64120: अत एकहल्मध्येऽनादेशादेर्लिटि¶
Padacheda: अतः | S | 6 | 1 |
एकहल्मध्ये | S | 7 | 1 |
अनादेशादेः | S | 6 | 1 |
लिटि | S | 7 | 1 |
Sutrartha¶
अनादेशादेः अङ्गस्य एकहल्मध्ये स्थितस्य अकारस्य लिट्-लकारस्य कित्-प्रत्यये परे एकारादेशः भवति, तथा अभ्यासस्य लोपः भवति ।
एतत् सूत्रम् किञ्चित् क्लिष्टमस्ति, अतः क्रमेण पश्यामः । 1. अस्य सूत्रस्य प्रसक्तिः केवलं लिट्-लकारस्य विषये अस्ति, अतः ‘लिटि’ इति निर्दिष्टमस्ति । 2. लिट्-लकारस्यापि केवलं कित्-प्रत्यये परे एव अस्य सूत्रस्य प्रसक्तिः अस्ति, अतः ‘किति लिटि’ इत्युक्तमस्ति । 3. लिट्-लकारस्य के के प्रत्ययाः कित्-संज्ञकाः सन्ति? वस्तुतः लिट्-लकारस्य एकस्मिन् अपि प्रत्यये ककारः इत्संज्ञकः नास्ति । परन्तु असंयोगाल्लिट् कित् (1.2.5) इत्यनेन यः लिट्-लकारस्य अपित्- प्रत्ययः संयोगात् परः नास्ति, तस्य कित्-अतिदेशः भवति । एतादृशानां प्रत्ययानां विषये अस्य सूत्रस्य प्रसक्तिः अस्ति । 4. अनेन सूत्रेण कार्यद्वयमुक्तमस्ति - अङ्गस्य अकारस्य एकारादेशः, तथा अभ्यासस्य लोपः । 5. एतत् कार्यम् कदा भवति? यदा स्थानिभूतः अयमकारः ‘एकहल्-मध्ये’ स्थितः अस्ति । किम् नाम ‘एकहल्-मध्ये’ ? यदि अकारात् परम् केवलं एकः एव हल्-वर्णः अस्ति (संयोगः नास्ति), तथा अकारात् पूर्वमपि एकः एव हल्-वर्णः अस्ति (संयोगः नास्ति) तर्हि सः अकारः ‘एकहल्मध्ये’ स्थितः अस्ति इत्युच्यते । एतादृशस्य अकारस्यैव अनेन सूत्रेण एकारादेशः भवति । यदि अकारात् परः पूर्वः वा संयोगः अस्ति, तर्हि तादृशस्य अकारस्य अनेन सूत्रेण एकारादेशः न भवति । 6. अस्मिन् सूत्रे ‘अङ्गस्य’ इत्यस्यापि एकम् विशेषणम् प्रयुक्तमस्ति - अनादेशादिः । इत्युक्ते, अङ्गस्य आदिवर्णस्य कोऽपि आदेशः न क्रियते चेदेव अस्य सूत्रस्य प्रयोगः करणीयः, अन्यथा न । अतः सारांशरूपेण अस्य सूत्रस्य अर्थः अयम् भवति - लिट्-लकारस्य कित्-प्रत्यये परे अङ्गस्य अकारस्य एकारादेशः तथा अभ्यासस्य लोपः भवति, यदि सः अकारः संयोगात् पूर्वम्, संयोगात् परम् च नास्ति, तथा यदि तस्य अङ्गस्य प्रथमवर्णस्य कोऽपि आदेशः न भवति । कानिचन उदाहरणानि पश्यामः - 1. पच्-धातोः लिट्-लकारस्य आत्मनेपदस्य प्रथमपुरुषएकवचनस्य रूपसिद्धिः इयम् - पच् + लिट् [परोक्षे लिट् (3.2.115) इति लिट्] → पच् पच् + लिट् [लिटि धातोरनभ्यासस्य (6.1.8) इति द्वित्वम्] → प पच् + लिट् [हलादि शेषः (7.4.60) इति चकारस्य लोपः] → प पच् + त [तिप्तस्झि.. (3.4.78) इत्यनेन आत्मनेपदस्य प्रथमपुरुषैकवचनस्य विवक्षायाम् ‘त’ प्रत्ययः] → प पच् + एश् [लिटस्तझयोरेशिरेच् (3.4.81) इत्यनेन त-प्रत्ययस्य एश्-आदेशः ।’एश्’ प्रत्ययात् पूर्वम् संयोगः नास्ति, अतः असंयोगाल्लिट् कित् (1.2.5) इत्यनेन ‘एश्’ अयमपित्-प्रत्ययः कित्-वत् भवति ] अत्र अङ्गे विद्यमानः पच्-इत्यस्य अकारः संयोगात् पूर्वमपि नास्ति, अनन्तरमपि नास्ति । तथा च, अभ्यासस्य प्रथमवर्णस्य अत्र कोऽपि आदेशः अपि अग्रे न विधीयते । अतः अत्र अत एकहल्मध्येऽनादेशादेर्लिटि (6.4.120) इति अभ्यासस्य लोपः भवति, तथा च धातोः अकारस्य च एकारः जायते - → पेचे [अत एकहल्मध्येऽनादेशादेर्लिटि (6.4.120)] 2. ये प्रत्ययाः कित्-प्रत्ययाः न सन्ति, तेषां विषये अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा, अ) पच्-धातोः लिट्-लकारस्य परस्मैपदस्य उत्तमपुरुषैकवचनस्य रूपसिद्धिः इयम् - पच् + लिट् [परोक्षे लिट् (3.2.115) इति लिट्] → पच् पच् + लिट् [लिटि धातोरनभ्यासस्य (6.1.8) इति द्वित्वम्] → प पच् + लिट् [हलादि शेषः (7.4.60) इति चकारलोपः] → प पच् + मिप् [तिप्तस्झि… (3.4.78) इति मिप्-प्रत्ययः] → प पच् णल् [परस्मैपदानां णलतुसुस्थलथुसणल्वमाः (3.4.82) इति मिप्-इत्यस्य णल्-आदेशः] अत्र यद्यपि अङ्गस्य अकारः ‘एकहल्मध्ये’ अस्ति, तथा च अङ्गमपि ‘अनादेशादिः’ अस्ति, तथापि प्रत्ययः (मिप्) पित्-अस्ति, अतः अत्र प्रत्ययस्य असंयोगाल्लिट् कित् (1.2.5) इत्यनेन कित्-वत् भावः न भवति । अतः अत्र अत एकहल्मध्येऽनादेशादेर्लिटि (6.4.120)] इत्यस्य प्रसक्तिः नास्ति । → प पाच्/पच् + अ [णलुत्तमो वा (7.1.91) इति वैकल्पिकम् णित्वम् । णित्वे अतः उपधायाः (7.2.116) इति अङ्गस्य उपधा-अकारस्य वृद्धिः आकारः] → पपाच / पपच आ) वन्द्-धातोः लिट्-लकारस्य प्रथमपुरुषबहुवचनस्य रूपसिद्धिः इयम् - वन्द् + लिट् [परोक्षे लिट् (3.2.115) इति लिट्] → वन्द् वन्द् + लिट् [लिटि धातोरनभ्यासस्य (6.1.8) इति द्वित्वम्] → व वन्द् + लिट् [हलादि शेषः (7.4.60) इति चकारस्य लोपः] → व वन्द् + झ [तिप्तस्झि.. (3.4.78) इत्यनेन आत्मनेपदस्य प्रथमपुरुषबहुवचनस्य विवक्षायाम् ‘झ’ प्रत्ययः] → व वन्द् + इरेच् [लिटस्तझयोरेशिरेच् (3.4.81) इत्यनेन झ-प्रत्ययस्य इरेच्-आदेशः ।] अत्र प्रत्ययात् पूर्वम् संयोगः अस्ति (न् + द्), अतः अत्र प्रत्ययस्य असंयोगाल्लिट् कित् (1.2.5) इत्यनेन कित्-वत् भावः न भवति । अतः अत्र अत एकहल्मध्येऽनादेशादेर्लिटि (6.4.120)] इत्यस्य प्रसक्तिः नास्ति । → ववन्दिरे 3. यदि अकारात् पूर्वम् / परम् संयोगः अस्ति, तर्हि अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा, श्रमुँ (तपसि खेदे च) अस्य धातोः लिट्-लकारस्य प्रथमपुरुष-द्विवचनस्य प्रक्रिया इयम् - श्रम् + लिट् [परोक्षे लिट् (3.2.115) इति लिट्] → श्रम् + श्रम् + लिट् [लिटि धातोरनभ्यासस्य (6.1.8) इति द्वित्वम्] → श + श्रम् + लिट् [हलादि शेषः (7.4.60) इति रेफमकारयोः लोपः] → श श्रम् + तस् [तिप्तस्झि.. (3.4.78) इत्यनेन प्रथमपुरुषद्विवचनस्य विवक्षायाम् ‘तस्’ प्रत्ययः] → श श्रम् + अतुस् [परस्मैपदानां णलतुसुस्थलथुसणल्वमाः (3.4.82) इति तस्-इत्यस्य अतुस्-आदेशः] अत्र अङ्गस्य अकारः ‘एकहल्मध्ये’ नास्ति (यतः अकारात् पूर्वम् ‘श् + र्’ अयं संयोगः अस्ति) अतः अत्र अस्य सूत्रस्य प्रसक्तिः नास्ति । → शश्रमतुः [विसर्गनिर्माणम्] 4. यदि अभ्यासस्य प्रथमवर्णस्य आदेशः विधीयते, तर्हि अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा, गम्-धातोः लिट्-लकारस्य प्रथमपुरुष-द्विवचनस्य प्रक्रिया इयम् - गम् + लिट् [परोक्षे लिट् (3.2.115) इति लिट्] → गम् गम् + ल् [लिटि धातोरनभ्यासस्य (6.1.8) इति द्वित्वम्] → ग गम् + ल् [हलादि शेषः (7.4.60) इति मकारलोपः] → ज गम् + ल् [कुहोश्चुः (7.4.62) इति गकारस्य जकारः] → ज गम् + तस् [तिप्तस्… (3.4.78) इति तस् । असंयोगात् लिट् कित् (1.2.5) इत्यनेन असंयोगात् परस्य लिट्-लकारस्य अपित्-प्रत्ययस्य कित्-अतिदेशः] → ज गम् + अतुस् [परस्मैपदानां णलतुसुस्थलथुसणल्वमाः (3.4.82) इति अतुस्-आदेशः] अत्र यद्यपि अकारात् पूर्वम् परम् च संयोगः नास्ति, अग्रे लिट्-लकारस्य कित्-प्रत्ययः च अस्ति, तथाप्यत्र अभ्यासस्य प्रथमवर्णस्य आदेशः कृतः अस्ति, अतः अत्र वर्तमानसूत्रस्य प्रसक्तिः नास्ति । → ज ग् म् + अतुस् [गमहनजनखनघसां लोपः क्ङित्यनङि (6.4.98) इत्यनेन अजादि-कित्-प्रत्यये परे उपधा-अकारस्य लोपः] → जग्मतुः [ससजुषोः रुँः (8.2.66) इति रुँत्वम्, खरवसानयोर्विसर्जनीयः (8.3.15) इति विसर्गः] ज्ञातव्यम् - अनेन सूत्रेण उक्तः एकारादेशः मूलधातोः अकारस्यैव भवति, अभ्यासस्य अकारस्य न, यतः प्रत्ययविधानम् धातोः कृतमस्ति, अतः मूलधातुः एव अङ्गसंज्ञां प्राप्नोति, अभ्यासः न ।
Sutrartha (English)¶
When followed by a कित्-प्रत्यय of लिट्-लकार, The अकारः of an अङ्गम् is converted to एकार, and the अभ्यास is removed; provided that there is no संयोग before as well as after this अकार, and that the first letter of the अङ्गम् is not changed due to any आदेश.
