
- 64108: नित्यं करोतेः
- 64109: ये च
- 64110: अत उत् सार्वधातुके
- 64111: श्नसोरल्लोपः
- 64112: श्नाऽभ्यस्तयोरातः
- 64113: ई हल्यघोः
- 64114: इद्दरिद्रस्य
- 64115: भियोऽन्यतरस्याम्
- 64116: जहातेश्च
- 64117: आ च हौ
- 64118: लोपो यि
- 64119: घ्वसोरेद्धावभ्यासलोपश्च
- 64120: अत एकहल्मध्येऽनादेशादेर्लिटि