64119: घ्वसोरेद्धावभ्यासलोपश्च¶
Padacheda: घु-असोः | S | 6 | 2 |
एत् | S | 1 | 1 |
हौ | S | 7 | 1 |
अभ्यासलोपः | S | 1 | 1 |
च | S | 0 | 0 |
Sutrartha¶
‘हि’ प्रत्यये परे घु-संज्ञकधातूनामङ्गस्य तथा अस्-धातोः एकारादेशः भवति, तथा अभ्यासस्य लोपः भवति ।
किम् नाम घु? दाधा घ्वदाप् (1.1.20) इत्यनेन डुदाञ् (दाने), दाण् (दाने), दो (अवखण्डने), देङ् (रक्षणे), डुधाञ् (धारणपोषणयोः), तथा धेट् (पाने) एतेषाम् षण्णाम् ‘घु’संज्ञा भवति । एतेषाम् तथा अदादिगणस्य अस्-धातोः लोट्लकारस्य हि-प्रत्यये परे एकारादेशः भवति । तथा च, डुदाञ् (दाने) तथा डुधाञ् (धारणपोषणयोः) एतौ जुहोत्यादिगणस्य धातू स्तः, अतः एतेषां विषये प्राप्तस्य अभ्यासस्य अपि अनेन सूत्रेण लोपः भवति । यथा - 1. दा-धातोः लोट्-लकारस्य मध्यमपुरुषैकवचनस्य प्रक्रिया - दा + लोट् [लोट् च (3.3.162) इति लोट्] → दा + सिप् [तिप्तस्.. (3.4.78) इति मध्यमपुरुषैकवचनस्य सिप्-प्रत्ययः] → दा + शप् + सिप् [कर्तरि शप् (3.1.68) इति शप्] → दा + सिप् [जुहित्यादिभ्यः श्लुः (2.4.75) इति श्लुः] → दा दा + सिप् [श्लौ (6.1.10) इति द्वित्वम्] → द दा + सिप् [ह्रस्वः (7.4.59) इति ह्रस्वः] → द दा + हि [सेह्यर्पिच्च (3.4.87) इति सि-इत्यस्य अपित् हि-आदेशः ] → देहि [घ्वसोरेद्धावभ्यासलोपश्च (6.4.119) इत्यनेन आकारस्य एकारादेशः, तथा अभ्यासस्य लोपः] 2. अस्-धातोः लोट्-लकारस्य मध्यमपुरुषैकवचनस्य प्रक्रिया - अस् + लोट् [लोट् च (3.3.162) इति लोट्] → अस् + सिप् [तिप्तस्.. (3.4.78) इति मध्यमपुरुषैकवचनस्य सिप्-प्रत्ययः] → अस् + शप् + सि [कर्तरि शप् (3.1.68) इति शप्] → अस् + सि [अदिप्रभृतिभ्यः शपः (2.4.72) इति शपः लुक्] → अस् + हि [सेह्यर्पिच्च (3.4.87) इति सिप्-प्रत्ययस्य अपित् हि-आदेशः । सार्वधातुकमपित् (1.2.4) इति ङित्वद्भावः] → अ ए + हि [घ्वसोरेद्धावभ्यासलोपश्च (6.4.119) इति अस्-धातोः सकारस्य एकारः] → ए + हि [श्नसोरल्लोपः (6.4.111) इति सार्वधातुके ङित्-प्रत्यये परे अकारलोपः] → ए + धि [असिद्धवदत्राभात् (6.4.22) इत्यस्मिन् अधिकारे घ्वसोरेद्धावभ्यासलोपश्च (6.4.119) इत्यनेन कृतः एकारादेशः हुझल्भ्यो हेर्धिः (6.4.101) इत्यनेन न दृश्यते । अतः हुझल्भ्यो हेर्धिः (6.4.101) इत्यस्य कृते ‘स् + हि’ इत्येव स्थितिः अस्ति । अस्याम् स्थितौ झल्-वर्णात् परस्य हि-इत्यस्य अनेन सूत्रेण धि-आदेशः भवति ।] → एधि
Sutrartha (English)¶
The घु-संज्ञक verb roots and the verb root अस् get an एकार as आदेश when followed by the ‘हि’ प्रत्यय. Also, अभ्यास, if present, is removed.
Vasu English Summary¶
For the final vowel of the roots दा and धा (धु) and for the स् of अस् , is substituted ए before the Imperative ending हि and thereby the reduplicated syllable of दा and धा (धु) is elided.
Vasu English Translation¶
For the final vowel of the roots दा and धा (धु) and for the स् of अस् , is substituted ए before the Imperative ending हि and thereby the reduplicated syllable of दा and धा (धु) is elided. Thus देहि, and धेहि, of घु, and एधि of अस्, the स being elided by this sutra, and अ being elided by (6.4.111). This लोप of the present sutra should be considered as having an indicatory श् so that the whole of the reduplicated and not only the final letter of the abhyasa (1.1.55) is elided.
