64106: उतश्च प्रत्ययादसंयोगपूर्वात्¶
Padacheda: उतः | S | 5 | 1 |
च | S | 0 | 0 |
प्रत्ययात् | S | 5 | 1 |
असंयोगपूर्वात् | S | 5 | 1 |
Sutrartha¶
असंयोगपूर्वः यः उकारः, तदन्तात् प्रत्ययात् परस्य हि-प्रत्ययस्य लुक् भवति ।
यदि प्रत्ययस्य अन्तथः उकारः असंयोगपूर्वः अस्ति, तर्हि तस्मात् परस्य हि-प्रत्ययस्य लुक् भवति । अत्र ‘हि’ इति तिङ्-प्रत्ययस्य ग्रहणम् क्रियते । अयम् तिङ्-प्रत्ययः केवलं विकरणप्रत्ययात् अनन्तरम् एव आगच्छति, अन्यस्मात् प्रत्ययात् न । अतः अस्मिन् सूत्रे निर्दिष्टः ‘प्रत्ययान्तः उकारः’ इत्युक्ते विकरणप्रत्ययस्य अन्ते विद्यमानः उकारः । अतः अस्य सूत्रस्य प्रसक्तिः तनादिगणस्य ‘उ’ विकरणप्रत्ययस्य विषये तथा स्वादिगणस्य ‘श्नु’ विकरणप्रत्ययस्य विषये एव वर्तते । एतयोः प्रत्यययोः उकारः यदि असंयोगपूर्वः अस्ति (इत्युक्ते, तस्मात् पूर्वम् संयोगः नास्ति), तर्हि तस्मात् उकारात् परस्य हि-इत्यस्य लुक्-भवति । उदाहरणानि एतानि - 1. स्वादिगणस्य चिञ् (चयने) अस्य लोट्लकारस्य मध्यमपुरुषैकवचनस्य रूपम् एतादृशम् सिद्ध्यति - चि + लोट् [लोट् च (3.3.162) इति लोट्] → चि + सिप् [तिप्तस्.. (3.4.78) इति मध्यमपुरुषैकवचनस्य सिप्-प्रत्ययः] → चि + श्नु + सिप् [स्वादिभ्यः श्नुः (3.1.73) इति श्नुः] → चि + नु + हि [सेह्यर्पिच्च (3.4.87) इति सि-प्रत्ययस्य अपित्-हि-आदेशः] → चिनु [उतश्च प्रत्ययादसंयोगपूर्वात् (6.4.106) इत्यनेन प्रत्ययान्ते विद्यमानात् असंयोगपूर्व-उकारात् परस्य हि-प्रत्ययस्य लोपः] 2. तनादिगणस्य डुकृञ् (करणे) अस्य लोट्लकारस्य मध्यमपुरुषैकवचनस्य रूपम् एतादृशम् सिद्ध्यति - कृ + लोट् [लोट् च (3.3.162) इति लोट्] → कृ + सिप् [तिप्तस्.. (3.4.78) इति मध्यमपुरुषैकवचनस्य सिप्-प्रत्ययः] → कृ + उ + सिप् [तनादिकृञ्भ्यः उः (3.1.73) इति उ-प्रत्ययः] → कर् + उ + सिप् [सार्वधातुकार्धधातुकयोः (7.3.84) इति अङ्गस्य गुणः] → कर् + उ + हि [सेह्यर्पिच्च (3.4.87) इति सि-प्रत्ययस्य अपित्-हि-आदेशः] → कुर् + उ + हि [अत उत् सार्वधातुके (6.4.110) इत्यनेन अकारस्य उकारादेशः] → कुरु [उतश्च प्रत्ययादसंयोगपूर्वात् (6.4.106) इत्यनेन प्रत्ययान्ते विद्यमानात् असंयोगपूर्व-उकारात् परस्य हि-प्रत्ययस्य लोपः] 3. यदि अयमुकारः संयोगपूर्वः अस्ति तर्हि अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा - आप् + लोट् [लोट् च (3.3.162) इति लोट्] → आप् + सिप् [तिप्तस्.. (3.4.78) इति मध्यमपुरुषैकवचनस्य सिप्-प्रत्ययः] → आप् + श्नु + सिप् [स्वादिभ्यः श्नुः (3.1.73) इति श्नुः] → आप् + नु + हि [सेह्यर्पिच्च (3.4.87) इति सि-प्रत्ययस्य अपित्-हि-आदेशः] → आप्नुहि अत्र उकारात् पूर्वः ‘प् + न्’ इति संयोगः