64108: नित्यं करोतेः

Padacheda: नित्यम् | S | 1 | 1 |

करोतेः | S | 5 | 1 |

Sutrartha

कृ-धातोः विहितः यः प्रत्ययान्तः उकारः तस्य मकारे वकारे च परे नित्यम् लोपः भवति ।

डुकृञ् (करणे) इति तनादिगणस्य धातुः । अस्मात् परस्य ‘उ’ इति विकरणप्रत्ययस्य मकारे वकारे च परे लोपश्चास्यान्यतरस्यां म्वोः (6.4.107) इत्यनेन विकल्पेन लोपे प्राप्ते वर्तमानसूत्रेण सः लोपः नित्यं भवति, विकल्पेन न । यथा, कृ-धातोः लट्-लकारस्य उत्तमपुरुषबहुवचनस्य प्रक्रिया इयम् - कृ + लट् [वर्तमाने लट् (3.2.123) इति लट्] → कृ + मस् [तिप्तस्.. (3.4.78) इति उत्तमपुरुषबहुवचनस्य मस्-प्रत्ययः] → कृ + उ + मस् [तनादिकृञ्भ्यः उः (3.1.73) इति उ-प्रत्ययः] → कर् + उ + मस् [सार्वधातुकार्धधातुकयोः (7.3.84) इति गुणः] → कुर् + उ + मस् [अत उत् सार्वधातुके (6.4.110) इत्यनेन अकारस्य उकारादेशः] → कुर् + मस् [लोपश्चास्यान्यतरस्यां म्वोः (6.4.107) इति उकारस्य वैकल्पिके लोपे प्राप्ते नित्यं करोतेः (6.4.108) इति नित्यं लोपः] → कुर् + मस् [लुप्त-उकारस्य अचः परस्मिन् पूर्वविधौ (1.1.57) इत्यनेन स्थानिवद्भावात् हलि च (8.2.77) इति उकारस्य दीर्घे प्राप्ते न भर्कुछुराम् (8.2.79) इति निषेधः । अतः उकारस्य दीर्घः न भवति] → कुर्मः [विसर्गनिर्माणम्] कृ-धातोः लट्-लकारस्य उत्तमपुरुषद्विवचनस्य प्रक्रिया अपि समाना एव वर्तते, येन ‘कुर्वः’ इति रूपं सिद्ध्यति ।

Sutrartha (English)

The उकार occurring at end of a प्रत्यय that is attached to the verb root कृ is removed when followed by a मकार or a वकार.

Vasu English Summary

The elision of उ is invariable before व् and म् in the case of कृ ‘to make’ (करोति).

Vasu English Translation

The elision of उ is invariable before व् and म् in the case of कृ ‘to make’ (करोति). Thus कुर्वः and कुर्मः ॥ Thus कृ + उ + व = कुर् + उ + वः (6.4.110) = कुर् + ० + वः (6.4.108). Now the lopa being not sthanivat, when a vowel is to be lengthened (1.1.58), उ of कु should be lengthened by (8.2.77). This contingency is prevented by (8.2.79).

Kashika

करोतेरुत्तरस्योकारप्रत्ययस्य वकारमकारादौ प्रत्यये परतो नित्यं लोपो भवति। कुर्वः, कुर्मः। उकारलोपस्य दीर्घविधावस्थानिवद्भावाद् (१.१.५८) हलि च (८.२.७७) इति दीर्घत्वं प्राप्तं न भकुर्छुराम् (८.२.७९) इति प्रतिषिध्यते॥

Siddhanta Kaumudi

करोतेः प्रत्ययोकारस्य नित्यं लोपः स्यान्म्वोः परयोः । कुर्वः । कुर्मः । चकर्थ । चकृव । चकृषे । कर्ता । करिष्यति ॥

Laghu Siddhanta Kaumudi

करोतेः प्रत्ययोकारस्य नित्यं लोपो म्वोः परयोः। कुर्वः। कुर्मः। कुरुते। चकार, चक्रे। कर्तासि, कर्तासे। करिष्यति, करिष्यते। करोतु। कुरुताम्। अकरोत्। अकुरुत॥

Padamanjari

करोतेरुप्रत्ययान्तस्येति । उतश्च प्रत्ययाद् इत्यनुवृतेर्लभ्यते । उकारलोपस्येत्यादिना सोपपतिकां दीर्घप्रप्तिमनूद्य प्रतिषेधं दर्शयति । आरम्भसामर्थ्यादेव सिद्धे नित्यग्रहणं विस्पष्टार्थम् ॥

Nyaas

करोतेरुकारप्रत्ययस्य इति। ननु चकारेण पूर्वसूत्र उकारोऽनुकृष्टः, चानुकृष्टञ्चोत्तरत्र नानुवर्तते (व्या।प।76) तत्? कथमुकारस्य लोपो लभ्यते? नैवम्; पूर्वसूत्रे ह्रुकारस्य सन्निधानमस्येत्यनेनैव लभ्यत इति तत्र तस्य चकारेण याऽनुकृष्टिः सैतदर्थैव वेदितव्या। उकारलोपस्य इत्यादिना कुर्वः कुमं इत्यत्र सोपपत्तिकां दीर्घप्राप्त दर्शयति, न भकुर्छुराम् (8.2.79) इत्यनेन च तत्प्रतिषेधम्। नित्यग्रहणं विस्पष्टार्थम्। आरम्भसामर्थ्यादेव हि नित्यो विधिर्भविष्यति॥

Prakriyasarvasvam

कृञ उप्रत्ययस्य म्वोः परयोर्नित्यं लोपः स्यात् । कुर्वः । कुर्मः१ । तङिकुरुते । कुर्वाते । कुर्वते । कुरुषे । कुरुध्वे । कुर्वे । कुर्वहे । कर्मणि यकि रिङ् । रीङि प्रकृते रिङ्विधानाद् ‘अकृत्सार्वधातुुकयोः’ (७-४-२५) इति दीर्धो न । क्रियते । कर्मणि क्रियतीति प्रयोगस्तु तिङतुल्यो निपात इति माधवः । लिङि,