64114: इद्दरिद्रस्य¶
Padacheda: इत् | S | 1 | 1 |
दरिद्रस्य | S | 6 | 1 |
Sutrartha¶
दरिद्रा-धातोः आकारस्य हलादि-सार्वधातुके कित्/ङित्-प्रत्यये परे ह्रस्व-इकारादेशः भवति ।
एतत् सूत्रम् दरिद्रा (दुर्गतौ) इति अदादिगणस्य धातोः विषये अस्ति । अस्य धातोः जक्षित्यादयः षट् (6.1.6) इत्यनेन अभ्यस्तसंज्ञा भवति, अतः हलादि-सार्वधातुके कित्/ङित्-प्रत्यये परे अस्य आकारस्य ई हल्यघोः (6.4.113) इत्यनेन ईकारादेशः विधीयते । तं बाधित्वा वर्तमानसूत्रेण अस्य ह्रस्व-इकारादेशः उच्यते । यथा, दरिद्रा-धातोः लट्-लकारस्य प्रथमपुरुष-द्विवचनस्य रूपस्य प्रक्रिया इयम् - दरिद्रा + लोट् [वर्तमाने लट् (3.2.123) इति लट् ] → दरिद्रा + तस् [तिप्तस्झि.. (3.4.78) इति परस्मैपदस्य प्रथमपुरुषद्विवचनस्य विवक्षायाम् ‘तस्’ प्रत्ययः । सार्वधातुकमपित् (1.2.4) इति अस्य ङित्-वत् भावः] → दरिद्रा + शप् +तस् [कर्तरि शप् (3.1.68) इति औत्सर्गिकं विकरणम् शप्] → दरिद्रा + तस् [अदिप्रभृतिभ्यः शपः (2.4.72) इति शपः लुक्] → दरिद्रि + तस् [इद्दरिद्रस्य (6.4.114) इत्यनेन दरिद्रा-धातोः आकारस्य हलादि-सार्वधातुके ङिति प्रत्यये परे इकारः] → दरिद्रितः [विसर्गनिर्माणम्] तथैव दरिद्रिथः, दरिद्रिवः, दरिद्रिमः - आदीनि रूपाणि सिद्ध्यन्ति । अस्य सूत्रस्य विषये वार्तिकद्वयम् ज्ञातव्यम् - 1. <!दरिद्रातेरार्धधातुके लोपो वक्तव्यः!> / <!दरिद्रातेरार्धधातुके विवक्षित आलोपो वाच्यः!>। इत्युक्ते, दरिद्रा-धातोः आर्धधातुके प्रत्यये विवक्षिते आकारलोपः भवति । यथा - दरिद्रा → (आर्धधातुकप्रत्ययविवक्षायामाकारलोपः) दरिद्र् + अच् [ नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः (3.1.134) इत्यनेन पचादिगणे विद्यमानस्य दरिद्रा-धातोः अच्-प्रत्ययः] → दरिद्र । अत्र प्रत्ययविवक्षायामेव लोपं कृत्वा ततः एव यथायोग्यं प्रत्ययः विधीयते । एवं न क्रियते चेत् प्रारम्भे अच्-प्रत्ययस्य प्रसक्तिरेव न स्यात् ; अपितु श्याद्व्यधास्रुसंस्र्वतीणवसाऽवहृलिहश्लिषश्वसश्च (3.1.141) इत्यनेन ण-प्रत्ययं कृत्वा अनिष्टं रूपं सिद्ध्येत । एवमेव ‘तव्य’ प्रत्ययविवक्षायामाकारलोपं कृत्वा दरिद्रितव्य - इति सिद्ध्यति । ‘अनीयर्’ प्रत्ययविवक्षायामाकारलोपं कृत्वा ‘दरिद्रनीय’ इति सिद्ध्यति । भावकर्मणोः ‘यक्’ प्रत्ययविवक्षायामाकारलोपं कृत्वा ‘दरिद्र् + यक् + ते → दरिद्र्यते’ इति सिद्ध्यति । भाष्ये अस्मिन् विषये उक्तमस्ति - ‘न दरिद्रायके लोपो दरिद्राणे च नेष्यते’ । इत्युक्ते, ‘ण्वुल्’ प्रत्ययस्य विषये, तथा च ‘ल्युट्’ प्रत्ययस्य विषये च अयं लोपः न भवति । यथा - अ) दरिद्रा + ण्वुल् → दरिद्रायक । अत्र आतो युक् चिण्कृतोः (7.3.33) इत्यनेन युक्-आगमः भवति । आ) दरिद्रा + ल्युट् → दरिद्राण । 2. <!अद्यतन्यां वेति वक्तव्यम्!