Vasu English Summary¶
ए is substituted for the short अ standing between two simple consonants of a verbal अङ्ग (stem), before the personal endings of the लिट् (Perfect Tense) which have an indicatory क् – असंयोगाल्लिट् कित् (1.2.5), provided that, at the beginning of the root, in the reduplication, no other consonant has been substituted and when this ए is substituted, the reduplicate is elided.
Vasu English Translation¶
ए is substituted for the short अ standing between two simple consonants of a verbal अङ्ग (stem), before the personal endings of the लिट् (Perfect Tense) which have an indicatory क् – असंयोगाल्लिट् कित् (1.2.5), provided that, at the beginning of the root, in the reduplication, no other consonant has been substituted and when this ए is substituted, the reduplicate is elided. Thus रेणतुः, रेणुः, येमतुः, येमुः, पेचतुः, पेचुः, देभतुः, देभुः ॥ Why ‘for अ’? Observe दिदिवतुः, दिदिवुः the इ is not replaced. Why do we say ‘short अ’? Observe ररासे, ररासाते, ररासिरे ॥ Why do we say ‘standing between two simple consonants’? Observe ररक्षतुः, ररक्षुः ॥ Some say this example is not appropriate, for by (1.2.5), the Perfect affixes are not कित् here, as they come after a conjunct consonant. The following is then more appropriate :-तत्सरतुः and तत्सरुः ॥ Why do we say ‘which has no substituted consonant in the reduplicate’? Observe चकणतुः, चकणुः, जगणतुः, जगणुः, बभणतुः, बभणुः ॥
The substitution referred to here must be caused by the affixes of the Perfect, therefore, the rule will apply to नेमतुः, नेमुः, सेहे and सेहाते, सेहिरे though णम् and षह् are the roots, and ण् and ष् are changed to न and स ॥ The substitution of जश् consonant or a चर् consonant in the reduplicate, should not be here considered asiddha ((8.4.54), read with (8.2.1)). That substitution will be considered a substitution for the purposes of this sutra and will make the stem आदेशादिः, as is indicated by the special exception made in favor of फल् and भज् (6.4.122). If the form of the letter is not changed in the reduplicate, by substitution, then such substitution will not make the stem आदेशादिः ॥ Thus by (8.4.54), a चर् letter (च, ट, त, क, प, श, ष, स) is substituted for a consonant (other than a nasal and a semi-vowel) in the reduplicate.
Thus in पच् the reduplicate is पपच्, the first प is also a substitute, for the चर् substitute of प will be प ॥ Such substitutes, however, are not meant here. This we learn from the implication (jnapaka) of sutra (6.4.126) where exception is made in case of शस् and दद् ॥ Therefore, where the substitute is a different letter, then the reduplicate becomes adesadi: otherwise not.
When the affixes are not कित् or ङित् the rule does not apply: as अहं पपच, अहं पपठ ॥
Vart:- ए is substituted for the अ of दम्भ under similar circumstances :-thus देभतुः, देभुः ॥ The elision of the nasal by (6.4.24), would be considered asiddha by (6.4.22), hence this vartika.
Vart:- ए is substituted for the अ of नश and मन before affixes other than those of लिट् ॥ As अनेशम्, मेनका ॥ अनेशम् is the Aorist in अङ् of नश् which belongs to Pushadi roots (3.1.55). मेनका is formed by वुन् (3.1.150). Padamanjari gives अनेशन् (3rd Plural), and quotes अनेशन्नस्येषवः ॥
Vart:- In the Vedas, ए is substituted for the अ of अम् and पच् before affixes other than those of the Perfect, as व्येमानम्, (वि + अम् + चानश्, the augment मुक् being dropped); पेचिरन् instead of पचेरन्, the Imperfect of पच् ॥ The shortening is also a Vedic irregularity.
Vart:- So also of यज् and वप, as आयेजे and आवेपे the Imperfect Vedic forms. The augment आट् being added by (6.4.73).