अस्ति अतः अत्र उतश्च प्रत्ययादसंयोगपूर्वात् (6.4.106) इत्यस्य प्रसक्तिः नास्ति, अतः ‘हि’ इत्यस्य लोपः न भवति । ज्ञातव्यम् - अस्मिन् सूत्रे ‘हि’ इत्यस्य ‘लुक्’ उच्यते, लोपः न । अस्य कारणमेतत् - प्रत्ययस्य लुक्श्लुलुपः (1.1.61) इत्यनेन ‘लुक्’ सर्वदा सम्पूर्ण-प्रत्ययस्यैव भवति, प्रत्ययस्य अवयवस्य न । अत्र ‘हि’ इत्यस्य सम्पूर्ण-प्रत्ययस्य लोपः इष्यते, अतः अत्र ‘लुक्’ कार्यमेव करणीयम् । यदि अत्र ‘लोपः’ इति अभविष्यत्, तर्हि आदेः परस्य (1.1.54) इत्यनेन ‘हि’ इत्यस्य केवलं हकारस्यैव लोपः अभविष्यत् ।
Sutrartha (English)¶
The ‘हि’ प्रत्यय that follows an उकार is deleted, provided - a) The उकार occurs at end of a प्रत्यय, and b) A संयोग is not present immediately before this उकार.
Vasu English Summary¶
The Imperative affix हि is elided after the उ of an affix in the विकरण with which the Present-अङ्ग (stem) (special conjugation) is made, provided that the उ is not preceded by a conjunct consonant.
Vasu English Translation¶
The Imperative affix हि is elided after the उ of an affix in the विकरण with which the Present-अङ्ग (stem) (special conjugation) is made, provided that the उ is not preceded by a conjunct consonant. The affix उ with which the Present-stem is made is उ and श्नु ॥ Thus चिनु, सुनु, कुरु ॥ Why after ‘उ’? Observe लुनीहि, सुनीहि ॥ Why do we say “उ being part of the vikarana or affix”? Observe रुहि, युहि, here उ is part of the root itself, and not of the vikarana. Why de we say ‘not preceded by a conjunct consonant’? Observe प्राप्नुहि, राध्नुहि, तक्ष्णुहि ॥
Vart:- The elision of हि after the उ of the vikarana उ and श्नु is optional in the Vedas; as आतनुहि यातुधानान्, धिनुहि यज्ञपतिम्, तेन मा भागिनं कृणुहि ॥
Bhashya¶
उतश्च प्रत्ययादसंयोगपूर्वात् (3104) (विशेषणविशेष्यभावे पक्षद्वयप्रदर्शकभाष्यम्) कथमिदं विज्ञायते - उकारात् प्रत्ययादिति, आहोस्विदुकारान्तात् प्रत्ययादिति ? किञ्ञ्चातः ? यदि विज्ञायते - उकारात्प्रत्ययादिति सिद्धं तनु - कुरु । चिनु - सुनु - इति न सिद्ध्यति । अथ विज्ञायते - उकारान्तात्प्रत्ययादिति सिद्धं चिनु -सुनु । तनु - कुर्विति न सिध्यति । तथा - असंयोगपूर्वग्रहणेन इहैव पर्युदासः स्यात् - अक्ष्णुहि, तक्ष्णुहि । आप्नुहि, शक्नुहीत्यत्र न स्यात् ॥ उकारस्य विशेष्यत्वात् तेन नास्ति तदन्तता । न सम्भवति चोकारः प्रत्ययान्तो यदा पुनः ॥ विशेष्यत उकारेण प्रत्ययोऽतस्तदन्तता । आश्रीयते प्रत्ययस्य तस्मात्पक्षद्वयोद्भवः ॥ (पक्षद्वये दोषाभावोपपादकभाष्यम्) यथेच्छसि तथाऽस्तु । अस्तु तावदुकारात्प्रत्ययादिति । कथं चिनु - सुन्विति ? तदन्तविधिना भविष्यति ॥ अथवा - पुनरस्तूकारान्तात्प्रत्ययादिति । कथं तनु कुरु ? व्यपदेशिवद्भावेन भविष्यति ॥ यदप्युच्यते - तथाऽसंयोगपूर्वग्रहणेनेहैव पर्युदासः स्यात् - अक्ष्णुहि -तक्ष्णुहि । आप्नुहि - शक्नुहीत्यत्र न स्यात् इति । नास्माभिरसंयोगपूर्वग्रहणेनोकारान्तं विशेष्यते । किं तर्हि ? उकारो विशेष्यते । उकारो योऽसंयोगपूर्वस्तदन्तात्प्रत्ययादिति ॥ (6582 उपसंख्यानवार्तिकम् ॥ 1 ॥) - उतश्च प्रत्ययाच्छन्दोवावचनम् - उतश्च प्रत्ययात् - इत्यत्र छन्दसि वा इति वक्तव्यम् । अव स्थिरा तनुहि यातुजूनाम् । धिनुहि यज्ञं धिनुहि यज्ञपतिम् । ते न मा भागिनं कृणुहि ॥ (6583 उपसंख्यानवार्तिकम् ॥ 2 ॥) - उत्तरार्थं च - केचित्तावदाहुः - छन्दोग्रहणं कर्तव्यमिति । अपर आहुः - वावचनं कर्तव्यमिति । लोपश्चास्यान्तरस्यांम्वोः (107) इत्यत्रान्यतरस्यां ग्रहणं न कर्तव्यं भवति ॥
Kashika¶
उकारो योऽसंयोगपूर्वस्तदन्तात् प्रत्ययादुत्तरस्य हेर्लुग् भवति। चिनु। सुनु। कुरु। उत इति किम् ? लुनीहि। पुनीहि। प्रत्ययादिति किम्? युहि। रुहि। असंयोगपूर्वादिति किम् ? प्राप्नुहि। राध्नुहि। तक्ष्णुहि॥ उतश्च प्रत्ययाच्छन्दोवावचनम् ॥ उतश्च प्रत्ययादित्यत्र छन्दसि वेति वक्त व्यम्। आतनुहि यातुधानान् । धिनुहि यज्ञपतिम् (काठ० सं० १.६)। तेन॑ मा भ॒गिनं॑ कृ॒णु (शौ० सं० ६.१२९.२)॥
Siddhanta Kaumudi¶
असंयोगपूर्वो यः प्रत्ययोकारस्तदन्तादङ्गात्परस्यहेर्लुक् स्यात् । धिनु । नित्यत्वादुकारलोपात्पूर्वमाट् । धिनवाव । धिनवाम । जिन्वति । इत्यादि ।{$ {!595 रिवि!} {!596 रवि!} {!597 धवि!} गत्यर्थाः$} । रिण्वति । रण्वति । धन्वति ।{$ {!598 कृवि!} हिंसाकरणयोश्च $}। चकाराद्गतौ । कृणोतीत्यादि धिनोतिवत् । अयं स्वादौ च ।{$ {!599 मव!} बन्धने$} । मवति । मेवतुः । मेवुः । अमवीत् । अमावीत् ।{$ {!600 अव!} रक्षणगतिकान्तिप्रीतितृप्त्यवगमप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्छादीप्त्यवप्त्यालिङ्गनहिंसादानभागवृद्धिषु$} । अवति । आव । मा भवानवीत् ।{$ {!601 धावु!} गतिशुद्ध्योः$} । स्वरितेत् । धावति । धावते । दधाव । दधावे ॥ अथोष्मान्ता आत्मनेपदिनः ।{$ {!602 धुक्ष!} {!603 धिक्ष!} संदीपनक्लेशनजीवनेषु $}। धुक्षते । दुधुक्षे । धिक्षते । दिधिक्षे ।{$ {!604 वृक्ष!} वरणे$} । वृक्षते ववृक्षे ।{$ {!605 शिक्ष!} विद्योपादाने$} । शिक्षते ।{$ {!606 भिक्ष!} भिक्षायामलाभे लाभे च$} । भिक्षते ।{$ {!607 क्लेश!} अव्यक्तायां वाचि$} । बाधन इति दुर्गः । क्लेशते चिक्लेशे ।{$ {!608 दक्ष!} वृद्धौ शीघ्रार्थे च$} । दक्षते । ददक्षे ।{$ {!609 दीक्ष!