64112: श्नाऽभ्यस्तयोरातः

Padacheda: श्ना-अभ्यस्तयोः | S | 6 | 2 |

आतः | S | 6 | 1 |

Sutrartha

श्ना-विकरणस्य तथा अभ्यस्तस्य आकारस्य सार्वधातुके कित्-प्रत्यये ङित्-प्रत्यये च परे लोपः भवति ।

किम् नाम अभ्यस्तम् ? यदा द्वित्वं क्रियते तदा उभयोः शब्दयोः उभे अभ्यस्तम् (6.1.5) इत्यनेन अभ्यस्तसंज्ञा भवति । अस्य अभ्यस्तसंज्ञकस्य आकारस्य , तथा क्र्यादिगणस्य ‘श्ना’ विकरणप्रत्ययस्य आकारस्य सार्वधातुके कित्-प्रत्यये परे ङित्-प्रत्यये परे च लोपः भवति । यथा - 1. क्र्यादिगणस्य डुक्रीञ् (द्रव्यविनिमये) अस्य धातोः लट्लकारस्य प्रथमपुरुषबहुवचनस्य इयम् प्रक्रिया भवति - क्री + लट् [वर्तमाने लट् (3.2.123) इति लट्] → क्री + झि [तिप्तस्… (3.4.78) इति झि-प्रत्ययः । सार्वधातुकमपित् (1.2.4) इति झि-प्रत्ययस्य ङित्-भावः] → क्री + श्ना + झि [क्र्यादिभ्यः श्ना (3.1.81) इति विकरणम् श्ना] → क्री + ना + अन्ति [झोऽन्तः (7.1.3) इति अन्तादेशः] → क्री + न् + अन्ति [श्नाऽभ्यस्तयोरातः (6.4.112) इति श्ना-इत्यस्य आकारस्य लोपः] → क्रीणन्ति [अट्कुप्वाङ्नुम्व्यवायेऽपि (8.4.2) इति णत्वम्] 2. डुदाञ् (दाने) इत्यस्य लट्लकारस्य प्रथमपुरुषबहुवचनस्य इयम् प्रक्रिया भवति - दा + लट् [वर्तमाने लट् (3.2.123) इति लट्] → दा + झि [तिप्तस्… (3.4.78) इति झि-प्रत्ययः । सार्वधातुकमपित् (1.2.4) इति झि-प्रत्ययस्य ङित्-भावः] → दा + शप् + झि [कर्तरि शप् (3.1.68) इति शप्] → दा + झि [जुहित्यादिभ्यः श्लुः (2.4.75) इति विकरणस्य श्लुः (लोपः)] → दा दा + झि [श्लौ (6.1.10) इति द्वित्वम्] → द दा + झि [ह्रस्वः (7.4.59) इति अभ्यासस्य ह्रस्वः] → द दा + अति [अदभ्यस्तात् (7.1.4) इति अत्-आदेशः] → दद् + अति [श्नाऽभ्यस्तयोरातः (6.4.112) इति आकारस्य लोपः] → ददति । ज्ञातव्यम् - जक्षित्यादयः षट् (6.1.6) इत्यनेन अदादिगणस्य सप्त-धातूनामपि अभ्यस्तसंज्ञा भवति -जक्षँ, जागृ, दरिद्रा, चकासृ, शासु, दीधीङ्, वेवीङ् । अतः एतेषां विषये अपि अस्य सूत्रस्य प्रसक्तिः अस्ति । यथा, ‘दरिद्रा’ शब्दस्य लोट्-लकारस्य प्रथमपुरुषबहुवचनस्य प्रक्रिया इयम् - दरिद्रा + लोट् [लोट् च (3.3.162) इति लोट्] → दरिद्रा + झि [तिप्तस्झि.. (3.4.78) इति परस्मैपदस्य प्रथमपुरुषबहुवचनस्य विवक्षायाम् ‘झि’ प्रत्यय’] → दरिद्रा + शप् +झि [कर्तरि शप् (3.1.68) इति औत्सर्गिकं विकरणम् शप्] → दरिद्रा + झि [अदिप्रभृतिभ्यः शपः (2.4.72) इति शपः लुक्] → दरिद्रा + अति [जक्षित्यादयः षट् (6.1.6) इत्यनेन दरिद्रा-धातोः अभ्यस्तसंज्ञा । अभ्यस्तात् परस्य झ्-प्रत्ययस्य अदभ्यस्तात् (7.1.4) इति ‘अत्’ आदेशः] → दरिद्रा + अतु [एरुः (3.4.86) इति इकारस्य उकारः] → दरिद्र् + अतु [श्नाऽभ्यस्तयोरातः (6.4.112) इति सार्वधातुके ङित्-प्रत्यये परे अभ्यस्तस्य आकारस्य लोपः] → दरिद्रतु

