64104: चिणो लुक्

Padacheda: चिणः | S | 5 | 1 |

लुक् | S | 1 | 1 |

Sutrartha

चिण्-विकरणात् उत्तरस्य (तिङ्-प्रत्ययस्य) लुक् भवति ।

‘चिण्’ इति कश्चन विकरणप्रत्ययः । लुङ्-लकारस्य विषये च्लि लुङि (3.1.43) इत्यनेन च्लि-विकरणप्रत्यये प्राप्ते तस्य केषाञ्चन धातूनां विषये ‘चिण्’ आदेशः भवति । अस्मात् आदेशात् परस्य तिङ्-प्रत्ययस्य अनेन सूत्रेण लुक् विधीयते । यथा - 1. जन्-धातोः लुङ्-लकारस्य प्रथमपुरुषैकवचनस्य रूपसिद्धिः इयम् - जन् + लुङ् [लुङ् (3.2.110) इति लुङ्] → जन् + ल् [इत्संज्ञालोपः] → अट् + जन् + ल् [लुङ्लङ्लृङ्क्ष्वडुदात्तः (6.4.71) इति अडागमः] → अ + जन् + च्लि + ल् [च्लि लुङि (3.1.43) इति लुङ्लकारस्य विकरणप्रत्ययः ‘च्लि’] → अ+ जन् + चिण् + ल् [दीपजनबुधपूरितायिप्यायिभ्योऽन्यतरस्याम् (3.1.61) इति जन्-धातोः परस्य च्लि-प्रत्ययस्य वैकल्पिकः चिण्-आदेशः] → अ+ जन् + इ + ल् [अत उपधायाः (7.2.116) इत्यनेन उपधावृद्धौ प्राप्ते; जनिवध्योश्च (7.3.35) इत्यनेन चिण्-प्रत्यये परे उपधावृद्धिनिषेधः] → अ + जन् + इ + तिप् [तिप्तस्… (3.4.78) इति तिप्-प्रत्ययः] → अ + जन् + इ [चिणो लुक् (6.4.104) इत्यनेन चिण्-प्रत्ययात् उत्तरस्य तिङ्-प्रत्ययस्य लुक् भवति] → अजनि 2. गद् -धातोः कर्मणि-प्रयोगे लुङ्-लकारस्य प्रथमपुरुषैकवचनस्य रूपसिद्धिः इयम् - गद् + लुङ् [लुङ् (3.2.110) इति लुङ् ] → अ + गद् + ल् [लुङ्लङ्लृङ्क्ष्वडुदात्तः (6.4.71) इति अडागमः] → अ + गद् + च्लि + ल् [च्लि लुङि (3.1.43) इति लुङ्लकारस्य विकरणप्रत्ययः ‘च्लि’] → अ + गद् + च्लि + त [तिप्तस्… (3.4.78) इति भावकर्मविवक्षायामात्मनेपदस्य प्रथमपुरुषैकवचनस्य ‘त’ प्रत्ययः] → अ + गद् + चिण् + त [चिण्भावकर्मणोः (3.1.66) इति कर्मणिप्रयोगे च्लि-इत्यस्य तकारादौ प्रत्यये परे चिण्-आदेशः] → अ + गाद् + इ + त [अत उपधायाः (7.2.116) इति उपधावृद्धिः] → अगादि [चिणो लुक् (6.4.104) इति प्रत्ययस्य लुक्] ज्ञातव्यम् - अस्मिन् सूत्रे ‘तिङ्-प्रत्ययस्य’ लुक् भवतीति स्पष्टरूपेण नोच्यते । परन्तु इदम् सूत्रमङ्गाधिकारे आगच्छति, अतः अङ्गात् परस्य ‘प्रत्ययस्यैव’ लुक् भवितुमर्हति । अस्मिन् विषये काशिकान्यासे उच्यते - ‘अथ प्रत्ययस्य एतत् कुतः लभ्यते? अङ्गस्य (6.4.1) इत्यनेन प्रत्ययस्य सन्निधापितत्त्वात् ।’

Sutrartha (English)

The तिङ् प्रत्यय that follows the चिण् विकरणप्रत्यय undergoes a लुक्.

Vasu English Summary

The personal endings are elided after चिण् , the 3rd person singular Passive of Aorist.

Vasu English Translation

The personal endings are elided after चिण् , the 3rd person singular Passive of Aorist. As अहारि, अलावि, अकारि, अपाचि ॥ So also अकारितराम्, अहारितमाम्, here the elision of the personal affix त (3.1.60) of the Aorist being considered as asiddha, the affixes तरप् and तमप् are not elided: though if the sutra were to be literally interpreted, every affix after चिण्, ought to be elided. Or the word क्ङिति is understood here; so that कित् and ङित् affixes of चिण् are elided and not every affix.