} मौण्ड्येज्योपनयननियमव्रतादेशेषु $}। दीक्षते । दिदीक्षे ।{$ {!610 ईक्ष!} दर्शने$} । ईक्षांचक्रे ।{$ {!611 ईष!} गतिहिंसादर्शनेषु$} । ईषांचक्रे ।{$ {!612 भाष!} व्यक्तायां वाचि$} । भाषते ।{$ {!613 वर्ष!} स्नेहने$} । दन्त्योष्ठ्यादिः । ववर्षे ।{$ {!614 गेषृ!} अन्विच्छायाम्$} । ग्लेषृ इत्येके । अन्विच्छा अन्वेषणम् । जिगेषे ।{$ {!615 पेषृ!} प्रयत्ने पेषते$} ।{$ {!616 जेषृ!} {!617 णेषृ!} {!618 एषृ!} {!619 प्रेषृ!} गतौ$} । जेषते । नेषते । एषांचक्रे । पिप्रेषे ।{$ {!620 रेषृ!} {!621 हेषृ!} {!622 ह्रेषृ!} अव्यक्ते शब्दे$} । आद्यो वृकशब्दे । ततो द्वावश्वशब्दे । रेषते । हेषते । ह्रेषते ।{$ {!623 कासृ!} शब्दकुत्सायाम्$} । कासांचक्रे ।{$ {!624 भासृ!} दीप्तौ$} । बभासे ।{$ {!625 णासृ!} {!626 रासृ!} शब्दे$} । नासते । प्रणासते ।{$ {!627 णस!} कौटिल्ये$} । नसते ।{$ {!628 भ्यस!} भये$} । भ्यसते । बभ्यसे ।{$ {!629 आङः!} शसि इच्छायाम्$} । आशंसते । आशशंसे ।{$ {!630 ग्रसु!} {!631 ग्लसु!} अदने$} । जग्रसे । जग्लसे ।{$ {!632 ईह!} चेष्टायाम्$} । ईहांचक्रे ।{$ {!633 वहि!} {!634 महि!} वृद्धौ$} । बंहते । बबंहे । मंहते ।{$ {!635 अहि!} गतौ$} । अंहते । आनंहे ।{$ {!636 गर्ह!} {!637 गल्ह!} कुत्सायाम्$} । जगर्हे । जगल्हे ।{$ {!638 बर्ह!} {!639 बल्ह!} प्राधान्ये$} । ओष्ठ्यादी ।{$ {!640 वर्ह!} {!641 वल्ह!} परिभाषणहिंसाच्छादनेषु$} । दन्त्योष्ठ्यादी । केचित्तु पूर्वयोर्दन्त्योष्ठ्यादितामनयोरोष्ठ्यादितां चाहुः ।{$ {!642 प्लिह!} गतौ$} । पिप्लिहे ।{$ {!643 वेहृ!} {!644 जेहृ!} {!645 बाहृ!} प्रयत्ने$} । आद्यो दन्त्योष्ठ्यादिः । अन्त्यः केवलेष्ठ्यादी इत्यपरे । जेहतिर्गत्यर्थोऽपि । बबाहे ।{$ {!646 द्राहृ!} निद्राक्षये$} । निक्षेपे इत्येके ।{$ {!647 काशृ!} दीप्तौ$} । चकाशे ।{$ {!648 ऊह!} वितर्के$} । ऊहांचक्रे ।{$ {!649 गाहू!} विलोडने$} । गाहते । जगाहे । जगाहिषे । जघाक्षे । जगाहिढ्वे । जगाहिध्वे । जघाढ्वे । गाहिता ॥
Laghu Siddhanta Kaumudi¶
असंयोगपूर्वात्प्रत्ययोतो हेर्लुक्। शृणु, शृणुतात्। शृणुतम्। शृणुत। गुणावादेशौ। शृणवानि। शृणवाव। शृणवाम। अशृणोत्। अशृणुताम्। अशृण्वन्। अशृणोः। अशृणुतम्। अशृणुत। अशृणवम्। अशृण्व, अशृणुव। अशृण्म, अशृणुम। शृणुयात्। शृणुयाताम्। शृणुयुः। शृणुयाः। शृणुयातम्। शृणुयात। शृणुयाम्। शृणुयाव। शृणुयाम। श्रूयात्। अश्रौषीत्। अश्रोष्यत्॥ {$ {! 20 गमॢ !} गतौ $} (धातुपाठे (01.1137))॥
Balamanorama¶