Sutrartha (English)

The आकार of the विकरण श्ना and also of an अभ्यस्त is removed when followed by a सार्वधातुक कित् and ङित् प्रत्यय.

Vasu English Summary

Before a सार्वधातुक कित् or ङित् affix beginning with a vowel, the long आ of श्ना (the विकरण of the क्र्यादिगणः (9th Conjugation)) and of the reduplicate अङ्ग (stems) is elided.

Vasu English Translation

Before a सार्वधातुक कित् or ङित् affix beginning with a vowel, the long आ of श्ना (the विकरण of the क्र्यादिगणः (9th Conjugation)) and of the reduplicate अङ्ग (stems) is elided. Thus लुनते, लुनताम्, अलुनत; मिमते, मिमताम्, अमिमत, संजिहते, संजिहताम् and समजिहत ॥ Why do we say ‘of श्ना and the reduplicates’? Observe यान्ति, वान्ति ॥ Why ‘of long आ’? Observe बिभ्रति ॥ Why ‘before कित् and ङित्’? Observe अलुनात्, अजहात् ॥

Kashika

श्ना इत्येतस्याभ्यस्तानां चाङ्गानामाकारस्य लोपो भवति सार्वधातुके क्ङिति परतः। लुनते । लुनताम् ।अलुनत। अभ्यस्तानाम् — मिमते। मिमताम्। अमिमत। संजिहते। संजिहताम्। समजिहत। श्नाभ्यस्तयोरिति किम्? यान्ति। वान्ति। आत इति किम् ? बिभ्रति। क्ङितीत्येव — अलुनात्। अजहात्। आद्ग्रहणं स्पष्टार्थम्॥

Siddhanta Kaumudi

अनयोरातो लोपः स्यात् क्ङिति सार्वधातुके । दरिद्रति । अनेकाच्त्वादाम् । दरिद्रांचकार । आत औ णलः (SK2371) इत्यत्र ओ इत्येव सिद्ध औकारविधानं दरिद्रातेरालोपे कृते श्रवाणार्थम् । अत एव ज्ञापकादाम्नेत्येके । ददरिद्रौ । ददरिद्रतुरित्यादि । यत्तु णलि ददरिद्रेति तन्निर्मूलमेव ॥<!दरिद्रातेरार्धधातुके विवक्षित आलोपो वाच्यः !> (वार्तिकम्) ।<!लुङि वा !> (वार्तिकम्) ।<!सनि ण्वलि ल्युटि च न !> (वार्तिकम्) ॥ दरिद्रिता । अदरिद्रात् । अदरिद्रिताम् । अदरिद्रुः । दरिद्रियात् । दरिद्र्यात् । अदिरिद्रीत् । इट्सकौ । अदरिद्रासीत् ।{$ {!1074 चकासृ!} दीप्तौ$} । चकास्ति । झस्य अत् । चकासति । चकासांचकार । धिच (SK2249) इति सलोपः सिच एवेत्येके । चकाद्धि । चकाधीत्येव भाष्यम् ॥

Laghu Siddhanta Kaumudi

अनयोरातो लोपः क्ङिति सार्वधातुके। जहति। जहौ। हाता। हास्यति। जहातु, जहितात्, जहीतात्॥

