64110: अत उत् सार्वधातुके¶
Padacheda: अतः | S | 6 | 1 |
उत् | S | 1 | 1 |
सार्वधातुके | S | 7 | 1 |
Sutrartha¶
उकारान्त-प्रत्ययः यस्य अन्ते अस्ति तादृशस्य कृ-धातोः अङ्गस्य अकारस्य कित् / ङित् प्रत्यये परे उकारादेशः भवति ।
डुकृञ् (करणे) इति तनादिगणस्य धातुः । अस्मात् परः यदा ‘उ’ इति विकरणप्रत्ययः आगच्छति, तदा सार्वधातुकार्धधातुकयोः (7.3.84) इत्यनेन कृ-इत्यस्य रपरे गुणे प्राप्ते ‘करु’ इति सिद्ध्यति । अस्य अङ्गस्य अकारस्य वर्तमानसूत्रेण उकारादेशः भवति । यथा - 1. कृ-धातोः लट्-लकारस्य प्रथमपुरुषद्विवचनस्य रूपम् एतादृशम् सिद्ध्यति - कृ + लट् [वर्तमाने लट् (3.2.123) इति लट्] → कृ + तस् [तिप्तस्.. (3.4.78) इति तस्-प्रत्ययः] → कृ + उ + तस् [तनादिकृञ्भ्यः उः (3.1.73) इति विकरणप्रत्ययः ‘उ’] → कर् + उ + तस् [सार्वधातुकार्धधातुकयोः (7.3.84) इत्यनेन कृ-इत्यस्य रपरः गुणः] → कुर् + उ + तस् [अत उत् सार्वधातुके (6.4.110) इति अकारस्य उकारः] → कुरुतः [विसर्गनिर्माणम्] 2. कृ-धातोः लोट्लकारस्य मध्यमपुरुषैकवचनस्य रूपम् एतादृशम् सिद्ध्यति - कृ + लोट् [लोट् च (3.3.162) इति लोट्] → कृ + सिप् [तिप्तस्.. (3.4.78) इति मध्यमपुरुषैकवचनस्य सिप्-प्रत्ययः] → कृ + उ + सिप् [तनादिकृञ्भ्यः उः (3.1.73) इति उ-प्रत्ययः] → कर् + उ + सिप् [सार्वधातुकार्धधातुकयोः (7.3.84) इति अङ्गस्य गुणः] → कर् + उ + हि [सेह्यर्पिच्च (3.4.87) इति सि-प्रत्ययस्य अपित्-हि-आदेशः । ‘अपित्’-त्वात् सार्वधातुकमपित् (1.2.4) इति ङित्-भावः] → कुर् + उ + हि [अत उत् सार्वधातुके (6.4.110) इत्यनेन ङित्-प्रत्यये परे अकारस्य उकारादेशः] → कुरु [उतश्च प्रत्ययादसंयोगपूर्वात् (6.4.106) इत्यनेन प्रत्ययान्ते विद्यमानात् असंयोगपूर्व-उकारात् परस्य हि-प्रत्ययस्य लुक्] ज्ञातव्यम् - 1. पित्-प्रत्ययः पिच्च ङिन्न ङिच्च पिन्न अनया परिभाषया ङित् नास्ति । अयं प्रत्ययः कित् अपि नास्ति । अतः अस्मिन् प्रत्यये परे वर्तमानसूत्रस्य प्रसक्तिः नास्ति । यथा, कृ-धातोः लट्-लकारस्य प्रथमपुरुषैकवचनस्य रूपम् ‘करोति’ इति सिद्ध्यति । अत्र ‘तिप्’ इति पित्-सार्वधातुकप्रत्ययः अस्ति, अतः वर्तमानसूत्रेण अकारस्य उकारादेशः न भवति । 2. ‘उ’ इति विकरणप्रत्ययः तदा एव आगच्छति यदा अग्रे सार्वधातुकप्रत्ययः अस्ति । अतः ‘उत्’ इति ब्रूमश्चेत् पुनः ‘सार्वधातुके’ इति ग्रहणम् वस्तुतः अत्र न आवश्यकम् । परन्तु अग्रिमसूत्रेषु तस्य प्रयोजनम् दृश्यते । 