64116: जहातेश्च¶
Padacheda: जहातेः | S | 6 | 1 |
च | S | 0 | 0 |
Sutrartha¶
हा-धातोः हलादि-सार्वधातुके कित्/ङित्-प्रत्यये परे विकल्पेन ह्रस्व-इकारादेशः भवति ।
ओहाक् (त्यागे) इति जुहोत्यादिगणस्य धातुः । अस्य धातोः हलादि-सार्वधातुके कित्/ङित्-प्रत्यये परे ई हल्यघोः (6.4.113) इत्यनेन ईकारादेशः विधीयते । तं विकल्पेन बाधित्वा वर्तमानसूत्रेण ह्रस्व-इकारादेशः अपि भवति । यथा, अस्य लट्-लकारस्य प्रथमपुरुषद्विवचनस्य प्रक्रिया इयम् - हा + लट् [वर्तमाने लट् (3.2.123) इति लट्] → हा + तस् [तिप्तस्.. (3.4.78) इति तस् । सार्वधातुकमपित् (1.2.4) इति ङित्-वत् भावः] → हा + शप् + तस् [कर्तरि शप् (3.1.68) इति शप्] → हा + तस् [जुहोत्यादिभ्यः श्लुः (2.4.75) इति श्लुः] → हा हअ + तस् [श्लौ (6.4.10) इति द्वित्वम्] → ह हा + तस् [ह्रस्वः (7.4.59) इति ह्रस्वः] → झ हा + तस् [कुहोश्चुः (7.4.62) इत्यनेन संवार-नाद-घोष-महाप्राण-हकारस्य तादृशः एव चवर्गीयः झकारः] → झ हि + तस् / झ ही तस् [जहातेश्च (6.4.116) इति वैकल्पिकः ह्रस्व-इकारादेशः । तदभावात् ई हल्यघोः (6.4.113) इत्यनेन ईकारादेशः] → झहितः / झहीतः [विसर्गनिर्माणम्] → जहितः / जहीतः [अभ्यासे चर्च्च (8.4.54) इति जश्त्वम्] आर्धधातुके प्रत्यये परे अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा, ‘हा’ धातोः कर्मणि लट्लकारस्य प्रथमपुरुषैकवचनम् ‘हीयते’ इति भवति । अत्र ‘यक्’ इति कित्-आर्धधातुकप्रत्ययः अस्ति, अतः अत्र ह्रस्व-इकारादेशः न भवति । केवलं घुमास्थागापाजहातिसां हलि (6.4.66) इत्यनेन दीर्घादेशे कृते रूपं सिद्ध्यति ।
Sutrartha (English)¶
The verb root ‘हा’ is converted to ह्रस्व-इकार when followed by हलादि-सार्वधातुक कित्/ङित्-प्रत्यय.
Vasu English Summary¶
इ is optionally substituted for the आ of हा (जुहोत्यादिगणः (3rd Conjugation)) before a सार्वधातुक affix कित् or ङित् beginning with a consonant.
Vasu English Translation¶
इ is optionally substituted for the आ of हा (जुहोत्यादिगणः (3rd Conjugation)) before a सार्वधातुक affix कित् or ङित् beginning with a consonant. Thus जहितः or जहीतः (6.4.113) जहिथः or जहीथः (6.4.113). But जहति before a vowel affix, and जहाति before a non-ङित् affix, an हीयते and जिहीयते before an ardhadhatuka. The separation of this sutra from the last, is for the sake of subsequent aphorisms.
Kashika¶
जहातेश्चेकारादेशो भवत्यन्यतरस्यां हलादौ क्ङिति सार्वधातुके परतः। जहितः, जहीतः। जहिथः, जहीथः। हलादावित्येव — जहति। क्ङितीत्येव — जहाति। सार्वधातुक इत्येव — हीयते। जेहीयते। पृथग्योगकरणमुत्तरार्थम्॥
Siddhanta Kaumudi¶
इत्स्याद्वा हलादौ क्ङिति सार्वधातुके । पक्षे ईत्वम् । जहितः । जहीतः । जहति । जहौ ॥
Laghu Siddhanta Kaumudi¶
इद्वा स्याद्धलादौ क्ङिति सार्वधातुके। जहितः॥
Balamanorama¶
जहातेश्च - जहातेश्च ।इद्दरिद्रस्ये॑त्यत इदिति,भियोऽन्यतरस्या॑मित्यतो हलीति चत्यभिप्रेत्य शेषं पूरयति — इत्स्याद्वेति । जहतीति । अब्यस्तत्वाददादेशेश्नाब्यस्तयो॑रित्याल्लोपः । जहाविति । जहतुः जहुः । जहिथ — जहाथ जहथुः दजह । जहौ जहिव जहिम । हाता । हास्यति । जहितादिति । जहिताम् — जहीताम् जहतु ।
Tattvabodhini¶
जहातेश्च - जहातेश्च । क्ङितीति किम् । जहाति । सार्वधातुके किम् । हीयते ।
Padamanjari¶
अत्रापि न सार्वधातुके त्यिस्योपयोगः, अत एवास्य प्रत्युदाहरणं न प्रदर्शितम् । अभ्यस्तस्य इत्यनुवृतेरार्धधातुके न भविष्यति, लिडजादिः ॥
Nyaas¶
ईत्त्वापवाद इत्त्वमारभ्यते; अन्यतरस्यांग्रहणानुवृत्तेः। पक्षे तदपि भवत्येव। सार्वधातुक इत्येव -हीनः, हीनवान्। इह केचित्? सार्वधातुके (6.4.110) इत्यस्यानुवृतिंत प्रत्याचक्षते। कथम्? हलि परत ईत्त्वेत्त्वे प्राप्नुतः, द्विर्वचनं च; तत्र यदि परत्वादीत्त्वेत्त्वे स्यातां ततश्चेवर्णन्तताभ्यासस्य स्यात्; तस्मादभ्यस्त ग्रहणमनुवर्तनीयम्, तस्मश्चानुवर्तमाने सार्वधातुकानुवृत्तिरपार्थिका इति। एतच्चायुक्तम्; अन्तरङ्गत्वात्। द्विर्वचनेनैव प्रागीत्त्वेत्त्वाभ्यां भवितव्यम्, तत्? कुतोऽभ्यासस्येवर्णान्तताप्रसङ्गः! अन्तरङ्गत्वन्तु द्विर्वचनस्याल्पापेक्षत्वात्। तद्धि श्लुमात्रमपेक्षते। इत्त्वेत्त्वयोश्च बह्वपेक्षत्वाद्बहिरङ्गता, बहवपेक्षा च; तयोः पुनरङ्गस्य हलादौ क्ङिति सार्वधातुके विधानात्। जहातेरिति निर्देशात्? जिहीत इत्यतद्र जिहातेर्न भवति। `पृथग्योगकरणमुत्तरार्थम् इति। आच हौ (6.4.117) इत्येष विधिर्जहातेरेव यता स्यात्, बिभेतेर्मा भूदिति॥
Prakriyasarvasvam¶
हलादौ क्ङिति सार्वधातुके परे जहातेरिद्वा स्यात् । जहितः ।
Sutra Prayogas¶
जहीहि (भट्टिकाव्यम्): जहातेश्च इति इत्वे विकल्पिते।
जहीहि (भट्टिकाव्यम्): ईत्वस्य जहातेश्व इति वा वचनाद्विकल्पः।
जहितो (भट्टिकाव्यम्): जहातेश्च इतीत्वम्।
जहीहि (भट्टिकाव्यम्): जहातेश्च इत्यन्यतरस्यामित्वमीत्वं च।