64111: श्नसोरल्लोपः

Padacheda: श्ना-असोः | S | 6 | 2 |

अल्लोपः | S | 1 | 1 |

Sutrartha

श्नम्-विकरणस्य, ‘अस्’ धातोः च अङ्गस्य अकारस्य सार्वधातुके कित् / ङित् प्रत्यये परे लोपः भवति ।

रुधादिगणस्य विकरणप्रत्ययः ‘श्नम्’, तथा अदादिगणस्य धातुः ‘अस्’ (भुवि) इत्येययोः अवर्णस्य सार्वधातुके कित्/ङित्-प्रत्यये परे लोपः भवति । यथा - 1. रुध्-धातोः लट्लकारस्य प्रथमपुरुष-द्विवचनस्य प्रक्रिया इयम् - रुध् + लट् [वर्तमाने लट् (3.2.123) इति लट्] → रुध् + तस् [तिप्तस्.. (3.4.78) इति तस्-प्रत्ययः । सार्वधातुकमपित् (1.2.4) इति तस्-प्रत्ययस्य ङित्-भावः] → रु श्नम् ध् + तस् [रुधादिभ्यः श्नम् (3.1.78) इति श्नम्] → रु न ध् + तस् [इत्संज्ञालोपः] → रु न् ध् + तस् [श्नसोरल्लोपः (6.4.111) इति नकारात् परस्य अकारस्य लोपः] → रु न् ध् + धस् [झषस्तथोर्धोऽधः (8.2.40) इति तकारस्य धकारः] → रु न् ध् + धरुँ [ससजुषोः रुँः (8.2.66) इति रुँत्वम्] → रु न् ध् + धः [खरवसानयोर्विसर्जनीयः (8.3.15) इति विसर्गः] → रुं ध् + धः [नश्चापदान्तस्य झलि (8.3.24) इति अनुस्वारः] → रुं द् + धः [झलां जश् झशि (8.4.53) इति धकारस्य दकारः] → रुन् द् + धः [अनुस्वारस्य ययि परसवर्णः (8.4.58) इति अनुस्वारस्य परसवर्णः नकारः ] → रुन्द्धः, रुन्धः [झरो झरि सवर्णे (8.4.65) इति वैकल्पिकः दकारलोपः] 2. अस्-धातोः लट्-लकारस्य प्रथमपुरुष-बहुवचनस्य प्रक्रिया इयम् - अस् + लट् [वर्तमाने लट् (3.2.123) इति लट्] → अस् + झि [तिप्तस्.. (3.4.78) इति झि-प्रत्ययः । सार्वधातुकमपित् (1.2.4) इति झि-प्रत्ययस्य ङित्-भावः] → अस् + शप् + झि [कर्तरि शप् (3.1.68) इति शप्] → अस् + झि [अदिप्रभृतिभ्यः शपः (2.4.72) इति शपः लुक्] → स् + झि [श्नसोरल्लोपः (6.4.111) इति अस्-इत्यस्य अकारस्य सार्वधातुके क्ङिति परे लोपः] → स् + अन्ति [झोऽन्तः (7.1.3) इति अन्तादेशः] → सन्ति

ज्ञातव्यम् -

  1. अस्मिन् सूत्रे प्रयुक्तः ‘श्नस्’ अयम् शब्दः ‘श्न + अस्’ एवं निर्मितः अस्ति । अत्र अकः सवर्णे दीर्घः (6.1.101) इत्यनेन वस्तुतः सवर्णदीर्घः विधीयते, परन्तु आचार्येण अत्र पररूपम् कृतमस्ति । अस्य स्पष्टीकरणार्थम् काशिकाकारः वदति - ‘श्नसोः इति आकारस्य पररूपत्वं शकन्ध्वादिषु द्रष्टव्यम्’ । इत्युक्ते, ‘शकन्वाधिगणे अस्य शब्दस्य समावेशः करणीयः, येन इत्यनेन अ + अ = अ इति पररूपम् भवेत् । (<!शकन्ध्वादिषु पररूपं वाच्यम्!> एतत् वार्तिकम् एङि पररूपम् (6.1.94) अस्मिन् सूत्रे पाठितमस्ति ।)