Bhashya¶
अत एकहल्मध्येऽनादेशादेर्लिटि (3118) (एत्वाधिकरणम्) (6588 उपसंख्यानवार्तिकम् ॥ 1 ॥) - णकारषकारादेरेत्ववचनं लिटि - णकारषकारादेरेत्वं लिटि वक्तव्यम् । नेमतुः । नेमुः । सेहे । सेहाते । सेहिरे । किं पुनः कारणं न सिध्यति ? अनादेशादेरिति प्रतिषेधः प्राप्नोति ॥ (विशेष्यविशेषणभावेनेष्टसाधकं भाष्यम्) तत्तर्हि वक्तव्यम् ? न वक्तव्यम् । लिटाऽत्रादेशादिं विशेषयिष्यामः, लिटि य आदेशस्तदादेर्नेति ॥ (विशेषणविशेष्यभावाक्षेपसमाधानभाष्यम्) अस्त्यन्यल्लिड्ग्रहणस्य प्रयोजनम् । किम् ? इह मा भूत् - पक्ता, पक्तुम् । नैतदस्ति प्रयोजनम् । क्ङितीति वर्तते । एवमपि पक्वः पक्ववानित्यत्र प्राप्नोति । अभ्यासलोपसन्नियोगेनैत्वमुच्यते । न चात्राभ्यासलोपं पश्यामः । एवमपि पापच्यते - अत्र प्राप्नोति । दीर्घत्वमत्र बाधकं भविष्यति । नाप्राप्तेऽभ्यासविकार एत्वमारभ्यते, तद्यथाऽसावन्यानभ्यासविकारान् बाधत एवं दीर्घत्वमपि बाधेत । सत्यमेवमेतत् । अभ्यासविकारेष्वपि तु ज्येष्ठमध्यमकनीयांसः प्रकारा भवन्ति । तत्र ह्रस्वहलादिशेषावुत्सर्गौ तयोर्दीर्घत्वमपवाद एत्वं च । अपवादविप्रतिषेधाद्दीर्घत्वं भविष्यति ॥ (वार्तिकावतरणभाष्यम्) इह तर्हि - बभणतुः - बभणुरित्यभ्यासादेशस्यासिद्धत्वादेत्वं प्राप्नोति ॥ (6589 सिद्धत्वज्ञापकवार्तिकम् ॥ 2 ॥) - फलिभजिग्रहणं तु ज्ञापकमभ्यासादेशसिद्धत्वस्य - यदयं फलिभज्योर्ग्रहणं करोति तज्ज्ञापयत्याचार्यः - अभ्यासादेशः सिद्ध एत्त्व इति । यद्येवं - (6590 आक्षेपवार्तिकम् ॥ 3 ॥) - प्रथमतृतीयादीनामादेशादित्वादेत्वाभावः - प्रथमतृतीयादीनामपि तर्ह्यादेशादित्वादेत्वं न प्राप्नोति । पेचतुः । पेचुः । देभतुः । देभुः ॥ (6591 समाधानवार्तिकम् ॥ 4 ॥) - न वा शसिदद्योः प्रतिषेधो ज्ञापको रूपाभेदे एत्त्वविज्ञानस्य - न वा एष दोषः । किं कारणम् ? शसिदद्योः प्रतिषेधो ज्ञापको रूपाभेदे एत्त्वविज्ञानस्य । यदयं शसिदद्योः प्रतिषेधं शास्ति तज्ज्ञापयत्याचार्यः - रूपाभेदेन ये आदेशादयो न तेभ्यः प्रतिषेधो भवतीति ॥ (6592 उपसंख्यानवार्तिकम् ॥ 5 ॥) - दम्भ एत्वम् - दम्भ एत्वं वक्तव्यम् । देभतुः । देभुः । किं पुनः कारणं न सिध्यति ? (6593 उपसंख्यानसमर्थकवार्तिकम् ॥ 6 ॥) - नलोपस्यासिद्धत्वात् - असिद्धो नलोपस्तस्यासिद्धत्वादेत्वं न प्राप्नोति ॥ (उपसंख्याने श्लोकवार्तिकम्) नशिमन्योरलिट्येत्वम् । नशिमन्योरलिटि एत्त्वं वक्तव्यम् ॥ (उपसंख्याने श्लोकवार्तिकम्) छन्दस्यमिपचोरपि ॥ छन्दसि अमिपचोरपीति वक्तव्यम् । किं प्रयोजनम् ? (प्रयोजने श्लोकवार्तिकम्) अनेशं मेनकेत्येतद् व्येमानं लिङि पेचिरन् ॥ यजायेजे वपावेपे यजः - आयेजे, वपः - आवेपे ॥ (श्लोकवार्तिकम्) दम्भ एत्वमलक्षणम् ॥ असिद्धत्वान्नलोपस्य दम्भ एत्त्वं न सिध्यति ॥ (ज्ञापकेनोपसंख्यानसाधकं श्लोकवार्तिकम्) श्नोसोरत्त्वे तकारेण ज्ञायते त्वेत्त्वशासनम् ॥ अनित्योऽयंविधिरिति ॥
Kashika¶
लिटि परत आदेश आदिर्यस्याङ्गस्य नास्ति तस्यैकहल्मध्येऽसहाययोर्हलोर्मध्ये योऽकारस्तस्यैकारादेशो भवति, अभ्यासलोपश्च लिटि क्ङिति परतः। रेणतुः, रेणुः। येमतुः, येमुः। पेचतुः, पेचुः। देमतुः, देमुः। अत इति किम्? दिदिवतुः, दिदिवुः। तपरकरणं किम्? ररासे, ररासाते, ररासिरे। एकहल्मध्य इति किम्? शश्रमतुः। शश्रमुः। तत्सरतुः, तत्सरुः। अनादेशादेरिति किम्? चकणतुः, चकणुः। जगणतुः, जगणुः। बभणतुः, बभणुः। लिट आदेशविशेषणं किम्? इहापि यथा स्यात् — नेमतुः, नेमुः। सेहे, सेहाते, सेहिरे। अनैमित्तिके नत्वसत्वे, तदादिर्लिट्यादेशादिर्न भवति। इहाभ्यासजश्त्वचर्त्वयोरसिद्धत्वं नास्ति। तेन तदादिरप्यादेशादिर्भवति। तथा च फलिभजोरेत्वं विधीयते। रूपाभेदे चादेशादिर्नाश्रीयत इति शसिदद्योः प्रतिषेधवचनं ज्ञापकम्। अन्यथा हि पेचतुः, पेचुः, देमतुः, देमुरित्येवमादीनामपि प्रकृतिजश्चरादीनामेत्वं न स्यात्। क्ङितीत्येव — अहं पपच। अहं पपठ॥ दम्भेरेत्वं वक्त व्यम्॥ देभतुः, देभुः। नलोपस्यासिद्धत्वाद् न प्राप्नोति॥ नशिमन्योरलिट्येत्वं वक्त व्यम्॥ अनेशम्। मेनका। अनेशमिति नशेर्लुङि पुषादित्वादङ्। मेनकेति मनेः आशिषि च (३.१.१५०) इति वुन्। क्षिपकादिषु (७.३.४५ वा०) प्रक्षेपादित्वं न क्रियते॥ छन्दस्यमिपचोरप्यलिटि एत्वं वक्तव्यम्॥ व्येमानम्। अमेर्विपूर्वस्य चानशि मुक् न क्रियते। लिङि — पेचिरन्। पचेरन्नित्येतस्य छान्दसं ह्रस्वत्वम्॥ यजिवप्योश्च॥ आयेजे। आवेपे। यजेर्वपेश्च लङीटि छन्दस्यपि दृश्यते (६.४.७३) इत्यनजादेरप्याडागमः॥
Siddhanta Kaumudi¶
लिण्न्मित्तादेशादिकं न भवति यदङ्गं तदवयवस्यासंयुक्तहल्मध्यस्थस्याकारस्य एकारः स्यादभ्यासलोपश्च किति लिटि ॥
Laghu Siddhanta Kaumudi¶
लिण्निमित्तादेशादिकं न भवति यदङ्गं तदवयवस्यासंयुक्तहल्मध्यस्थस्यात एत्वमभ्यासलोपश्च किति लिटि। नेदतुः। नेदुः॥
Balamanorama¶
अत एकहल्मध्येऽनादेशादेर्लिटि - तस्य लटि एधिवद्रूपाणि सिद्धवत्कृत्य लिटस्तादेशे तस्यैशि द्वित्वे दध् दध् ए इति स्थिते । अत एकहलमध्ये । आदेश आदिर्यस्येति बहुव्रीहिः । अङ्गस्येत्यधिकृतमन्यपदार्थः । लिटीति निमित्तसप्तमी अनादेशादेरित्यस्यैकदेशे आदेशेऽन्वेति । लिटि परे निमित्ते य आदेशः स आदिर्यस्य न भवति तथाविधस्याङ्गस्येति लभ्यते । अङ्गस्येत्यवयवषष्ठी । तथा च तथाविधाङ्गावयवस्याऽत इति लभ्यते । एकशब्दोऽसहायवाची ।एके मुख्यान्यकेवलाः॑ इत्यमरः । एकौ असंयुक्तौ हलौ एकहलौ, तयोर्मध्यः,तत्रेति विग्रहः । ‘अत’ इत्स्यैव विशेषणमिदम् ।द्वसोरेद्धा॑वित्यत एदिति, अभ्यासलोप इति चानुवर्तते ।गमहने॑त्यतः कितीत्यनुवर्तते, न तु ङितीति, लिङादेशानां ङित्त्वाऽसंभवात् । लिटीत्येत्वविधौ परनिमित्तं च । आवृत्त्या उभयार्थलाभः । तदाह - लिण्निमित्तेत्यादिना ।
Tattvabodhini¶
अत एकहल्मध्येऽनादेशादेर्लिटि - लिण्निमित्तेति । किति लिटीति च । यद्यपिगहमने॑ति सूत्रे क्ङितीति वर्तते, तथापि प्रयोजनाऽभावान्ङितीत्येतन्नानुवर्तत इति भावः । किति कित् । ननाद । लिटि किम । पापच्यात् ।
Padamanjari¶
एकशब्दोऽसहायवचनः न सङ्ख्यावचनः मध्याभावात् । द्विवचनान्तस्य च समासः, द्वयोरेव मध्यसम्भाव्त, अत्र लिटीति यदि विधीयमानयोरेत्वाभ्यासलोपयोर्निमितनिर्द्देशः स्यात्, आदेशो न विशेषितः स्यात्, ततश्च नेमतुः, नेमुः, सेहे, सेहाते, सेहिरे - अत्रापि प्रतिषेधः स्यात्, न त्वसत्वयोः कृतयोरङ्गस्यादेशादित्वात् । तस्माद् गुणभूतस्याप्यादेशस्यायं निमितनिर्द्देश इति दर्शयति - लिटि परत इति । लिटि परत्रावस्थिते य आदेशो विधीयते स आदिर्यस्याङ्गस्य नास्तीत्यर्थः । ररक्षतुरिति । अयुक्तमिदमादेशादित्वात् । क्वचितु ततक्षुरिति पठ।ल्ते, तदप्ययुक्तम् संयोगान्तत्वेन लिटः कित्वाभावात् । तस्मातत्सरतुः, तत्सरुरिति प्रत्युदाहरणम् । त्सर च्छद्भगतौ । चकणतुरिति । कणतिः शब्दार्थधातुवर्गे भूवादौ पठ।ल्ते । जगणतुरिति । गण संख्याने, चुरादित्वातत्र णिच् प्राप्नोति । यदिनेष्यते, अनित्यण्यन्ताश्नुरादयः । एतच्च धुषिरविशब्दने इत्यत्र वक्ष्यते । यद्यपि कृहौश्चुः इति चुत्वं लिट।लहत्य न विहितम्, तखाभायसनिमिते तु प्रत्यये विधानाल्लिण्निमितमपि भवति, सर्वथा लिट।