64103: अङितश्च¶
Padacheda: अ-ङितः | S | 6 | 1 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
धि is substituted for the Imperative affix हि when the tense-affix is not ङित्।
Vasu English Translation¶
धि is substituted for the Imperative affix हि when the tense-affix is not ङित्। Under (3.4.88) हि is also पित् in the Vedas : and when it is पित्, it is not ङित् by (1.2.4). Thus रारन्धि, यन्धि and युयोधि in the following सोमरारन्धि अस्मभ्यं तद्धर्यश्व प्रयन्धि, युयोध्यस्मज् जुहुराणमेनः
Why do we say ‘when it is not ङित्’? Observe प्रीणीहि ॥ रारन्धि is irregularly Parasmaipada of रम्; the शप् being replaced by श्लु, and the reduplicate lengthened as a Vedic form. The म्, is not elided, by (6.4.37) as the affix is not ङित् ॥ प्रयन्धि is from यम, the शप् is elided : and युयोधि from यु (यौति), the शप् being replaced by श्लु ॥
Kashika¶
अङितश्च हेर्धिरादेशो भवति। वा छन्दसि (३.४.८८) इति पित्त्वेनास्याङित्त्वम्। सोम॑ रार॒न्धि (ऋ० १.९१.१३)। अ॒स्मभ्यं॒ तद्ध॑र्यश्व॒ प्रय॑न्धि (ऋ० ३.३६.९)। यु॒यो॒ध्य१॒॑स्मज्जु॑हुरा॒णमेनः॑ (ऋ० १.१८९.१)। अङित इति किम् ? हव्यं प्रीणीहि (काठ०सं० ४०.१२)। रारन्धीति रमेर्व्यत्ययेन परस्मैपदम्, शपः श्लुरभ्यासदीर्घत्वं छान्दसत्वात्। मलोपाभावस्तु अङित्त्वादेव. प्रयन्धीति यमेः शपो लुक्। युयोधीति यौतेः शपः श्लुः॥
Siddhanta Kaumudi¶
हेर्धिः स्यात् । रारन्धि (रा॒र॒न्धि) । रमेर्व्यत्ययेन परस्मैपदम् । शपः श्लुरभ्यासदीर्घश्च । अस्मे प्रयन्धि (अ॒स्मे प्रय॑न्धि) । युयोधि जातवेदः (यु॒योधि॑ जातवेदः) । यमेः शपो लुक् । यौतेः शपः श्लुः ॥
Balamanorama¶
अङितश्च - शसि विशेषमाह — पादः पत् । भस्य अङ्गस्येति चाधिकृतं पशसि विशेषमाह — पादः पत् । भस्य अङ्गस्येति चाधिकृतं पाद इत्यनेन विशेष्यते । तदन्तविधिः । तदाह — पाच्छब्दान्तमिति । पाच्छब्दस्येति । पाच्छब्दान्तस्य विधीयमानो ।ञपि पदादेशःनिर्दिश्यमानस्यादेशा भवन्ती॑ति पाच्छब्दस्यैव सर्वादेशो भवति, न तु तदन्तस्येति भावः । इत्यादीति । सुपदे । सुपदः । सुपदः । सुपदोः २ । सुपदि । इति दान्ताः । अथथान्ताः । अग्निमदिति । ‘मन्थ विलोडने’ इति भ्वादौ । ‘मन्थ विलोडने’ इति क्यादौ । उभाभ्यामपि क्विपिअनिदिता॑मिनि नलोपे अग्निमथिति रूपम् । ततः सुबुत्पत्तिः । सौ जश्त्वचर्त्वे इति भावः । भ्यामादौ जश्त्वेन थस्य दः । अग्निमद्भ्यामित्यादि । सुपिखरि चे॑ति चर्त्वम्, अग्निमत्सु । ‘मथे विलोडने’ इत्यस्याप्येतदेव रूपम् ।मथिहिंसासंक्लेशनयोः॑ इति इदितस्तु नलोपाऽभावात् अग्निमन् अग्निमन्थावित्यादि । इति थान्ताः । अथ चान्ताः । ऋत्विगित्यादिसूत्रेणेति । प्र-अञ्चतीत्यर्थे ‘अञ्चु गतिपूजनयोः’ इति गत्यर्थकाद्धातोर्नोपधात्क्विन्नित्यर्थः । पूजार्थस्य त्वग्रे वक्ष्यते । क्विनिहलन्त्य॑मिति नकार इत् । इकार उच्चारणार्थः । ‘लशक्वतद्धिते’ इति ककार इत् ।वेरपृक्तस्ये॑ति वकारलोपः ।