3. अस्मिन् सूत्रे ‘उ’ इति विधीयमानः अंशः । भाव्यमानः अपि उकारः सवर्णान् गृह्णाति (परिभाषा २०) अनया परिभाषया विधीयमानः उकारः सवर्णानाम् ग्रहणम् अवश्यं करोति । परन्तु अत्र सवर्णानां ग्रहणं क्रियते चेदपि ह्रस्व-अकारस्य स्थाने उच्चारणकालसाधर्म्यात् ह्रस्व-उकारः एव भवितुम् अर्हति । अतः अत्र तपरकरणं कृत्वा सवर्णहग्रहणस्य निवारणं नैव आवश्यकम् । इत्युक्ते, अत्र ‘उ’ इति तपरकरणं विना उच्यते चेदपि नैव दोषाय । अस्यां स्थितौ अपि अस्मिन् सूत्रे ‘उत्’ इत्यत्र तपरकरणम् कृतम् अस्ति । एतत् तपरकरणम् ‘नित्यम् ह्रस्वस्यैव श्रवणम् भवेत्’ इति ज्ञापयितुम् कृतम् अस्ति । अनेन ‘कुर् + उ + तस्’ इति स्थिते पुगन्तलघूपधस्य च (7.3.86) इति उकारस्य गुणादेशः न भवति ।
Sutrartha (English)¶
If an अङ्ग of verb root कृ ends in an उकारान्त प्रत्यय, then the अकार of that अङ्ग is converted to उकार when followed by a कित् / ङित् प्रत्यय.
Vasu English Summary¶
Before a सार्वधातुक affix with an indicatory क् or ङ् , short उ is substituted for the अ if कृ ‘to make’ (कर् + उ) when गुण-ated.
Vasu English Translation¶
Before a सार्वधातुक affix with an indicatory क् or ङ् , short उ is substituted for the अ if कृ ‘to make’ (कर् + उ) when गुण-ated. Thus कृ + उ + तस् = कर् + उ + तस् (7.3.84) = कुर् + उ + तस् = कुरुतः (6.4.110) The तस् is ङित् by (1.2.4). So also कुर्वन्ति, कुरु ॥ Why do we say ‘before a Sarvadhatuka’? So that the rule may apply to what was once a Sarvadhatuka, though no longer existent. Thus कुरु where the personal ending हि is elided, but it leaves its effect behind. The त् in उत् shows that this उ is not to be gunated by (7.3.86). When the affix is not कित् or ङित् we have करोति, करोषि and करोमि (1.2.4).
Bhashya¶
अत उत् सार्वधातुके (3108) (उदादेशाधिकरणम्) (पदकृत्यभाष्यम्) सार्वधातुक इति किमर्थम् ? इह मा भूत् - सञ्चस्करतुः, सञ्चस्करुः इति ॥ (प्रतिषेधोपसंख्यानभाष्यम्) स्यान्तस्य प्रतिषेधो वक्तव्यः । करिष्यति । करिष्यते ॥ (6584 उपसंख्यानानर्थक्यबोधकवार्तिकम् ॥ 1 ॥) - कृञ्ञ उत्व उकारान्तनिर्देशात्स्यान्तस्याप्रतिषेधः - कृञ्ञ उत्वे उकारान्तनिर्देशात्स्यान्तस्याप्रतिषेधः । अनर्थकः प्रतिषेधोऽप्रतिषेधः । उत्वं कस्मान्न भवति ? उकारान्तनिर्देशात् ॥ (आक्षेपभाष्यम्) अशक्यः करोतावुकारान्तनिर्देशस्तत्राश्रयितुम् । इह सम्परिभ्यां भूषणसमवाययोः करोतावितीहैव स्यात् - संस्करोति, संस्कर्ता - संस्कर्तुमित्यत्र न स्यात् ॥ (आक्षेपसमर्थकभाष्यम्) न ब्रूमोऽस्मादुकारान्तनिर्देशाद्योऽयं करोतेरिति । किं तर्हि ? उकारान्तप्रकरणादुकारान्तमङ्गमभिसंबध्यते । उत इति वर्तते । यद्येवम्, नार्थः सार्वधातुकग्रहणेन । कस्मान्न भवति - संचस्करतुः, संचस्करुरिति ? उत इति वर्तते ॥ (सार्वधातुकपदप्रयोजनभाष्यम्) उत्तरार्थं तर्हि सार्वधातुग्रहणं कर्तव्यम् - श्नसोरल्लोपः (111) इति । श्नः सार्वधातुक एव, अस्तोरप्यार्धधातुके भूभावेन भवितव्यम् । उत्तरार्थमेव तर्हि - श्नाऽभ्यस्तयोरातः (112) इति । श्ना सार्वधातुक एव । अभ्यस्तमप्याकारान्तमार्धधातुके नास्ति । ननु चेदमस्ति - अप्सु यायावरः प्रवपेत पिण्डानिति । नैतदाकारान्तम् । किं तर्हि ? यकारान्तमेतत् ॥ उत्तरार्थमेव तर्हि - इर्हल्यघोः (113) इति । तत्रापि श्नाऽभ्यस्तयोरित्येव ॥ अतोऽप्युत्तरार्थमेव तर्हि - इद्दरिद्रस्य (114) इति । वक्ष्यत्येतत् दरिद्रातेरार्धधातुके लोपः सिद्धश्च प्रत्ययविधौ इति ॥ अतोऽप्युत्तरार्थं - भियोऽन्यतरस्याम् (115) । अभ्यस्तस्येत्येव ॥ अतोऽप्युत्तरार्थमेव तर्हि - जहातेश्च (116) । अभ्यस्तस्येत्येव ॥ अतोऽप्युत्तरार्थम् - आ च हौ (117) । हावित्युच्यते, अभ्यस्तस्येत्येव ॥ अतोऽप्युत्तरार्थमेव - लोपो यि (118) । अभ्यस्तस्येत्येव ॥ अतोऽप्युत्तरार्थमेव तर्हि - घ्वसोरेद्धावभ्यासलोपश्च (119) । हावित्युच्यते ॥ (प्रथमप्रयोजनस्थापकभाष्यम्) तदेव तर्हि प्रयोजनम् - श्नसोरल्लोपः इति । ननु चोक्तं श्नः सार्वधातुक एव, अस्तेरप्यार्धधातुके भूभावेन भवितव्यम् इति ॥ (प्रयोजनसमर्थकं श्लोकवार्तिकम्) अनुप्रयोगे तु भुवाऽस्त्यबाधनं स्मरन्ति कर्तुर्वचनान्मनीषिणः ॥ अनुप्रयोगे तु भूभावेनास्तेरबाधनमिष्यते - इर्हामासतुः, इर्हामासुः ॥ किं च स्याद्यद्यत्र लोपः स्यात् ॥ (सार्वधातुकपराभावे दोषप्रतिपादकं श्लोकवार्तिकम्) लोपे द्विर्वचनासिद्धिः लोपे कृतेऽनच्कत्वादि्द्वर्वचनं न स्यात् ॥ स्थानिवद्भावाद्भविष्यति । (दोषप्रापकं श्लोकवार्तिकम्) स्थानिवदिति चेत्कृते भवेत् द्वित्वे ॥ स्थानिवदिति चेत् कृते द्वित्वे लोपः प्राप्नोति ॥ अस्तु तर्हि परस्य लोपः । अभ्यासस्य योऽकारस्तस्य दीर्घत्वं भविष्यति ॥ (दोषप्रतिपादकं श्लोकवार्तिकम्) नैवं सिध्यति कस्मात् प्रत्यङ्गत्वाद्भवेद्धि पररूपम् ॥ नैवं सिध्यति । कस्मात् ? प्रत्यङ्गत्वात्पररूपं प्राप्नोति ॥ (दोषे श्लोकवार्तिकम्) तस्मिंश्च कृते लोपः पररूपे च कृते लोपः प्राप्नोति ॥ (दोषसमर्थकं श्लोकवार्तिकम्) दीर्घत्वं बाधकं भवेत्तत्र ॥ अत आदेः (7.4.70) इति दीर्घत्वं बाधकं भविष्यति ॥ (दोषप्रतिपादकं भाष्यम्) इदं तर्हि प्रयोजनं - सार्वधातुके भूतपूर्वमात्रेऽपि यथा स्यात् । कुरु-इति ॥