Bhashya

चिणो लुक् (3102) (लुकोऽधिकरणम्) (6578 उपसंख्यानवार्तिकम् ॥ 1 ॥) - चिणो लुकि तग्रहणम् - चिणो लुकि तग्रहणं कर्तव्यम् । इह मा भूत् - अकारितराम्, अहारितराम् - इति ॥ (6579 एकदेशिवार्तिकम् ॥ 2 ॥) - चिणो लुकि तग्रहणानर्थक्यं सङ्घातस्याप्रत्ययत्वात् - चिणो लुकि तग्रहणमनर्थकम् । सङ्घातस्य लुक् कस्मान्न भवति ? सङ्घातस्याप्रत्ययत्वात् । प्रत्ययस्य लुक्श्लुलुपो भवन्तीत्युच्यते, न च सङ्घातः प्रत्ययः ॥ तलोपे तर्हि कृते परस्य प्राप्नोति । (6580 सिद्धान्तवार्तिकम् ॥ 3 ॥) - तलोपस्य चासिद्धत्वात् - असिद्धस्तलोपस्तस्यासिद्धत्वान्न भविष्यति ॥ (6581 प्रकारान्तरेण तकारानर्थक्ये वार्तिकम् ॥ 4 ॥) - कार्यकृतत्वाद्वा - अथवा कृतश्चिणो लुगिति कृत्वा पुनर्न भविष्यति । तद्यथा - वसन्ते ब्राह्मणोऽग्नीनादधीतेति सकृदाधाय कृतः शास्त्रार्थ इति कृत्वा पुनः प्रवृत्तिर्न भवति । विषम उपन्यासः । युक्तं यत्तस्यैव पुनः प्रवृत्तिर्न स्यात्, यत्तु तदाश्रयं प्राप्नोति न तच्छक्यं बाधितुम् । तद्यथा - वसन्ते ब्राह्मणोऽग्निष्टोमादिभिः क्रतुभिर्यजेत - इति अग्न्याधाननिमित्तं वसन्ते वसन्त इज्यते । तस्मात्पूर्वोक्तावेव परिहारौ ॥ (प्रकारान्तरबोधकभाष्यम्) अथवा क्ङितीति वर्तते । क्व प्रकृतम् ? गमहनजनखनघसां लोपः क्ङित्यनङि (6.4.98) इति । तद्वै तत्र सप्तमीनिर्दिष्टम्, षष्ठीनिर्दिष्टेन चेहार्थः । चिण इत्येषा पञ्चमी क्ङितीति सप्तम्याः षष्ठीं प्रकल्पयिष्यति तस्मादित्युत्तरस्य (1.1.67) इति ॥

Kashika

चिण उत्तरस्य प्रत्ययस्य लुग् भवति। अकारि। अहारि। अलावि। अपाचि। अकारितराम् अहारितमामित्यत्र तलोपस्यासिद्धत्वात् तरप्तमपोर्न लुग् भवति, चिणो लुगित्येतद् विषयभेदाद् भिद्यते॥

Siddhanta Kaumudi

चिणः परस्य लुक् स्यात् । अप्यायि । अप्यायिष्ट ।{$ {!489 तायृ!} सन्तानपालनयोः$} । सन्तानः प्रबन्धः । तायते । तताये । अतायि । अतायिष्ट ।{$ {!490 शल!} चलनसंवरणयोः$} ।{$ {!491 वल!} {!492 वल्ल!} संवरणे संचरणे च$} । ववले । ववल्ले ।{$ {!493 मल!} {!494 मल्ल!} धारणे$} । मेले । ममल्ले ।{$ {!495 भल!} {!496 भल्ल!} परिभाषणहिंसादानेषु$} । बभले । बभल्ले ।{$ {!497 कल!} शब्दसंख्यानयोः$} । कलते । चकले ।{$ {!498 कल्ल!} अव्यक्ते शब्दे$} । कल्लते । अशब्दे इति स्वामी । अशब्दस्तूष्णींभाव इति च ।{$ {!499 तेवृ!} {!500 देवृ!} {!501 षेवृ!} {!502 गेवृ!} {!503 ग्लेवृ!} {!504 पेवृ!} {!505 मेवृ!} {!506 म्लेवृ!} सेवने$} । परिनिविभ्यः - (SK2275) इति षत्वम् । परिषेवते । सिषेवे । अयं सोपदेशोऽपीति न्यासकारादयः । तद्भाष्यविरुद्धम् । गेवते । जिगेवे । जिग्लेवे । पिपेवे । मेवते । म्लेवते । शेवृ खेवृ केवृ इत्यप्येके ।{$ {!507 रेवृ!} प्लवगतौ$} । प्लवगतिः प्लुतगतिः रेवते ॥ अथावत्यन्ताः परस्मैपदिनः ॥{$ {!508 मव्य!} बन्धने$} । ममव्य ।{$ {!509 सूर्क्ष्य!} {!510 ईर्क्ष्य!} {!511 ईर्ष्य!} ईर्ष्यार्थाः$} ।{$ {!512 हय!} गतौ$} । अहयीत् । यान्तात्वान्नवृद्धिः ।{$ {!513 शुच्य!} अभिषवे$} । अवयवानां शिथिलीकरणं सुरायाः सन्धानं वाऽभिषवः स्नानं च । शुशुच्य । चुच्य इत्येके ।{$ {!514 हर्य!} गतिकान्त्योः $}। जहर्य{$ {!515 अल!} भूषणपर्याप्तिवारणेषु$} । अलति । आल ॥