> । ‘अद्यतनी’ इति प्राचीन-वैयाकरणैः लुङ्लकारस्य दत्तम् एकमभिधानम् । अतः अनेन वार्तिकेन एतत् उच्यते यत् लुङ्लकारस्य विषये पूर्ववार्तिकेन दत्तः आकारलोपः विकल्पेन भवति । लोपाभावे अभावे ई हल्यघोः (6.4.113) इत्यनेन ईकारादेशः अपि विधीयते । यथा, दरिद्रा-धातोः लुङ्-लकारस्य रूपद्वयं सिद्ध्यति - (लोपपक्षे) अदरिद्रासीत्, तथा (ईकारादेशस्य पक्षे) अदरिद्रीत् । ज्ञातव्यम् - अस्मिन् सूत्रे ‘दरिद्रा’ शब्दस्य षष्ठी-एकवचनम् ‘दरिद्रस्य’ इति कृतमस्ति । अत्र ‘दरिद्र’ इति ह्रस्वकरणम् कृत्वा ततः षष्ठी-एकवचनस्य प्रत्ययः युज्यते । अस्य ह्रस्वकरणस्य किमपि सूत्रम् नास्ति, अतः अयं छान्दसः (आर्षः) प्रयोगः मन्तव्यः ।
Sutrartha (English)¶
The आकार of the verb root ‘दरिद्रा’ is converted to ह्रस्व-इकार when followed by हलादि-सार्वधातुक कित्/ङित्-प्रत्यय.
Vasu English Summary¶
इ is substituted for the आ of दरिद्रा before a सार्वधातुक कित् or ङित् affix beginning with a consonant.
Vasu English Translation¶
इ is substituted for the आ of दरिद्रा before a सार्वधातुक कित् or ङित् affix beginning with a consonant. Karika
न दरिद्रायके लोपो दरिद्राणे च नेष्यते । दिदरिद्रासतीत्येके दिदरिद्रिषतीति वा ॥
Thus दरिद्रितः, दरिद्रिथः, दरिद्रिवः, दरिद्रिमः ॥ But दरिद्रति before a vowel affix (6.4.112) and दरिद्राति before a non-ङित् affix.
Vart:- The final of दरिद्रा is elided before an Ardhadhatuka affix.
Vart:- And this elision should be considered as siddha, in applying rules relating to affixes. Thus दरिद्रा by loosing आ becomes दरिद्र, and we should apply those affixes which would come after a form like ‘daridr’, and not what would have come after a form like ‘daridra’. Thus ण comes after roots ending in long आ (3.1.141): but this affix would not be applied here, but the general affix अच् (3.1.134). Thus दरिद्राति = दरिद्रः ॥
Karika:- The elision does not take place in the forms दरिद्रायक and दरिद्राण, and the Desiderative may be either दिदरिद्रासति or दिदरिद्विषति ॥ Siddhanta Kaumudi gives the following rule: “आ of दरिद्रा should be considered as elided when applying an ardhadhatuka affix, but optionally so before लुङ् (Aorist), and not at all before सम् (Desiderative), ण्वुल् and ल्युट्” ॥
Vart:- Optionally so in the Aorist (adyatana-past) as, अदरिद्रीत् or अदरिद्रासीत् ॥ The latter form is evolved by (7.2.73) and elision of सिच् ॥ The form दरिद्रस्य in the sutra is Vedic, the root being shortened from दरिद्रा to दरिद्र ॥
Bhashya¶
