64105: अतो हेः

Padacheda: अतः | S | 5 | 1 |

हेः | S | 6 | 1 |

Sutrartha

अदन्तात् अङ्गात् परस्य ‘हि’ प्रत्ययस्य लुक् भवति ।

लोट्लकारस्य परस्मैपदस्य मध्यमपुरुषैकवचनस्य ‘सि’ प्रत्ययस्य सेह्यर्पिच्च (3.4.87) इत्यनेन ‘हि’ आदेशः भवति । अयमादेशः यदि अदन्तात् अङ्गात् परः आगच्छति, तर्हि अस्य आदेशस्य लोपः भवति । यथा, पठ्-धातोः लोट्-लकारस्य मध्यमपुरुषैकवचनस्य प्रक्रिया इयम् - पठ् + लोट् [लोट् च (3.3.162) इति लोट्] → पठ् + सिप् [तिप्तस्.. (3.4.78) इति सिप्] → पठ् + शप् + सि [कर्तरि शप् (3.1.68) इति शप्] → पठ् + अ + हि [सेर्ह्यपिच्च (3.4.87) इत्यनेन सि-इत्यस्य हि-आदेशः] → पठ् + अ [अतो हेः (6.4.105) इति अदन्तात् अङ्गात् परस्य हि-इत्यस्य लुक्] → पठ ज्ञातव्यम् - 1. अस्मिन् सूत्रे ‘अतः’ इति तपरकरणम् कृतमस्ति, अतः केवलं ह्रस्व-अकारान्त-अङ्गात् एव अस्य सूत्रस्य प्रसक्तिः अस्ति । अतः अदादिगणस्य ‘या’, ‘स्ना’, ‘दा’ आदीनाम् विषये अनेन सू्त्रेण ‘हि’ इत्यस्य लुक् न भवति । यथा - याहि, स्नाहि, दाहि । 2. तुह्योस्तातङाशिष्यन्यतरस्याम् (7.1.35) अनेन सूत्रेण आशीषि विषये लोट्-लकारस्य हि प्रत्ययस्य विकल्पेन तातङ्-आदेशः भवति । अयमादेशः परत्वात् वर्तमानसूत्रम् बाध्यते, अतः हि-इत्यस्य तातङ्-आदेशः करणीयः अस्ति चेत् वर्तमानसूत्रस्य प्रसक्तिः नास्ति । यथा - भवतात् । 3. अस्मिन् सूत्रे ‘हि’ इत्यस्य ‘लुक्’ उच्यते, लोपः न । अस्य कारणमेतत् - प्रत्ययस्य लुक्श्लुलुपः (1.1.61) इत्यनेन ‘लुक्’ सर्वदा सम्पूर्ण-प्रत्ययस्यैव भवति, प्रत्ययस्य अवयवस्य न । अत्र ‘हि’ इत्यस्य सम्पूर्ण-प्रत्ययस्य लोपः इष्यते, अतः अत्र ‘लुक्’ कार्यमेव करणीयम् । यदि अत्र ‘लोपः’ इति अभविष्यत्, तर्हि आदेः परस्य (1.1.54) इत्यनेन ‘हि’ इत्यस्य केवलं हकारस्यैव लोपः अभविष्यत् ।

Sutrartha (English)

The ‘हि’ प्रत्यय that follows an अदन्त अङ्ग is removed.

Vasu English Summary

The Imperative affix हि is elided after a अङ्ग (stem) ending in short अ।

Vasu English Translation

The Imperative affix हि is elided after a अङ्ग (stem) ending in short अ। Thus पच, पठ, गच्छ, धाव ॥ But युहि, रुहि after stems ending in उ. Why do we say “short अ”? Observe लुनीहि, पुनीहि (लुना + हि, the ई substitution by (6.4.113), should be considered asiddha), here हि is not elided after the long आ ॥

Kashika

अकारान्तादङ्गादुत्तरस्य हेर्लुग् भवति। पच। पठ। गच्छ। धाव। अत इति किम्? युहि। रुहि। तपरकरणं किम् ? लुनीहि। पुनीहि। ईत्वस्यासिद्धत्वादाकार एव भवति॥

Siddhanta Kaumudi

अतः परस्य हेर्लुक्स्यात् । भव । भवतात् । भवतम् । भवत ॥

Laghu Siddhanta Kaumudi

अतः परस्य हेर्लुक्। भव। भवतात्। भवतम्। भवत॥

Balamanorama

अतो हेः - अतो हेः । ‘अत’ इति पञ्चमी । हेरिति षष्ठी ।चिणो लु॑गित्यतो लुगित्यनुवर्तते । तदाह — अतः परस्येति । भवेति । हिविधानं तु स्तुहीत्याद्यर्थमिति भावः । भवतादिति । आशिषि लोटः सिपि तस्यसेह्र्रपिच्चे॑ति हिभावे शपि गुणावादेशयोः ‘अतो हे’ रिति लुकं परत्वाद्बाधित्वातुह्रो॑रिति पक्षे तातङिति भावः । भवतमिति । थसि शपि गुणेऽवादेशे चभव थस् इति स्थिते॒लोटो लङ्व॑दिति लङ्वत्त्वात्तस्थस्थमिपामितिथसस्तमादेशे रूपम् । एवं भवतेति । थस्य तादेश इति विशेषः ।

Tattvabodhini

अतो हेः - भवतादिति । लुगपेक्षया परत्वाद्धेस्तातङ्, अन्तरङ्गमेव लुग्बाधते न तु परमिति भावः॥

Padamanjari

गच्छेति । इषुगमियमां च्छः । घावेति । घावु गातिशुध्योः, पाध्नादिसूत्रेण सर्तेर्धावादेशः । लुनीहीति । प्वादीनां ह्रस्वः ई हल्यघोः । ननु चात्रानवर्णान्तत्वादेष न भविष्यति, ईत्वमेव हि परत्वाद्भवति तत्राह - इत्वस्येति । नन्वेवमप्युतरसूत्रे उतः, प्रत्ययात् इति यदुपातमुपाधिद्वयं तस्मादेवात्र प्रत्युदाहरणद्वयेऽपि न भविष्यति । यदि च लुनीहीत्यत्र परत्वादीत्वं भवति, ततोऽसिद्धत्वं नास्ति, विप्रतिषेधविषये तदभावस्योक्तत्वात् । तस्मादत इत्यस्य इहि, अधीहीति प्रत्युदाहरणम्, तपरकरणस्य - याहि, वाहिति ॥

Nyaas

गच्छ इति। गमेर्लोट्, इषुगमियमां छः (7.3.77) इति छत्वम्। धाव इति। धावु गतिशुद्ध्योः (धातुपाठः-601) अथ वा सर्त्तेः पाघ्रा (7.3.78) इत्यादिना धावादेशः। युहि, रुहि इति। अदावित्वाच्छपो लुक्। लुनोहि, पुनीह इति। प्वादीनां ह्रस्वः (7.3.80) इति ह्रस्वत्वम्, ई हल्यधोः (6.4.113) इतीत्त्वम्। ननु चेत्त्वे कृते सत्यनकारान्तत्वान्न भविष्यति, ततः किमेतन्निवृत्त्यर्थेन तपरकरणेन? इत्यत आह - ईत्वसय इत्यादि। असिद्धत्वान्तु पूर्ववत्॥

Prakriyasarvasvam

अतः परस्य हेरेव हेर्लुक् स्यात् । हेरेव हेरित्युक्तेः स्थानिवत्त्वात् तातङो लुङ् न । भव, भवतात् । भवतम्, भवत ।