Kashika¶
उकारप्रत्ययान्तस्य करोतेरकारस्य स्थान उकार आदेशो भवति सार्वधातुके क्ङिति परतः। कुरुतः, कुर्वन्ति। सार्वधातुकग्रहणं किम्? भूतपूर्वेऽपि सार्वधातुके यथा स्यात् — कुरु। तपरकरणं लघूपधस्य गुणनिवृत्त्यर्थम्। क्ङितीत्येव — करोति। करोषि। करोमि॥
Siddhanta Kaumudi¶
उप्रत्ययान्तस्य कृञोऽकारस्य उत्स्यात्सार्वधातुके क्ङिति । उदिति तपरसामर्थ्यान्न गुणः । विदांकुरुतात् । विदांकुरुताम् । उतश्च-(SK2334)इति हेर्लुक् । आभीयत्वेन लुकोऽसिद्धत्वादूत्त्वम् । विदांकुरु । विदांकरवाणि । अवेत् । अवित्ताम् । सिजभ्यस्त-(SK2226) इति झेर्जुस् । अविदुः ॥
Laghu Siddhanta Kaumudi¶
उप्रत्ययान्तस्य कृञोऽत उत्सार्वधातुके क्ङिति। विदाङ्कुरुतात् । विदाङ्कुरुताम् । विदाङ्कुर्वन्तु । विदाङ्कुरु । विदाङ्करवाणि । अवेत् । अवित्ताम् । अविदुः ॥
Balamanorama¶
अत उत् सार्वधातुके - अत उत् । उप्रत्ययान्तस्येति ।उतश्च प्रत्यया॑दित्यतस्तदनुवृत्तेरिति भावः । अकारस्य उत्त्वे कृते तस्य लघूपधगुणमाशङ्क्य आह -तपरेति । इदं स्थानिवत्सूत्रे भाष्ये स्पष्टम् । विदाङ्कुरुतामिति । विदाङ्कुर्वन्त्वित्यपि ज्ञेयम् ।न भकुर्छुरा॑मिति निषेधात्हलि चे॑ति दीर्घो न । हेर्लुगिति । तर्हि सार्वधातुकाऽभावात्कथमुत्त्वमित्यत आह — आभीयत्वेनेति । विदांकुर्विति । विदांकुरुतात् विदांकुरुतम् विदांकुरुत । विदांकरवाणीति । आटः पित्त्वेन ङित्त्वाऽभावादुकारस्य गुण इति भावः । विदांकरवाव विदांकरवाम । लडआह -अवेदिति । हल्ङ्यादिना सिपो लोपे विशेषमाह -
Tattvabodhini¶
अत उत् सार्वधातुके - क्ङिति किम् । करोति । करोषि । लुकोऽसिद्धत्वादिति । सार्वधातुकग्रहणमुत्तरार्थमेव नात्राऽऽवश्यकम् ।इह भूतपूर्वगत्या सार्वधातुकपरत्वामाश्रीयते॑ इति वृत्तिमते त्वसिद्धत्ववर्णनस्योपयोगलेशोऽपि नास्तीति ज्ञेयम् ।
Padamanjari¶