Laghu Siddhanta Kaumudi

चिणः परस्य लुक् स्यात्॥

Balamanorama

चिणो लुक् - चिणो लुक् । ‘चिण’ इति पञ्चमी । तदाह — चिणः परस्येति । चिणः परश्च अर्थात्तशब्द एव भवति । चिणभावे च्लेः सिचि रूपमाह् — अप्यायिष्टेति रूपम् । शल चलने इत्यारभ्य तेवृ इत्यतः प्राग्लान्ताः । तेवृ इत्यारभ्य रेवत्यान्ता वकारान्ताः । षेवृदातोः षोपदेशत्वात्सत्वे सेवत इत्यादि रूपम् । परिषेवत इत्यत्रसात्पदाद्यो॑रिति निषेधे प्राप्ते आह — परिनिविभ्य इति । सिषेवे इति । आदेशसकारत्वात्षत्वमिति भावः । अयं सोपदेशोऽपीति । षेवृधातुरित्यर्थः । तद्भाष्यविरुद्धमिति । सेक्सृप्सृस्तृसृजस्तृस्त्यानामेव भाष्ये षोपदेशपर्युदासादिति भावः । रेवृ प्लवगताविति । प्लवेति न धात्वन्तरमिति सूचयन्नाह — प्लवगतिः- प्लुतगतिरिति । अयपयेत्यादिरेवत्यन्ता गताः । अवत्यन्ता इति । ‘अव रक्षणे’ इत्येतत्पर्यन्ता इत्यर्थः । मव्येत्यारभ्य अलभूषणेत्यतः प्राग्यकारान्ताः । अल भूषणेत्यारभ्य खोरृ प्रतीघाते इत्यतः प्राग्लकारान्ताः ।

Tattvabodhini

चिणो लुक् - चिणो लुक् । परस्य लुक् स्यादिति ।तदशब्दस्ये॑ति कैश्चित्पठते, तदार्थिकार्थकथनम्, तशब्दे परतश्चिणि विहिते चिणः परस्य जायमानो लुक् — प्रत्ययस्य लुकश्लुलुपः॑ इति वचनात्तशब्दस्यैवेति स्पष्टत्वात् । अयमिति । षेवृ धातुः । भाष्यविरुद्धमिति । यदि सोपदेशः स्यात्तदा स्त्यायतिरिवाऽयमपि षोपदेश लक्षणे पर्युदस्येत, तदकरणान्नास्ति सोपदेश इति भावः । प्लवगताविति । केचित् प्लवेति धात्वन्तरमित्याहुस्तद्धि मनोरमायां दूषितम् ।प्लवे॑ति धात्वन्तरत्वेविभाषऽऽङि रुप्लुवो॑रित्यत्र प्लुवः पक्षे घञ्विधानं व्यर्थं स्यात्, ल्पेवेत्येतस्माद्धञि आप्लावशब्दस्य सिद्धत्वात् । तथारुआवतिश्रणोती॑ति सूत्रेण प्लवेतरभ्यासोकारस्येत्वविधानमपि व्यर्थं स्यात्, तद्धि पक्षे अपिप्लवदिति रूपसिद्ध्यर्थं क्रियते, तच्च रूपं प्लवधातोःसन्यतः॑ इत्यनेन सिद्धमिति किं तदुपादानेनेति । ममव्येति ।यस्य हलः॑ इति लोपस्तु न भवति,यस्येति सङ्घातग्रहण॑मिति सिद्धान्तितत्वात् । वर्णंग्रहणे त्वर्थवद्ग्रहणपरिभाषाया अप्रवृत्त्या पुत्रकाम्येत्यादावपि लोपः स्यादिति दिक् । लुटि — मव्यिता । आशिषि — मव्यात् ।हलो यमा॑मिति धातुयकारस्य वा लोपः । सूक्ष्र्य ईर्क्ष्य । णलि — सुषूक्ष्र्य । ईक्ष्र्याचकार । ईष्र्याचकार । एभ्यः क्विपिलोपो व्योटरिति यलोपे,स्कोः॑ इति कलोपे जश्त्वचर्त्वयोः — सूर्ट् इत्येव रूपम् । हय गतौ । जहाय । हय्यात् । शिथिलीकरणमिति ।सोममभिषुणोती॑त्यादौ दर्शनात् । सुराया इति । तत्प्रकरणेसंधानं स्यादभिषवः॑ इत्यमरोक्तेः ।

