64100: घसिभसोर्हलि च¶
Padacheda: घसि-भसोः | S | 6 | 2 |
हलि | S | 7 | 1 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
The root-vowel of घस् and भस् is elided in the छन्दस् (Vedas) before any affix whether beginning with a vowel or a consonant which has an indicatory क् or ङ् ।
Vasu English Translation¶
The root-vowel of घस् and भस् is elided in the छन्दस् (Vedas) before any affix whether beginning with a vowel or a consonant which has an indicatory क् or ङ् । Thus सग्धिश्चमे सपीतिश्च मे, बब्धांते हरी धानाः ॥ सग्धिः is thus derived : क्तिन् is added to the root अद्; then by (2.4.39), घस् is substituted for अद्; thus घस् + ति = घस + ति (अ being elided by the present sutra) = घ् + ति (स् being elided by (8.2.26)), then त is changed to ध, and घ to ग and we have ग्धिः ॥ Then समाना ग्धिः = सग्धिः (समान changed to स (6.3.84)). The word बब्धाम् is the Imperative of भस्, thus भस् + श्लु + ताम् = भ भस् + ताम् स् = ब भ्स् + ताम् (6.4.100) = बभ् + ताम् (8.2.26) = ब ब् + धाम् बब्धाम् ॥ This rule of elision being a nitya and a subsequent rule ought to have operated first, but, as a Vedic anomaly, the reduplication takes place first. See (7.2.67)
Why do we read “before an affix beginning also with a consonant”? Because the elision takes place before a vowel affix also, as बप्सति = भस् + श्लु + झि = ब भस् + अति (7.1.4) बप्सति (8.4.55).
Why having an indicatory क् or ङ्? Observe अंशून् बभस्ति ॥ The च has been added into the aphorism by the Vartikakara.
Bhashya¶
घसिभसोर्हलि (3098) (6576 हलिग्रहणप्रत्याख्यानवार्तिकम् ॥ 1 ॥) - हल्ग्रहणानर्थक्यमन्यत्रापि दर्शनात् - हल्ग्रहणमनर्थकम् । किं कारणम् ? अन्यत्रापि दर्शनात् । अन्यत्रापि हि लोपो दृश्यते - अग्निर्वनानि वप्सति, शरावे वप्सति - इति ॥
Kashika¶
घसि भस इत्येतयोश्छन्दसि उपधाया लोपो भवति हलादावजादौ च क्ङिति प्रत्यये परतः। सग्धि॑श्च मे॒ सपी॑तिश्च मे (मा०सं० १८.९)। ब॒ब्धां ते॒ हरी॑ धा॒नाः (निरु० ५.१२)। सग्धिरित्यदेः क्ति नि बहुलं छन्दसि (२.४.३९) इति घस्लादेश उपधाया लोपे च कृते झलो झलि (८.२.२६) इति सकारलोपः। धत्वं तकारस्य, जश्त्वं घकारस्य। ततः समाना ग्धिः सग्धिरिति समासे कृते समानस्य सभावः (६.३.८४)। बब्धामिति भसेर्लोटि तामि श्लौ द्विर्वचने कृत उपधालोपसलोपधत्वजश्त्वानि कर्तव्यानि। द्विर्वचनात् परत्वाद् नित्यत्वात् चोपधालोपः प्राप्नोति, छान्दसत्वात् स तथा न क्रियते। अजादौ — बप्सति। क्ङितीत्येव — अं॒शून् ब॑भस्ति (शौ० सं० ६.४९.२)॥
Siddhanta Kaumudi¶
सग्धिश्च मे (सग्धि॑श्च मे) । बब्धां ते हरी धानाः (ब॒ब्धां ते॒ हरी॑ धा॒नाः) । हुझलूभ्यो हेर्धिः (SK2425) ॥
Padamanjari¶
सूत्रे चकारस्य पाठोऽनार्षः । तथा च वार्तिकम् - हल्ग्रहणमपरिभाष्यम्, अन्यत्रापि दर्शनात् इति । तथा न क्रियत इति । यदि क्रियेत, अनच्कत्वाद् द्विर्वचनं न स्यादिति भावः । पूर्वत्र अचीत्यधिकारादिह हलीत्युक्तम्, तदुपादानाद् - अचि न स्यादिति चकारेण समुच्चयः । यदि पूर्ववैवाचीत्यनुवर्तते, नैह इत्युच्येत, ततः हलि चेति शक्यमकर्तुम्, उतरार्थ तु तत्क्रतम् ॥
Nyaas¶
धत्वं तकारस्य इति। झषस्तथोर्धोऽधः (8.2.40) इति। जश्त्वं धकारस्य इति। झलां जश् झशि (8.4.53) इति। समासे कृते इति। पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्च (2.1.58) इत्यादिना। समानस्य सभावः इति। समानस्य च्छन्दसि (6.3.83) इत्यादिना। यदि द्विर्वचनात्पूर्वमुपधालोपः क्रियते, तदैकाच्त्वाभावाद्द्विर्वचनं न प्राप्नोति? इत्यत् आह -छान्दसत्वात् इत्यादि। बन्धाम् इति। छान्दसमेतत्। तत्र बहुलं छन्दसि (7.4.78) इति वचनाद्बहुलं विषयो भवन्ति। तेन यद्यपि परत्वान्नित्यन्तावच्च द्विर्वचनात्? पूर्वमुपधालोपः प्रप्नोति, तथापि स तथा न क्रियते। द्विर्वचनात्? पूर्वं न क्रियत इति भावः। बप्सति इति। भसेः परस्य झेरदादेशः, शपः श्लुः, श्लौ (6.1.10) इति द्विर्वचनम्, अभ्यासकार्यम्, उपधालोपे कृते भकारस्य चर्त्वम् -पकारः। बस्ति इति। तिपि रूपम्॥
Prakriyasarvasvam¶
अनयोर्हलादावजादौ च क्ङित्युपधालोपः स्यात् । सग्धिञ्च मे सपीतिञ्च मे अदेः क्तिनि ‘बहुलं छन्दसि’ (२-४-३९) इति घस्लादेशे उपधालोपे च कृते ‘झलो झलि’ (८-२-२६) इति सलोपः । तस्य धत्वं घस्य जश्त्वं च । ग्धिः भुक्तिः । ‘समानस्य छन्दसि’ - (६-३-८४) इति सभावे समाना ग्धिः सग्धिः । भसेर्लोटि तसः ताम् । श्लौ द्वित्वम् । बभस् ताम् । उपधालोपसलोपजश्त्वानि । बब्धां ते हरीधानाः । अजादौ - घस् अ¹न् । उपधालोपे षत्वचत्वे अट् । अक्षन्नमीमदन्त । अदभ्यस्तात् (७-१-४) बभस् अति । उपधालोपे चत्वम् । बप्सति ।