  2. यद्यपि अस्मिन् सूत्रे ‘सार्वधातुके’ इति अनुवृत्तिः क्रियते, तथापि तस्य आवश्यकता न, यतः आर्धधातुके प्रत्यये परे श्नम्-विकरणमेव न आगच्छति । तथा च, अस्-धातोः आर्धधातुके प्रत्यये परे अस्तेर्भूः (2.4.52) इत्यनेन भू-आदेशः भवति । अतः आर्धधातुकस्य विषये अस्य सूत्रस्य प्रयोगस्य अवकाशः एव न विद्यते ।

  3. अत्र ‘अत्’ इत्यत्र तकारः उच्चारणार्थः अस्ति ।

Sutrartha (English)

The अकार of the ‘श्नम्’ विकरण and of the verb root ‘अस्’ is removed when followed by a सार्वधातुक किति / ङित् प्रत्यय.

Vasu English Summary

Before a सार्वधातुक कित् or ङित् affix, the अ of श्न and अस् is elided.

Vasu English Translation

Before a सार्वधातुक कित् or ङित् affix, the अ of श्न and अस् is elided. श्न is the characteristic of the roots of the Rudhadi class, while अस् is the root itself. Thus रुन्धः; रुन्धति, भिन्तः, भिन्दन्ति; So also of अस् :- स्तः, सन्ति ॥ But भिनत्ति and अस्ति before non-कित् and non-ङित् affixes. श्न + अस् ought to be श्नास्, instead of that we have श्नस् in the sutra. The पररूप single substitution is an irregularity.

Kashika

श्नस्यास्तेश्चाकारस्य लोपो भवति सार्वधातुके क्ङिति परतः। रुन्धः, रुन्धन्ति। भिन्तः, भिन्दन्ति। अस्तेः — स्तः, सन्ति। क्ङितीत्येव — भिनत्ति। अस्ति। श्नसोरित्यकारस्य पररूपत्वं शकन्ध्वादिषु० (६.१.९४ वा०) द्रष्टव्यम्॥

Siddhanta Kaumudi

श्नस्यास्तेश्चाकारस्य लोपः स्यात्सार्वधातुके क्ङिति । स्तः । सन्ति । तासस्त्योः-(SK2191) इति सलोपः । असि । स्थः । स्थ । अस्मि । स्वः । स्मः । आर्धधातुके (SK2432) इत्यधिकृत्य ॥

Laghu Siddhanta Kaumudi

श्नस्यास्तेश्चातो लोपः सार्वधातुके क्ङिति। स्तः। सन्ति। असि। स्थः। स्थ। अस्मि। स्वः। स्मः॥

Balamanorama

श्नसोरल्लोपः - श्नसोरल्लोपः ।अ॑दिति लुप्तष्ठीकं पदम् । श्न अस् अनयोद्र्वन्द्वात्षष्ठीद्विवचनम् । शकन्ध्वादित्वात् पररूपम् । श्नेति श्नम्प्रत्ययैकदेशनिर्देशः । ‘अत उत्सार्वधातुके’ इत्यतः सार्वधातुके इत्यनुवर्तते,गगमहने॑त्यतः क्ङितीति । तदाह — श्नस्येत्यादिना ।