Padamanjari

चिण इति पञ्चमी, न षष्ठी विधानसामर्थ्यात् । प्रत्ययस्येति । प्रत्ययस्य लुक्शलुलुपः, इति वचनादङ्गाधिकाराच्चैतल्लभ्यते । तेनाकारितरामिति तश्बदस्य तरप आमश्च यः सङ्घातस्तस्य युगपल्लुग्न भवति प्रत्येकं प्रत्ययत्वेऽपि सङ्घातोऽप्रत्ययो ह्ययम् । ननु चेदमस्मिन्नसिद्धमिति भेदनिबन्धनो विषयविषयिभावः, तत्कथं चिणो लुक्चिणो लुक्येवासिद्धो भवति अत ताअह - चिणो लुगित्येतदिति । अथ वा - क्ङितीति वर्तते, चिणः इति पञ्चमी तस्य षष्ठी प्रकल्पयिष्यति, तेन क्ङितः प्रत्ययस्य लुग्विधीयमानस्तरपो न भविष्यति ॥

Nyaas

चिण उत्तरस्य प्रत्ययस्य इति। अथ प्रत्ययस्यैतत्कुतो लभ्यते? अङ्गस्य (6.4.1) इत्यनेन प्रत्ययस्य सन्निधापितत्त्वात्। यदि चिण उत्तरसय प्रत्ययस्य लुग्भवति, अकारितराम्, अकारितमामित्यत्र तरप्तममोर्लुक्? कस्मान्न भवति? इत्याह - अकारितराम् इत्यादि। योऽसौ तशब्दस्य लुक्, तस्य तरप्तमपोर्लुकि कर्तव्ये असिद्धवदत्राभात् (6.4.22) इत्यसिद्धत्वम्। अतस्तशब्देन व्यवदानाच्चिणोऽनन्तरौ तरप्तमपौ न भवत इति तयोर्लुग्न भवति। ननु चान्यस्यान्यास्मेन्नसिद्धवचनादेकस्य तत्रैवासिद्धत्वं नोपपद्यते? इत्यत आह - चिणो लुगित्येतत् इत्यादि। चिणो लुक् इत्यभेदेनापि श्रुतमिदं लक्षणं विषयस्य लक्ष्यस्य भेदाद्भिद्यते, व्यक्तौ पदर्थे प्रतिव्यक्ति लक्षणं भिद्यत इति कृत्वा, तेन भेदे सत्युपपद्यत एवासिद्धत्वम्। अकारि, अहारीति स्थिते अतिशयविवक्षायां तरप्तमपौ तिङश्च (5.3.56) इत्यनेन, तदन्तात् किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे (5.4.11) इत्यामौ कृते, अकारितमाम्, अकारितमामिति भवति॥

Prakriyasarvasvam

चिणः परस्य प्रत्ययस्य लुक् स्यात् । णित्त्वाद् वृद्धिः । अभावि । कर्मण्यपि तशब्दे परे तथैव । आतामादौ तु सिच् ।

Sutra Prayogas

  • आकुल्यकारि (शिशुपालवधम्): चिणो लुक् इति तशब्दस्य लुक्।

  • वनौघनमदभ्रमराणि (शिशुपालवधम्): चिणो लुक् इति तशब्दस्य लुक्।

  • अतिसुरभिभाजि (शिशुपालवधम्): चिणो लुक् इति तशब्दस्य लुक्।

  • उदकण्ठि (शिशुपालवधम्): चिणो लुक् इति तशब्दादेशस्य लुक्।

  • रानायि (भट्टिकाव्यम्): चिणो लुक् इति तशब्दस्य लुक् ।

  • अपाती (भट्टिकाव्यम्): चिणो लुक् इति लुक्।

  • आपादि (भट्टिकाव्यम्): चिणो लुक् इति तशब्दस्य लुक्।

  • प्रत्यवादि (भट्टिकाव्यम्): चिणो लुक् इति तलोपः ।