Balamanorama

श्नाऽभ्यस्तयोरातः - श्नभ्यस्तयोरातः ।गमहने॑त्यतो लोपः क्ङितीत्यनुवर्तते ।अत उ॑दित्यतः सार्वधातुके इति । तदाह — अनयोरिति । स्नाप्रत्ययस्य, अभ्यस्तस्य चेत्यर्थः । दरिद्रतीति । जक्षित्यादित्वादभ्यस्तत्वात्अदभ्यास्ता॑दिति झस्य अदादेशे आकारलोपः । दरिद्रासि दरिद्रिथः । दरिद्रिथ । दरिद्रामि दरिद्रिवः दरिद्रिमः । लिटआह — अनेकाच्त्वादामिति । इदं चकास्प्रत्यया॑दिति सूत्रभाष्ये स्पष्टम् । दरिद्रांचकारेति । आमि सवर्णदीर्घः । कैयटमतमाह — आत इति । ‘आत औ णलःर’ इत्त्र प्रथमातिक्रमे कारणाऽभावादोकार एव विधातुमुचितः । वृद्धौ स्तयां तावतैव ययौ इत्यादिसिद्धेः । तस्मादौकराविधानं दरिद्राधातोर्णलिदरिद्रातेरार्धधातुके लोपो वक्तव्यः॑ इत्याल्लोपे ‘ददरिद्रौ’ इत्यौकारश्रवणार्थं संपद्यते । ओकारविधाने तु आल्लोपे सति वृद्धेसंभवाद्दरिद्रातेर्लिटि आम्नेति विज्ञायते । आमि सति णल एवाऽप्रसक्तेरित्यर्थः । इदं चवस्वेकाजाद्धसा॑मिति सूत्रभाष्ये द्वनितं, कैयटेन स्पष्टीकृतम् । तन्निर्मूलमेवेति । ददरिद्र । ददरिद्रौ ददरिद्रिव ददरिद्रिम । आर्धधातुके विवक्षिते इति ।आतो लोप इटि॑चे त्याल्लोपो दरिद्रातेर्भवन् क्ङिति अक्ङिति च अजादावाद्र्धातुके भवति । स च आर्धधातुके विवक्षिते ततः प्रागेव भवतीति वक्तव्यमित्यर्थः । तेन दरिद्रातीति दरिद्रः । आल्लोपे कृते पचाद्यच् सिध्यति । आर्धधातुके परे आल्लोपप्रवृत्तौ तुश्याद्वद्यधे॑त्यादन्तलक्षमो णप्रत्ययः स्यात् । ततश्च कृते णप्रत्यये आल्लोपं बाधित्वाआतो युक् चिण्कृतोरिति युकि ‘दरिद्राय’ इति स्यात् । आर्धधातुके विवक्षिते ततः प्रागेव आल्लोपे तु कृते आदन्तत्वाऽभावाण्णप्रत्ययाऽभावे पचाद्यच्प्रत्ययो निर्बाधः । तदिदं भाष्ये स्पष्टम् । लुङि वेति । लुङि आल्लोपो वा वक्तव्य इत्यर्थः ।अद्यतन्यां वेति वक्तव्य॑मिति वार्तिकार्थसङ्ग्रहोऽयम् । अद्यतन्यामित्यनेन अद्यतनभूतार्थकविहितलुङ्विभक्तिर्विवक्षिता, भाष्ये तस्या एवोदाहरमात् । सनि ण्वुलि ल्युटि च नेति । एतेषु दरिद्रातेराल्लोपो नेति वक्तव्यमित्यर्थः । ण्वुलि यथा — दरिद्रायकः । आतो युक् । ल्युटि यथा — दरिद्राणः । अनादेशे कृते आल्लोपाऽभावात्सवर्णदीर्घः । सनि यथा — दिदरिद्रासति । अनन्तरस्येति न्यायादस्य वार्तिकप्राप्तस्यैव लोपस्याऽयं निषेधः । तेनतनिपतिदरिद्राणानुपसङ्ख्यान॑मिति दरिद्रातेः सन इट्पक्षेआतो लोप इटि चे॑त्याल्लोपो भवत्येव - दिदरिद्रिषति । तासि इटि उदाहृतव#आर्तिकेन आल्लोपः । ‘आतो लोप इटिचे’ त्यस्य संभवेऽपि न्यायत्वादत्र वार्तिकोपन्यासः । दरिद्रिष्यति । दरिद्रातु — दरिद्रितात् दरिद्रिताम् दरिद्रतु । दरिद्रितम् दरिद्रित । दरिद्राणि दरिद्राव दरिद्राम । लडआह - अदरिद्रादिति । इत्त्वं मत्वा आह — अदरिद्रितामिति । अदरिद्रुरिति । जक्षित्यादित्वेन अभ्यस्तत्वाज्जुसिति भावः । अदरिद्राः अदरिद्रितमदरिद्रित ।अदरिद्रामदरिद्रव अदरिद्रिम । दरिद्रियादिति । विधिलिङि सार्वधातुकत्वादित्त्वमिति भावः । आशीर्लङ्याह — दरिद्रआदिति । आतो लोप इति भावः । लुङि आतो लोपपक्षे आह — अदरिद्रीदिति । अदरिद्रिष्टामित्यादि । आल्लोपाऽभावपक्षे त्वाह — इट्सकाविति । अदरिद्रिष्यत् । चकासृ दीप्ताविति । ऋदित् । सेट् । चकास्ति चकास्त इतिसिद्धवत्कृत्याह — झस्य अदिति । जक्षित्यादित्वेन अभ्यस्तत्वादिति भावः । चकासतीति । चकास्सि चकास्थः चकास्थ । चकास्मि चकास्वः चकास्मः । चकासांचकारेति । अनेकाच्त्वादामिति भावः । चकासिता.चकासिष्यति । चकास्तु [चकास्तात्] चिकास्ताम् चकासतु । हेर्धिभावे चकास् धि इति स्थितेधिचे॑ति सलोप इति सिद्धन्तः । तत्र मतान्तरमाह -सिच एवेत्येके इति ।धिचे॑ति लोपः सिच एवेत्येके मन्यन्ते इत्यर्थः ।धिसकारे सिचो लोपश्चकाद्धीति प्रयोजन॑मिति वार्तिकादिति तदाशयः । अस्मिन्पक्षे सकारस्य जश्त्वेन दकारः । तदाह — चकाद्धीति । ‘एके’ इत्यस्वरसोद्भावनम् ।तद्बीजं तुधिसकारे सिचो लोपः इति वार्तिकं प्रत्याख्याय सकारमात्रस्य ‘धि चे’ ति लोपस्याभ्युपगमः ।तदाह — चकाधीत्येव भाष्यमिति । चकास्तात् चटकास्तम् चकास्त । चकासानि चकासाव चकासाम । लङि अ चकास् त् इति स्थिते —