लुत्पन्ने पश्चाद्भवति । एअनैमितिके नत्वसत्वे इति । ततश्च प्रागेव लिडुत्पतेस्ताभ्यां भवितव्यम्, तेन तदाद्यङ्गं लिटि य आदेशस्तदादि न भवति, यदि लिटा आदेशो विशेष्यते, एत्वमलिट।ल्पि प्राप्नोति - पक्वः, पक्ववानिति नैष दोषः, चकारः सभूच्चये, नान्वाचये तेन यत्राभ्यासलोपस्तत्रैवैत्वम् । इह तर्हि स्यात् - पिपठिषति क्ङितीति एवर्तते । एवमपि पापठ।ल्ते - अत्रापि प्राप्नोति नैष दोषः, इह ह्यभ्यासकार्येषु ह्रस्वहलादिशेषावुत्सर्गौ, तयोरन्यऽपवादास्तत्रैह दीर्घोऽकितः इति दीर्घत्वं च प्राप्नोति अनेन लोपश्च, तत्र दीर्घस्यावकाशः - बाभाष्यते, अस्य विधेरवकाशः - पेचतुः, पेछु, पापच्यते - इत्यत्रोभयप्रसङ्गे अपवादविप्रतिषेधाद्दीर्षत्वेनायमभ्यासलोपो बाध्यते तत्सन्नियोगशिष्टत्वादेतवमपि न भविष्यति । अभ्यासविकारेषु उभयसमावेशो यत्र सर्वेषां प्रवृत्तिस्तत्र । इह तु यद्यपि दीर्घत्वे कृतेऽपि एत्वाभ्यासलोपयोः प्रसङ्गः, तयोश्च कृतयोन दीर्घस्य प्रसङ्ग इति न सर्वेषां प्रवृत्तिः । ननु च बभणतुः, बभणुरित्यादावभ्वासजश्त्वचर्त्वयोरसिद्धत्वादनादेशादित्वात् एत्वाभ्यासलोपाभ्यां भाव्यम्, विपिरतिषेधस्य तु जहसतुर्जहसुरित्यादौ यत्र कुहोश्चुः इति चुत्वं क्रियते सोऽवकाशः स्यात् अत आह - इहेति । अत्रैव थज्ञापकमाह - तथा चेति । रुपामेदे त्विति । यत्रादेशस्य स्थानिना सह रुपमैदो नास्ति तत्रेत्यर्थः । शसिदद्योरिति । अभ्यासे चर्च, इति सर्वत्र जश्चरोः प्राप्तयोरन्तरतमपिरभाषाव्यापारलब्धमिदं वक्ष्यते - प्रकृतिचरां प्रकृतिचरः, प्रकृतिजशां प्रकृतिजश इति । तेन शसेः शकारस्य शकारो ददेर्दकारस्य दकार इति, तावप्यादेशादी भवतः । यदि चाभिन्नरुपोऽप्यादेश कैहाश्रीयेत, तत आदेशादित्वादेव प्रतिषेधे सिद्धे न शसददवादिगुथणानाम् इति शसिदद्योः प्रतिषेधोऽनर्थकः स्यात्, कृतस्तु ज्ञापयति - रुपाभेदे य थाअदेशः स इह नाश्रीयते इति । यदि पुनराश्रीयेत किं स्यात् इत्यत आह - अन्यथेति । प्रकृतिर्जश् प्रकृतिर्श्चर्च्चादिर्येषां तेषां न स्यात्, वचनं तु रेणुरित्यादौ चरितार्थम् । अहं पपचेति । उतमे णलि णित्वाभावपक्षे रुपम् । णत्वपक्षे तु परत्वाद्वृद्धौ कृतायां तपरकरणादकाराभावादेवा प्रसङ्गः । देभतुरिति । श्रन्थिग्रन्थि इत्यादिना लिटः कित्वे सति नलोपः । नशिमन्योरलिट।लेत्वमिति । अलिटीति पादपूणार्थोऽनुवादः, श्लोकोह्यएवं भाष्ये पठितः ॥ नशिमन्योरलिट।लेत्वं च्छन्दस्यमिपचोरपि । अनेशन्मेनकेत्येतव्द्येमानं लिङ् पेइचिरन् ॥ इति । अनेशन्निति । झोऽन्तादेशः । थानेशन्नस्योषवः । अनेशमिति तु प्रायेण पाठः, तत्र मिपोऽम्भावः । क्षिपकादिष्विति । क्षिपकादिषु हि इत्वप्रतिषेधो वक्ष्यते, एतच्च न यासयोः इत्यत्र आशिषि चोपसङ्ख्यानम् इत्यनाश्रित्योक्तम्, च्छन्दसीतिवचनात् मेनकेति भाषायां न प्राप्नोति । यदीष्यते, पृषोदरादिषु द्रष्टव्यः । लुग्न क्रियत इति । छान्दसत्वात्, बहुलं च्छन्दसि इति वा शपो लुप्तत्वात् । पेचिरन्निति । पचेरन्निति प्राप्ते । क्वचित्पठ।ल्ते - यजिवप्येश्च, आयोजे आवेवे, यजेर्वपेश्च लैङ् इति च्छन्दस्यपि दृश्यते इत्यनजादेरप्याडिति । अपर आह - लिटि तस्य एशादेशः, सम्प्रसारणपूर्वत्वे वा च्छन्दसि इत्यनुवृतेर्यणादेशः, एत्वाभ्यासलोपौ, उदातवता तिणेóत्याङ्ः समास इति । तथा चावगृह्णन्ति - यच्छञ्चयोश्च मनुरायजे पिता, आयेज इत्यायेजे इति ॥
Nyaas¶