करोतेरुप्रत्ययान्तस्येति । उतश्च प्रत्ययात् इत्यनुवृतेर्लभ्यते । सार्वधातुक इति किमिति । सत्यपि सार्वधातुकग्रहखणे स्यतास्यान्तस्य प्रसङ्गकरिष्यावः, कर्ताराविति स्यातासिभ्यां व्यवधानान्न भविष्यति । कुरुते - त्यित्रापि तर्ह्युप्रत्ययेन व्यवधानान्न स्यात् । स्मात्सार्वधातुके परतः करोतेरङ्गस्येत्यर्थसम्भावात्सार्वधातुके परतो यदङ्गं तदवयवस्य करोतेरित्याश्रयणीयम् । एवं च स्यतास्यन्तस्यापि प्रसङ्ग इति । उतश्च प्रत्ययात् इत्यवश्यमनुवर्त्यम्, उप्रत्ययान्तात्करोतेः परं क्ङ्त्सार्विधातुकमेवेति प्रशनः । भूतपूर्वेऽपीति । करु - हि इति स्थिते उत्वं च प्राप्नोति, हिलुक्च, नित्यत्वाद्धिलुकि कृते क्ङितः परस्याभावादुत्वं न स्यात् । प्रत्यात् । प्रत्ययलक्षणं च न लुमताङ्गस्य इति प्रतिषिद्धम् । तस्माद् भूतपूर्वेऽपि सार्वधातुके यथा स्यादिति सार्वधातुकग्रहणम् । आसिद्धो हिलुक्, तस्यासिद्धत्वादुत्वं भविष्यति । तस्माद्विस्पष्यार्थं सार्वधातुकग्रहणम् । यथा पुरस्योतरत्राप्युपयोगाभावः, तथा तत्र तत्र वक्ष्यते । इह यद्यपि भाव्यमानोऽप्युकारः सवर्णान् गृह्णाति, तथाप्यान्तर्यतो मात्रिकस्यातो मात्रिक तौकार एव भविष्यति, नार्थस्तकारेण तत्राह - तपरकरथखणमिति । थासति हि तस्मिन्नुप्रत्ययमाश्रित्योकारस्य लघूपधलक्षणो गुणः स्यात्, स मा भूदिति तपरकरणम् । तस्य हि प्रयोजनम् - लक्षणान्तरेणापि दीर्घो मा भूत् ॥
Nyaas¶
उकारप्रत्ययान्तस्य इत्यादि। उकारः प्रत्ययोऽन्तो यस्य स तथोक्तः। उकारप्रत्ययान्तश्च करोतिः सार्वधातुकत्त्वं न व्यभिचरति, अनेनाभिप्रायेणाह -सार्वधातुकग्रहणं किम् इति? भूतपूर्वेऽपि इत्यादि। असति सार्वधातुकग्रहणे करोतेरुकारप्रत्ययान्तस्य क्ङिति प्रत्यये परत उत्त्वमुच्यमानं यत्र क्ङित्? सार्वधातुकं परभूतं तत्रैव स्यात् -कुरुतः, कुर्वन्तीत्यादिषु; कुर्वित्र हेर्लुकि कृते क्ङित्प्रत्ययस्याभावात्? न लुमताङ्गस्य (1.1.63) इति प्रत्ययलक्षणप्रतिषेधात्तु न स्यात्। तस्माद्भूतपूर्वेऽपि सार्वधातुके यथा स्यादित्येवमर्थं सार्वधातुक्ग्रहण्। अथ तपरकरणं किमर्थम्, यावता यद्यपि भाव्यमान उकारः सवर्णानां ग्राहको भवति, तथाप्यान्तरतम्यान्मात्रिकस्थ स्थाने मात्रिक एव भविष्यति? इत्यत आह -तपरकरणम्` इत्यादि। असति हि तपरकरण उकारप्रत्ययमाश्रित्य सार्वधातुकार्धधातुकयोः (7.3.84) इति गुणे कृते रपरत्वे च यदुत्त्वं तस्योकारस्य पुगन्तलघूपधस्य च (7.3.86) इति गुणः स्यात्। तस्मात्? तपरकरणं क्रियते -ह्रस्वस्यैव श्रवुणं यथा स्यात्, लक्षमान्तरेण यो दीर्घः। प्राप्नोति स मा भूदिति॥
Prakriyasarvasvam¶
उप्रत्ययान्तस्य कृञोऽकारस्य ङिति सार्वधातुके पर उत् स्यात् । विदाङ्- कुरुतात् । विदाङ्कुरुताम् । विदाङ्कुर्वन्तु ।
Sutra Prayogas¶
प्रोरुर्णुवित्रीं (भट्टिकाव्यम्): अत उत् सार्वधातुके इति उत्।