Tattvabodhini

श्नाऽभ्यस्तयोरातः - श्नभ्यस्त ।क्रीणन्ति.क्रीणते । पुनन्ति । पुनते । दधति दधते । क्ङिति किम् । क्रीणाति । पुनाति । दधाति । आतः किम् । बिभ्रति । ओ इत्येव सिद्धे इति । प्रथमत्यागे मानाऽभावादिति भावः । निर्मूलमेवेति । यत्तु व्याख्यातृभिः समथ्र्यते — आमोऽभावे आतो लोपे कृते आदन्तत्वाऽभावादौत्वं नेति । तन्न ।आत औ णलः॑ इत्यत्र प्राथम्यादोकारे कर्तव्ये औकारविधानं दरिद्रातेराल्लोपेऽपि श्रवणार्थं सदामभावे लिङ्गमिति हरदत्तमाधवादिग्रन्थैः, स्वग्रन्थेन च विरोधात् । तत्कथमौत्वस्याऽप्रवृत्तिर्भवेत्यदप्युक्तम् — ओकारौकारयोर्द्विमार्तवाऽविशएषादौकारविधानमिति तदपि स्थवीयः । तस्मिन्पक्षे आमो दुर्वारत्वप्रसङ्गात् । * दरिद्रातेराद्र्धधातुके विवक्षिते आतोलोपो वाच्यः । विवक्षित इति । तेन दरिद्रातीति दरिद्र इति पचाद्यजेव भवति । परसप्तम्यां तुश्याद्व्यधे॑त्यादन्तलक्षणो णः स्यात् । सति तु तस्मिन्आतो युक् चिण्कृतो॑रिति युकि दरिद्राय इति स्यादिति भावः । सनि ण्वुलीति । एतेष्वालोपो नेत्यर्थः । दिदरिद्रासति । दरिद्रायकः । दरिद्राणम् । अदरिद्रुरिति ।सिजभ्यस्ते॑ति झेर्जुस् ।लङः शाकटायनस्यैवे॑त्यादन्तलक्षणो विकल्पस्तु न भवति, परत्वात्स्नाभ्यस्तयो॑त्याल्लोपे आकारान्तस्यैवाऽभावात् ।ई हल्यघो॑रित्यात ईत्त्वमिह न शङ्क्यमेव । झेर्जुसि हलादिपरत्वाऽभावादिति भावः । ननु दरिद्रा झि इति स्थिते जुसः प्रागेव आल्लोपात्परत्वादपवादत्वाच्च ईत्वं स्यात् । मैवम् । अकृतव्यूहपरिभाषाया जागरूकत्वात् । ईत्त्वनिमित्तं हि हलादित्वं, तच्च विनासोन्मुखं, जुसो भावित्वात् । झस्य अदिति ।अदभ्यस्ता॑ दित्यनेन । तिप्यनस्तेः । पदान्तस्य किम् । चकास्ति । सस्येति किम् । वशेर्लङि तिपि अवट् । तिपि किम् । क्विपि चकाः । अनस्तेः किम् । सर्वम् । इदम् ।आ॑ इति लङि तिपि अस्ते रूपम् ।बहुलं छन्दसी॑ति ईट् न ।