एकहल्मध्ये इति। एकशब्दोऽयमसहायवाची। एकश्च एकश्च एकौ, एकौ च तौ हलौ चेत्येकहलौ, एकहलोर्मध्य इति द्विवचनान्तस्य षष्ठीसमासः। द्व्योरेव हि हलोर्मध्यं सम्भवति, नैकस्य। अत्र यदि लिटआदशो न विशिष्यते ततो नेमतुः, नेमु; सेहे सेहाते, सेहिर इत्यत्र न स्यात्। अस्तिह्यत्राप्यङ्गस्यादेश आदिरित्येतच्चेतसि कृत्वा लिटआदेशं विशेषयितुमाह -लिटि परतः इत्यादि। लिटि परभूते य आदेशो विधीयते स आदियंस्याङ्गस्य नास्तीत्यर्थः। तस्य इति। तस्यैवंविधस्याङ्गस्येत्यर्थः। तस्येति चाङ्गस्य योऽकार इत्यनेन सम्बन्धः। अवयवषष्ठी चेयम्, तस्यैवंविधस्याङ्गस्य योऽकारोऽवयवस्तस्येत्यर्थः। एक हल्मध्ये इत्यस्येदं विवरणम् -असहाययो र्हलोर्मध्ये इति। तत्येत्यनन्तरोक्तोऽकारः सम्बध्यते। तस्याङ्गस्यावयवस्याकारस्येत्यर्थः। स्थानषष्ठी चेम् -तस्य स्थान एकार आदेशो भवति। रेणतुः, रेणुः इति। अण रण (धातुपाठः-444,445) इति रणिः शब्दार्थः पठते। येमतुः, येमुः इति। यम उपरमे (धातुपाठः-984)। देमतुः, देमुः इति। दमु उपशमे (धातुपाठः-1203)। रराशे`[ररासे -काशिका।] इति। `राशृ शब्दे [राशृ शब्दे -धातुपाठः-] (धातुपाठः-626) आत्मनेपदी। शश्रमतुः शश्रमुः इति। श्रमु तपसि खेदे च (धातुपाठः-1204)।केचित्तु ततक्षतुः, ततक्षुरित्येतदेकहल्यध्यस्य प्रत्युदाहरणं पठन्ति; एतच्चायुक्तम्; क्ङितीत्यनुवर्तते, न च पक्षेः परस्य लिटः कित्त्वमस्ति। असंयोगात् इति प्रतिषेधात्?। तत्सरतुः, तत्सरुः इति। त्सर छद्मगतौ (धातुपाठः-554)। चकणतुः, चकणुः इति। अण रण वण भण क्वण कण शब्दार्थाः (धातुपाठः-444,445,446,447,450449)। तत्र कणतिर्भ्वादौ पठते। जगणतुः, जगणुः इति। गण संख्याने (धा।प।1853) चुरादौ पठते। ननु च चौरादिकत्वाण्णिचि कृते कास्प्रत्ययादाममन्त्रे लिटि (3.1.35) इत्यामा भवितव्यम्? अनित्यण्यन्ताश्चुरादयः (है।प।पा।97) इत्यदोषः। अनित्यण्यन्तत्वन्तु तेषां सप्तमे ज्ञापयिष्यते। बभणतुः इति। भणतिर्भ्वादौ पठते शब्दार्थ एव।नेमतुः इति। णम प्रह्वत्वे शब्दे (धातुपाठः-981)। णो नः (6.1.63) इति नत्वम्। सेहे इति। षह मर्षणे (धातुपाठः-852) धात्वादेः षः सः (6.1.64) इति सत्वम्। कथं पुनर्नत्वे सत्वे च लिटयादेशादी न भवतः? इत्यत आह -अनैमित्तिके नत्वसत्वे इत्यादि। नत्वसत्वविधाने हि न किञ्चिन्निमित्तमाश्रीयत इत्यनैमित्तिके एते भवतः, ततश्च प्रागेव लिडुत्पत्तेस्ताभ्यां भवितव्यम्। तेन तदादि यदङ्गं तल्लिटआदेशादि न भवति। यदि तर्हि लिटाऽदेशो विशिष्यत एवं सत्यङ्गमविशेषितं स्यात्, ततश्च पक्वः पक्ववानित्यत्रापि प्रसज्येत, पचेरपि ह्रङ्गस्य लिटि परभूते य आदेशः क्रियते स इहाप्यादिर्नास्ति? नैतदस्ति; अभ्यासलोपसन्नियोगेन ह्रेत्त्वमुच्यते। तेन यत्रैवाभ्यासलोपः तत्रैवैत्त्वेन भवितव्यम्। न चात्राभ्यासलोपः; असम्भवात्। इह तर्हि स्यात् -पापच्यत इति? अयमप्यदोषः; इह परत्वात्? दीर्घोऽकितः (7.4.83) इति दीर्घो भविष्यति। ह्रस्वहलादिशेषावुत्सर्गौ, तयोर्दीर्घत्वमेत्त्वञ्चापवादः। तत्र दीर्घस्यावकाशः -बाभास्यते, एत्वस्यावकाशः - पेचतुः, पेचुरिति; इहोभ्यं प्राप्नोति -पापच्यत इति, अपवादविप्रतिषेधे सति परत्वाद्दीर्घत्वं भविष्यति। अथ बभणतुः, बभणुरित्यत्रेत्त्वं कस्मान्न भवति, अभ्यासे चर्च (8.4.54) इति जश्त्वे कृत आदेशादित्वादिति चेत्? न; एत्त्वे कर्तव्ये जश्त्वस्यासिद्धत्वात्। तस्माद्भवितव्यमेवैत्त्वेन। विप्रतिषेधस्य तु यत्र कुहोश्चुः (7.4.62) इति श्चुत्वं क्रियते -चकणतुः, चकणुः, जहसतुः, जहसुरित्यादाववकशः स्यादित्यत आह -`इह इत्यादि। कथमेतज्ज्ञायते -नास्त्यसिद्धत्वम्? इत्याह -तथा च इत्यादि। तदैव तृफलभजत्रपश्च (6.4.122) इति फलिभज्योरेत्त्वमुपपद्यते यदि जश्त्वचत्वंयोरसिद्धत्वं न भवति, नान्यथा। अनादेशादित्वादनेनैवैत्त्वस्य सिद्धत्वात्? तन्नोपपद्यते। तस्मात्? फलिभज्योरेत्त्वविधानाददसीयते -जश्त्वचत्त्र्वयोरसिद्धत्वमिह नास्तीति। रूपाभेदे च