Kashika¶
घुसंज्ञकानामङ्गानामस्तेश्च एकारादेशो भवति हौ परतोऽभ्यासलोपश्च। देहि। धेहि। अस्तेः — श्नसोरल्लोपः (६.४.१११) इत्यकारलोपः। एधि। शिदयं लोपः। तेन सर्वस्याभ्यासस्य भवति॥
Siddhanta Kaumudi¶
घोरस्तेश्चैत्वं स्याद्धौ परेऽभ्यासलोपश्च । आभीयत्वेनैत्वास्यासिद्धत्वाद्धेर्धिः । श्नसोरल्लोपः-(SK2469)इत्यल्लोपः । एधि । तातङ्पक्षे एत्वं न । परेण तातङा बाधात् । [(परिभाषा - ) सकृद्गताविति न्यायात्] । स्तात् । स्तम् । स्त । असानि । असाव । असाम । अस्तिसिच-(SK2225)इतीट् । आसीत् । श्नसो-(SK2469) इत्यल्लोपस्याभीयत्वेनासिद्धत्वादाट् । आस्ताम् । आसन् । स्यात् । भूयात् । अभूत् । सिचोऽस्तेश्च विद्यमानत्वेन विशेषणादीण्न ॥
Laghu Siddhanta Kaumudi¶
घोरस्तेश्च एत्त्वं स्याद्धौ परे अभ्यासलोपश्च। एत्त्वस्यासिद्धत्वाद्धेर्धिः। श्नसोरित्यल्लोपः। तातङ्पक्षे एत्त्वं न, परेण तातङा बाधात्। एधि, स्तात्। स्तम्। स्त। असानि। असाव। असाम। आसीत्। आस्ताम्। आसन्। स्यात्। स्याताम्। स्युः। भूयात्। अभूत्। अभविष्यत्॥ {$ {! 18 इण् !} गतौ $} (धातुपाठे (02.0040)) ॥ एति। इतः॥
Tattvabodhini¶
घ्वसोरेद्धावभ्यासलोपश्च - घ्वसोरेद्धा । एत्वमलोन्त्यस्य, लोपस्तु शित्त्वात्सर्वस्येति भाष्यादौ स्पष्टम् । देहि । धेहि । असिद्धत्वादाडिति । नन्वेवमाटोऽसिद्धत्वात्श्नसो॑रित्यल्लोपो न भवेदिति तपरकरणं तत्र व्यर्थमिति चेत्, अत्राहुः — आभाच्छास्त्रस्याऽनित्यताज्ञापनाय तपरकरणम् । तेनदेभतु॑रित्यादि सिद्धमिति । स्यादेतत् — अत्र केचित् — अद्ग्रहणस्य निष्फलत्वे तपरकरणस्य ज्ञापनार्थत्वं न सिध्येत् । न चअत उ॑दिति सूत्रस्थतपरकररणमेव ज्ञापनार्थमस्त्विति वाच्यम्, अस्येत्युक्तौ गौरवादद्र्धमात्रालाघवाय तत्र तपरत्वमिति सुवचत्वात् । तस्मादुक्तज्ञापनार्थमद्ग्रहणमावश्यकमित्याहुः ।
Nyaas¶
अभ्यासलोपश्च इति धुसंज्ञकार्थमभ्यासलोपग्रहणम्; न त्वस्त्यर्थम्; अस्तेरभ्यासम्भवात्। देहि चेहि इति। दाञ्धाञोरेते रूपे। अन्येषान्तु घुसंज्ञकानामुदाहरणं न सम्भवति; विकरणेन हेव्र्यवधानात्। असम्भवाच्च यथायोगम्। तत्र दो इत्येतस्य श्यना हिशब्दो व्यवधीयते, दणो धेटस्तु शापा, देङः पुनरात्मनेपदित्वाद हेरसम्भवः। एधि इति। सकारस्यैत्त्वे कृते तस्यासिद्धत्वात्? हुझलभ्यो हेर्धिः (6.4.101) इति धिभावः। ननु च **अलोऽन्त्यस्य** (1.1.52) इत्यलामन्त्यस्य लोपेन भवितव्यम्, तत्? कथं सर्वस्याभ्यासस्य लोपो भवति? इत्यत आह -`शिदयम् इत्यादि। लोपश्च इत्यत्र द्वौ शकारौ निर्दिष्टौ। तत्रैको लोपस्य समबन्धी, द्वितीयस्तु विभक्तेः। यश्च लोपस्य सम्बन्धी तस्येत्संज्ञा प्रतिज्ञायत इति शिदयं लोपो भवति। तेन सर्वस्याभ्यासस्थ लोपो भवति। आ च हौ (6.4.117) इत्यतो होग्रहणं मण्डूकप्लुतिन्यायेन शक्यतेऽनुवर्तयुतुम्। तत्रन्यतरस्यांग्रहणेन सम्बद्धमिति तदनुवृत्तौ अन्यतरस्याम् इत्येतस्याप्यनुवृत्तिरित्याशङ्का स्यात्, अतस्तन्निवृत्त्यर्थं हौ इत्युक्तम्। चकारस्य सन्नियोगर्थत्वाल्लोपो भवत्येत्त्वञ्च॥
Prakriyasarvasvam¶
घोरस्तेश्च हौ पर एत्वं स्यात्, घोरभ्यासलोपश्च । ए हि । ‘असिद्धवदत्र—’ इति एत्वस्यासिद्ध्या झल्त्वेन ‘हुझल्भ्यो हेर्धिः’ । एधि, स्तात् । स्तम् । स्त आट् । असानि । असाव । लङि ‘अस्तिसिच—’ इतीट्¹ । आट्वृद्धी । आसीत् । ङित्सु श्नसोरल्लोपस्याभीयत्वेनासिद्धत्वादाट् । आस्ताम् । आसन् । आसीः । आस्तम् । आस्त । आसम् । आस्व । भावे लुङादौ च,
Sutra Prayogas¶
देहि (भट्टिकाव्यम्): घ्वसोरेद्धावभ्यासलोपश्च इत्येत्वम् ।
एधि (भट्टिकाव्यम्): घ्वसोरेद्धावभ्यासलोपश्च इति एत्वमभ्यासलोपश्च।
धेहि (भट्टिकाव्यम्): घ्वसोरेद्धावभ्यासलोपश्च इति एत्वमभ्यासलोपश्च।