Padamanjari

लुनत इति । लट्, आत्मनेपदेष्पनतः इति झस्यादादेशः । लुनतामिति । लोटि आमेतः । अलुनतेति । लङ् । मिमते इत्यादौ भृञामित् इतीत्वम् । यान्ति, वान्तीति । असति हि श्नाभ्यस्तग्रहणे अतो गुणे इत्यत्र तपरकरण्सय यानमित्यादावक्ङिति चारितार्थत्वादिह लोप एव स्यादिति भावः । अलुनादिति । अतरसूत्रे क्ङ्तीत्यिस्य सम्बन्धः स्थित एवेति नायमीत्वस्य विषयः । इकहाकारणाभ्यस्तविषेषणादाकारान्तस्य लोपो जाग्रतीत्यत्र न भवति । तत्र निर्द्दिश्यमानस्यादेशाः इति वा अलोऽन्त्यस्य इति वा आकारस्यैव लोप इत्यादि मत्वा व्याख्यातम् - श्न इत्येतस्याभ्यस्तानां चाकारस्यैति । आकारान्तानाम् इति तु व्याख्येयम् । अत्रापि आ सार्वधातुक एव सम्भवति । एवमभ्यस्तमप्याकारान्तम् । ववतुरित्यादौ भवत्येव लोपः ॥

Nyaas

लुनते इति। आत्मनेपदेष्वनतः (7.1.5) इत्यादेशः। लुनताम् इति। लोट्? आमेतः (3.4.90) । अलुनत इति। लङ। मिमते` इति। माङ माने (धातुपाठः-1088) [माने शेब्दे च -धातुपाठः-] अभ्यासस्य भृञामित् (7.4.76) इतीत्त्वम्। एवं सञ्जिहते इत्यत्रापि ओहाङ गतौ (धातुपाठः-1089) इत्यस्य। बिभ्रति इति। पूर्वादित्वम्। अलुनात् इति। ननु चासति क्ङितीत्यस्मिन्नीत्वेनात्र भवितव्यम्, तत्? कुतो लोपस्य प्रसङ्ग? नैतदस्ति; ईत्त्वमपि हि क्ङितीत्यनुवत्र्यम्, तत्र यदि क्ङिति इति नानुवर्तते तदा स्यादेव लोपः। नन्वाद्ग्रहणं किमर्थम्, श्नाभ्यस्तयोरतः इत्येवोच्येत, एवं ह्रेकमात्रया लघु भवति? इत्यत आह -`आद्ग्रहणं स्पष्टार्थम्। जगर्तेः जक्षित्यादयः षट् (6.1.6) इत्यभ्यस्तसंज्ञायामपि ऋकारलोपो न भवति -जाग्रतीति। एतच्च श्नेत्यकारान्तेन साहचर्यादभ्यस्तस्याकारान्तस्यैव ग्रहणाल्लभ्यते॥

Sutra Prayogas

  • अन्तर्धत्स्व (भट्टिकाव्यम्): दधातेर्लोटि नाभ्यस्तयोः इत्याकारलोपः।

  • पिधध्वं (भट्टिकाव्यम्): श्नाभ्यस्तयोः इत्याकारलोपे।