इत्यादि। शब्दरूपस्य स्थानिनोऽबेदे सति य आदेशः स इह नाश्रीयते इत्यस्यार्थस्य न शसददवादिगुणानाम् (6.4.126) इति शसिदद्योः प्रतिषेधवचनं ज्ञापकम्। अभ्यासे चर्च (8.4.54) इत्यनेन प्रकृतिजशां प्रकृतिजशः, प्रकृतिचरां प्रकृतिचरो भवन्तीति शसः शकारस्य शकारो भवति, ददेर्दकारस्यापि दकार; तेनोभावपि तावादेशादी भवतः। तत्र यदि स्थान्यभेदे सति य आदेशः सोऽपीहाश्रीयेत, तत आदेशाद#इत्वादेव न भविष्यतीति शसिद्योरेत्त्वप्रतिषेधो न विधीयेत; विहितश्च, तस्मादेतदेव प्रतिषेधवचनं ज्ञापयति -रूपाभेदे सति य आदेशः स इह नाश्रीयत इति। यदि तह्र्राश्रीयत किं स्यात्? इत्यत आह -अन्यथा हि इत्यादि। अन्यथा योऽपि रूपाभेदादादेशः स्थानिनाभिन्नरूपः सोऽपीहाश्रयेत, ततो यथा चकणतुरित्येवमादीनामेत्त्वं न भवति, तथा पेचतुः, पेचुरित्येवमादीनामपि प्रकृतिजश्चरादीनां न स्यात्। प्रकृतिजशः प्रकृतिचरश्चादयो येषान्ते तथोक्ताः। अहं पपठ, अहं पपच इति। अत्र स्थानिवद्भावेन पित्त्वात्? कित्त्वं नास्ति, तेनैत्त्वाभ्यासलोपौ न भवतः। वृद्धिरपि न भवति; णलुत्तमो वा (7.1.91) इति पक्षे णित्त्वाभावात्। णित्त्वपक्षे तु परत्वाद्वृद्ध्या बाधित्वादेत्त्वादेत्त्वाभायासलोपाभ्यां न भवितव्यम्, इत्यणित्त्वपक्ष एवोदाहृतम्। दम्भेः इति। किं पुनः कारणं दम्भेरेत्त्वं न भवति, यावता लिटनादेशाध्रेतदङ्गम्। `अनिदिताम् (6.4.24) इत्यादिना न लोपे कृत एकहल्मध्य एवाकारः? इत्यत आह -नलोपस्य इत्यादि। ग्रन्थिश्रन्थिदम्भिस्वञ्जीनाम् (वा।17) इति सूत्रे [] दम्भेः परस्य लिटः कित्त्वमुक्तम्, तस्मिन्? सति य उपधाया लोपस्तस्य असिद्धवदत्रा भात् (6.4.22) इत्यसिद्धत्वान्न प्राप्नोति। तस्माद्दम्भेरेत्त्वं वक्तव्यम्। व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् -श्नसोरल्लोपः (6.4.111) इत्यत्रा भाच्छास्त्रीयस्यासिद्धत्वस्यानित्यत्वं ज्ञापितम्, तेन दम्भेरेत्त्वे कर्तव्ये लोपस्यासिद्ध्त्त्वं न भवति, ततश्च दम्भेर्लिटत्त्वं भविष्यतीति। अथ वा `अत एकहल्मध्ये (6.4.120) इत्यत्र अतः इति योगविभागः कर्तव्यः, तेन यत्र यत्रेत्त्वमिष्यते तत्र तत्र भविष्यतीति। एवञ्च कृत्वा नशिमन्योरलिटएत्त्वम् (वा।793) इत्याद्यपि नोपसंख्येयम्; योगविभागेनैव सिद्धत्वात्। वक्तव्यशब्दस्य व्याख्येय इत्येषोऽर्थ इति सर्वत्र वेदितव्यम्। अनेशम् इति। तस्थस्थ (3.4.101) इत्यादिना मिपोऽम्भावः। अथ मेनका इत्यत्र प्रत्ययस्थात् (7.3.44) इत्यादिनेत्त्वं कस्मान्न भवति? इत्याह -क्षिपकादिषु इत्यादि। क्षिपकादिष्वित्त्वस्य प्रतिषेधो वक्ष्यते। अस्य च क्षिपकादिषु प्रक्षेपः, तेनेत्त्वं न क्रियते। चानशि इति। तच्छील्यवयोवचनशक्तिषु चानश (3.2.129) मुक्? न क्रियते इति। आने मुक् (7.2.82) इति मुक्? प्राप्नोति, स न भवति अनित्यमागमशासनम् (व्या।पा।95) इति कृत्वा। छान्दसत्वाद्वा -सर्वे विधयश्छन्दसि विकल्प्यन्ते (भो।प।99) इति। छान्दसं ह्रस्वत्वम् इति। ङ्यापोः संज्ञाच्छन्दसोर्बहुलम् (6.3.63) इति ङ्यापोर्विधीयमानं ह्रस्वत्वं बहुलवचात्? `पेरिरन्नित्यत्रापि वति। पचेर्लिङ्, सीयुट्, झस्य रन्, शप्, आद्गुणः (6.1.87) । पचेरन्निति प्राप्त एत्त्वे ह्रस्वत्त्वे च कृते पेचिरन्निति भवति॥
Prakriyasarvasvam¶
आदावभ्यासजस्त्वादिरूपभेदरहितस्य धातोरसंयुक्तहल्मध्यगस्य अतः किति लिटि परे एत्वं स्यादभ्यासलोपश्च । पेच् वस्,
Vartika¶
यजिवप्योश्च ।
Sutra Prayogas¶
दासेदुषः (भट्टिकाव्यम्): अत एक-हल इत्येत्वाभ्यासलोपौ।
दधुः (भट्टिकाव्यम्): अत एकहल इत्येत्वाभ्यासलोपौ।
विलेपुश्च (भट्टिकाव्यम्): अत एक- हल इत्येत्वम्।