इद्दरिद्रस्य (3111) (6585 उपसंख्यानवार्तिकम् ॥ 1 ॥) - दरिद्रातेरार्धधातुके लोपः - दरिद्रातेरार्धधातुके लोपो वक्तव्यः ॥ (6586 सिद्धत्वोपसंख्यानवार्तिकम् ॥ 2 ॥) - सिद्धश्च प्रत्ययविधौ - स च सिद्धः प्रत्ययविधौ । किं प्रयोजनम् ? दरिद्राति - इति दरिद्रः आकारान्तलक्षणः प्रत्ययविधिर्मा भूदिति ॥ न दरिद्रायके लोपो दरिद्राणे च नेष्यते । दिदरिद्रासतीत्येके दिदरिद्रियतीति वा ॥ (6587 उपसंख्यानवार्तिकम् ॥ 3 ॥) - अद्यतन्यां वा - अद्यतन्यां वेति वक्तव्यम् । अदरिद्रीत्, अदरिद्रासीत् ॥
Kashika¶
दरिद्रातेर्हलादौ सार्वधातुके क्ङिति परत इकारादेशो भवति। दरिद्रितः। दरिद्रिथः। दरिद्रिवः। दरिद्रिमः। हलीत्येव — दरिद्रति। क्ङितीत्येव — दरिद्राति॥ दरिद्रातेरार्धधातुके लोपो वक्त व्यः॥ सिद्धश्च प्रत्ययविधौ भवतीति वक्त व्यम्॥ दरिद्रातीति दरिद्रः। आकारान्तलक्षणो णप्रत्ययः (३.१.१४१) न भवति, पचादित्वादज् (३.१.१३४) एव भवति।
न दरिद्रायके लोपो दरिद्राणे च नेष्यते।
दिदरिद्रासतीत्येके दिदरिद्रिषतीति वा॥
॥ अद्यतन्यां वेति वक्त व्यम्॥ अदरिद्रीत्, अदरिद्रासीत्। दरिद्रस्येति निर्देशे छान्दसं ह्रस्वत्वं द्रष्टव्यम्॥
Siddhanta Kaumudi¶
दरिद्रातेरिकारः स्याद्धलादौ क्ङिति सार्वधातुके । दरिद्रतः ॥
Balamanorama¶
इद्दरिद्रस्य - इद्दरिद्रस्य । सौत्रो ह्रस्वः ।गमहने॑त्यतः क्ङितीत्यनुवर्तते ।ई हल्यघो॑रित्ते हलीति,अत उदि॑त्यतः सार्वधातुके इति । तदाह — दरिद्रातेरिति ।श्नाभ्यस्तयो॑रित्याल्लोपाऽपवादः । अलोऽन्त्यस्ये॑त्यन्त्यस्य इकारः । दरिद्रित इति ।सार्वधातकमपि॑दितितसो ङित्त्वादाकारस्य इकारः ।
Tattvabodhini¶
इद्दरिद्रस्य - इद्दरिद्रस्य ।इद्दरिद्र॑ इतिवक्तुमुचितम् ।
Padamanjari¶
इदमपि सार्वधातुक एव अन्यत्र लोपविधानात् । सिद्धस्चति । यथा प्रत्ययविधौ प्रत्ययविधानकाल थएव सिद्धो भवति, तथा लोपः कर्तव्यः, आर्धधातुके तैति वष्यसप्तम्याश्रयणीयेति भावः । आकारान्तलक्षण इति । आर्धधातुके इति परसप्तम्यां तस्योत्पर्ति प्रतौक्ष्य लोपः कर्तव्यः, ततश्च स्याव्द्यय त्याकारान्तिलक्षणो णप्रत्ययः स्यात्, तत्र कृतेऽनेन लोपश्च प्राप्नोति युक्च, तत्र लोपस्य शब्दान्तरप्राप्त्याऽनित्यत्वम् , युकस्तु लोपे कृतेऽप्राप्तिः, ततश्च उभयोरप्यनित्ययोः परत्वाद्यौक् स्यात् । अथापि एलोपः स्यात्, एवमपि अदरिद्र तैत्यत्र अच्कावशक्तौ इत्येव स्वरो न स्यात् । ईषद्दरिद्रमित्यत्र च आचो युच् इति युच् स्यात् । दरिद्रायक् इति । ण्वुलि, युक् । दरिद्राण इति । ल्युट् । दिदरिद्रासतीति । तनिपतिदरिद्राणामुपसंख्यानम् इति व्यवस्थितविभाषा, तेन लोपपक्षे इट् । अन्यत्रेडभावः । अद्यतन्यामिति । लुङ् एषा पूर्वाचार्यसंज्ञा । अदरिद्रासीदिति । यमरमनमातां सक्चेति । एकाचः इति तत्रानुवर्तत इत्येकीयं मतम् । चिणि - अदरितिद्रि, तादरिद्रायि । णलि - ददरिद्रौ । छान्दस ह्रस्वत्वमिति । अन्यथा आतो धातोः इति लोपे दरिद्र इति निर्द्देशः स्यात ॥
Nyaas¶