Tattvabodhini

श्नसोरल्लोपः - श्नसोरल्लोपः ।अत उ॑ दिति सूत्रादत इत्यनुवत्र्याऽद्ग्रहणं त्यक्तुं शक्यमित्याहुः । श्नसोरिति । शकन्ध्वादित्वात्पररूपमित्याह — श्नस्याऽस्तेश्चेति । श्नस्योदाहरणं [रुन्धः] । रुन्धन्तीत्यादि । क्ङिति किम् । रुणद्धि । अस्ति । तपरकरणमास्तामासन्नित्यत्र ह्राडागमे कृते तस्य लोपो माभूदित्येतदर्थम् । निष्कर्षस्तु अनुपदं स्फुटीभविष्यति ।

Padamanjari

तपरकरणं किमाटो मा भूत् - आस्ताम्, आसन्, असिद्ध आट् । एवं तर्ह्याभीभीयस्यासिद्धत्वमनित्यमिति ज्ञापनार्थं तपरकरणम् । अथात्र सार्वधातुकाधिकारस्योपयोगः नेत्याह । श्नः सार्वधातुक एव, अस्तेरप्यार्द्धधातुके भूभावेन भाव्यम् । नन्वनुप्रयोगे भूभावो नास्ति - ईहामासुः सत्यम् तत्र द्विर्वचने हलादिशेषे च कृते येननाप्राप्तिन्यायेन अतो गुणे इति पररुपं बाधित्वा अत आदेः इति दीर्घत्वे कृते परस्याकारस्य सण्पि लोपे सिद्धमिष्टम् ॥

Nyaas

रुन्धः इति। झषस्तथोर्धोऽधः (8.2.40) इति तकारस्य धकारः। स्तः इति। अदादित्वाच्छपो लुक्। अथ श्नसोरिति कोऽयं निर्देशः, यावता अकः सवर्णे दीर्घः (6.1.101) इति दीर्घत्वे कृते श्नसोः इति निर्देशेन भवितव्यम्? इत्याह -श्नसोरित्याकारस्य पररूपत्वम् इत्यादि। अत्र तपरकरणं किमर्थम्, आस्ताम्, आसन्नित्यत्राडागमस्य मा भूदिति चेत्? नैतदस्ति; इह हि लङि कृते लावस्थायामाडागमात्पूर्वमन्तरङ्गत्वाल्लादेशः क्रियते। तत्र कृते विकरणः कृताकृतप्रसाङ्गित्वादाडागमं बाधते। आडागमस्य त्वशब्दान्तरप्राप्तेरनित्यत्वम्। तथा हि कृते विकरणे विकरणान्तस्याङ्गस्य तेन भवितव्यम्, अकृते धातुमात्रस्य। कृते विकरणे यद्यप्याडागमाकारलोपयोद्र्वयोरपि कृताकृतप्रसङ्गित्वेन नित्यत्वम्, तथापि परत्वादकारलोपः क्रियते, तस्मिन्? कृते तस्यासिद्धत्वादाट्, तस्यासिद्धत्वादेव च लोपो न भविष्यतीति किं तपरकरणेन? एवं तह्र्रेतज्ज्ञापयति -आबाच्छास्त्रीयमसिद्धत्वमनित्यम् इति। तेन वुग्युटावुवङयणोः सिद्धौ भवतः इत्येतद्वक्तव्यं न वक्तव्यं भवति॥

Prakriyasarvasvam

क्ङिति सार्वधातुके परे इनस्यास्तेश्चातो लोपः स्यात् । स्तः । सन्ति । ‘तासस्त्योः—’ इति सलोपः । असि । स्थः । स्थ । अस्मि । स्वः । स्मः । लिङि स्यात् । स्याताम् । स्युः । लोटि अस्तु, स्तात् । स्ताम् , सन्तु । अस् हि । अल्लोपः । स् हि ।

Sutra Prayogas

  • समिन्धानो (भट्टिकाव्यम्): असोरल्लोपः इति अकारलोपः।

  • प्रादुःषन्ति (भट्टिकाव्यम्): नसोरल्लोपः इत्यलोपे कृते पत्वम्।

  • एधि (भट्टिकाव्यम्): असोरल्लोपः इति अकारलोपः।