Tattvabodhini¶
अङितश्च - पादऋ पत् । तदवयवस्येति । एतच्चनिर्दिस्यमानस्यादेशा भवन्ती॑ति परिभाषया लभ्यते । इयं च परिभाषाषष्ठीस्थानेयोगे॑त्यनेन ज्ञापिता । तथाहिअस्तेर्भूः॒॑इको यणची॑-त्यादौ सामीप्यादिसम्बन्धप्रसङ्गे[ ।पि]लक्ष्यानुरोधेन व्याख्यानादन्करङ्गत्वात्स्थानिवदादेशः॑इति ज्ञापकाच्च स्थानेयोगत्वे सिद्धेऽप्यारभ्यमाणेनषष्ठीस्थानेयोगे॑त्यनेन षष्ठन्कतमुच्चार्यमाणमेव स्थानेन युज्यते न तु प्रतीयमानमित्यर्थो लभ्यते । तथाचनिर्दिश्यमानस्यादेशा भवन्ती॑ति सिद्धम् ।अलोऽन्त्यस्य॒॑आदेः परस्ये॑ति योगौ त्वारम्भसामर्थ्यान्निर्दिश्यमानपरिभाषाया बाधकौ, तेनपुमः खय्यम्परे॒॑उदः स्थास्तम्भो॑रित्यादौ न दोष इति दिक्॥ इति दान्ताः । अग्निमदिति । मथ्नातेर्मन्थतेश्च क्विपि एतदेव रूपम् । इदितस्तु न नलोपाभावादिग्निमन्थौ । अग्निमन्थः॥ इति थान्ताः ।
Padamanjari¶
मलोपाभावस्त्विति । अनुदातोपदेश तैत्यादिना यो मलोपस्तस्याभावः । अङित्वादेवेइति । नासौ यत्नसाध्य इत्येवश्बदार्थः । यमेः शपो लुगिति । वहुलं च्छन्दसि इत्येव । एवमुतरत्रापि ॥
Nyaas¶
वा छन्दसि इत्यादि। सार्वधातुकमपित् (1.2.4) इत्यपितः सार्वधातुकस्य ङित्त्वं विधीयते, छन्दसि विषये वा छन्दसि (6.1.106) इत्यनेन हेर्यदपित्त्वं तद्विकल्प्यते। तेन पक्षे तस्य ङित्त्वं न भवति। अथ रारन्धीति कथं परस्मैपदम्, यावता रमिरयमात्मत्मनेपदी? कथं वात्र शपः श्रवणं न भवति? कथञ्चाब्यासस्य दीर्घत्वम्, कथञ्च अनुदात्तोपदेश (6.4.37) इत्यादिना मकारलोपो न भवति? इत्याह - रारन्धि इत्यादि। शपः श्लुः इति ब्राउवामेन श्लौ (6.1.10) इति द्विर्वचनमित्युक्तं भवति। मकारलोपाभावस्त्वङित्त्वादे सिद्ध इति नासौ यत्नसाध्य इत्यभिप्रायः। यमेः शपः इति। बहुलं छन्दसि (2.4.73) इत्यनेन। `योतेः शपः श्लुः इति। बहुलं छन्दसि (7.4.78) इत्यनेन॥
Prakriyasarvasvam¶
वा छन्दसि (३-४-८८) इति पित्त्वादङितो हेर्धिर्भवत् । युयोध्यस्मत् । यौतेः श्लुबहुलोक्तेर्गुणोऽप्यङित्त्वादतो युयोधीति । उतश्च प्रत्ययादिति हिलोप श्छन्दसि वा वाच्यः’ (वा. ६-४-१०६) चिनुहि विमृधिः । ‘छन्दस्यपिचोरप्य- लिट्येत्वं वाच्यम्’ (वा. ६-४-१२०) । अमेज्रानशि अममान इति प्राप्ते एमान । छान्दसे शपो लुकि मुग्भावः । पचेरन्निति प्राप्ते पेचरिन् । एतो ह्रस्वश्छान्दसः ।<!यजि वपोश्च!> (वा. ६-४-१२०) । आ येजे मनुः । आ वेपे । लङि उत्तमैकवचने अयजे अवपे इति प्राप्ते एत्वे कृते ‘छन्दस्यपि दृश्यते’ (६-४-७३) इत्यनजा- दावप्याट् ।