दरिद्रति इति। जक्षित्यादयः षट् (6.1.6) इत्यभ्यस्तसंज्ञा, तेनाभ्यस्तलक्षण आकारलोपो भवति। वक्तव्यः इति। व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम् -श्नसोरल्लोपः (6.4.111) इत्यतो मण्डूकल्पुतिन्यायेन लोपग्रहणमनुवर्त्त्य सार्वधातुके, हलि, क्ङितत्येतान्? विशेषान्? निवर्त्त्य दरिद्रातेः सामान्येनेत्त्वलोपौ विधातव्यौ। न चैवं सति तौ सङ्करेम प्रसजतः, यस्माद्वक्ष्यमाणमन्यतरस्यांग्रहणमुभयोर्योगयोः शेषभूतम्। सा च व्यवस्थितविभाषा। तेन यत्रैवेष्यते यत्? तत्? तत्रैव भविष्यति, नान्यत्रेति। सिद्धश्च प्रत्ययविधौ इति। तथासौ कर्तव्यौ यथा प्रत्ययविधौ=प्रत्ययविधानकाले, सिद्धः=निष्पन्नो भवति। एतदुक्तं भवति -आर्धधातुके प्रत्यये विषयभूतेऽनुत्पन्ने एव लोपः कर्तव्य इति। एवं ह्रसौ प्रत्ययविधौ सिद्धो भवति, नान्यथा। सिद्धश्च प्रत्ययविधौ इत्यस्योपादाने यत्? फलं तद्? आकारान्तलक्षणः इत्यादिना दर्शयति। यद्यार्धधातुक उत्पन्ने सति लोपः क्रियते, तदा श्याद्व्यधारुआउ (3.1.141) इति सूत्रेण णप्रत्ययः स्यात्; दरिद्रातेराकारान्तत्वात्। ततश्च आतो युक्? चिम्कृतोः (7.3.33) इति युकि कृते, दरिद्राय इत्यनिष्टं रूपं स्यात्। सिद्धश्च प्रत्ययविधौ इत्युच्यमाने तु प्रागेव प्रत्ययोत्पत्तेर्लोपः, तस्मिन्? स्यनाकारान्तत्वात्? पचाद्यजेव भवति। तेन दरिद्रः इतीष्टं सिद्धं भवति। न दरिद्रायके लोपः इत्यादिना श्लोकेन यत्रार्धधातुके लोपो नेष्यते यत्र विकल्पेन चेष्यते कैश्चित्, तद्दर्शयति। दरिद्रायके इत्यत्र ण्वुलन्ते शब्दे सिसाधयिषिते लोपो नेष्यते। दरिद्रातीति दरिद्रायाक इति। पूर्ववद्युक्। दरिद्राणे इति। अत्रापि ल्युङते लोपो नेष्यते। दिदरिद्रासतीत्येके इति। सनि कृते द्विर्वचनम्, अभ्यासकार्यम्। दिदरिद्रिषतीति वा इति। सनीवन्तर्ध (7.2.49) इत्यत्र तनिपतिदरिद्राणाम् इत्युपसंख्यानाद्विकल्पेनेट्। अद्यतन्याम् इति। लुङीत्यर्थः लुङोऽद्यतनि इति पूर्वाचार्यसंज्ञा। अदरिद्रासौत् इति। यमरमनमातां सक्? च (7.2.73) इति सगिटौ, अस्ति सिचोऽपृक्ते (7.3.96) इतीट्, इट ईटि (8.2.28) इति सिचो लोपः। ननु च आतो धातोः (6.4.140) इत्याकारालोपे कृते दरिद्र इति निर्देशेन भवितव्यम्, तत्? कथं दरिद्रस्येति निर्देश इत्याह -दरिद्रस्येति निर्देशः इत्यादि। छन्दोवत्सूत्राणि भवन्ति इत्यतः ङ्यापोः संज्ञाछन्दसोर्बहुलम् (6.3.63) इति बहुलवचनाच्छान्दसमिह ह्रस्वत्वम्। तपकरणं विस्पष्टार्थम्। भाव्यमानतया सवर्णाग्रहणादेव दीर्घो न भविष्यति॥
Prakriyasarvasvam¶
हलादौ क्ङिति सार्वधातुके परे दरिद्रातेरात इत् स्यात् । दरिद्रितः । अजादौ ‘श्नाभ्यस्तयोरातः’ इत्याल्लोपः । ‘जक्षित्यादयः षट्’ इत्यभ्यस्तत्वम् ।
Vartika¶
दरिद्रातेरार्धधातुके विवक्षिते आलोपो वाच्यः । लुङि वा सनि ण्वुलि ल्युटि च न ।
Sutra Prayogas¶
दरिद्रितः (भट्टिकाव्यम्): इद्दरिद्रस्य इति हलादौ क्ङिति सार्वधातुके इत्।