उतश्च प्रत्ययादसंयोगपूर्वात् - उतश्च ।हेर्लुक्स्यादिति ।चिणो लु॑गित्यतो॒ऽतो हे॑तित्यतश्च तदनुवृत्तेरिति भावः । लोटो मिपि उप्रत्यये वकारस्य अकारे अतो लोपे धिनु मि इति स्थिते मेर्निभावमाडुत्तमस्येत्याडागमं च बाधित्वा परत्वादुकारस्यलोपश्चास्यान्यतस्या॑मिति लोपमाशङ्क्याह — नित्यत्वादित्यादि । निभावस्याप्युपलक्षणम् । उकारलोपे कृते अकृते च निभावस्य आडागमस्य च प्रवृत्त्या नित्यत्वादुकारलोपात्पूर्वमेव निभावाडागमयोः कृतयोरुकारलोपस्याऽप्रसक्तौ आटः पित्त्वेन ङित्त्वाऽभावादुकारस्य गुणेऽवादेशे च धिनवानीति रूपमिति भावः । अधिनोत् । धिनुयात् । धिन्व्यात् । अधिन्वीत् । अधिन्विष्यत् । कृणोतीत्यादीति । धिविव्दरूपाणीति भावः । अयं स्वादौ चेति । कृविरित्यर्थः । अव रक्षणेति । स्वाम्यर्थः- ऐआर्यम् । मा भवानवीदिति ।नेटी॑ति न वृद्धिः । मव्यादयोऽवत्यन्ताः पर्समैपदिनो गताः । धावु गतीति । उदिदयम् । स्वरितेदिति । ततश्च कर्तृगामिनि फले आत्मनेपदम्, अन्यथा परस्मैपदमित भावः । अथोष्मान्ता इति । तत्र ‘धुक्षे’ त्यारभ्य कासृधातोः प्राक् षकारान्ताः । तत्र क्लेशधातुरेकः शकारान्तः । दीक्षमौण्डएति । णेषृधातुर्णोपदेशः । कासृधातुमारभ्य ईहधातोः सकारान्ताः । कासांचक्र इति । कास्प्रत्ययादित्याम् । णासृधातुर्णसधातुश्च णोपदेशः । आङ शसीति । आङः परः शसिधातुरिच्छायामित्यर्थः । ईहेत्यारभ्य काशृधातुवर्जं घुषि कान्तीत्यतः प्राक् — हकारान्ताः । काशृधातुस्तु शकारान्तः । प्लिहहधातुरदुपधः । ऊह वितर्के इति । युक्त्या अर्थनिर्णयो वितर्कः ।अनुक्तमप्यूहति पण्डितो जनः॑ इत्यत्र तु अनुदात्तेत्त्वलक्षणात्मनेपदमनित्यमिति बोध्यम् । गाह्धातुरूदित्त्वाद्वेट् । तदाह — जगाहिषे जघाक्षे इति । इडभावे जगाह् से इति स्थितेहो ढः॑, ‘एकाच’ इति भष्भावेन गस्य घः,षढो॑रिति ढस्य कः, सस्य षः । जगाहिढ्वे जगाहिध्वे इति । इट्पक्षे ‘विभाषेटः’ इति ढत्वविकल्पः । इडभावे त्वाह — जघाढ्व इति । जगाह्ध्वे इति स्थिते हस्य ढः, धस्य ष्टुत्वेन ढः, गस्य भष् घकारः । पूर्वस्य ढस्य ‘ढो ढे लोपः’ इति वक्ष्यमाणो लोपः । ढलोपसूत्रं त्विहैव पठितुं युक्तम् । गाहितेति । इट्पक्षे रूपम् ।
Tattvabodhini¶
उतश्च प्रत्ययादसंयोगपूर्वात् - कृवि । अयमिति । कृणोतीत्यादिरित्यर्थः । स्वादौ हि कृवीत्ययंधातुर्न पठते, किंतु कृञ् हिंसायामिति । तस्य च परस्मैपदेषु सार्वधातुके कृणोतीत्यादीनि रूपाणि तुल्यानीति फलितोऽर्थः । अव रक्षणे । एकोनविंशतिरर्थाः । कान्तिः — शोभा । दीप्तिस्तेज इत्याहुः । तृप्तिः — इच्छानाशः । स्वाम्यर्थः — स्वामित्वम् । हिंसा — हननम् । आदानं — ग्रहणम् । न चात्र दानमेवार्थोऽस्त्विति वाच्यम् ।भागे वृद्धौ ग्रहे वधे॑ इत्येवमर्थानां विशिष्य बोपदेवेन गणितत्वनात् । भिक्ष । याच्ञालाभाऽलाभास्त्रयोऽर्थाः । स्वामी तुक्लेश अव्यक्तायां वाचि चे॑ति पठित्वा इमावपि भिक्षधातोरर्थाविति मन्यते ।क्लिश उपतापे॑ इति दिवादौ ।क्लिशू विबाधने॑ इति क्र्यादौ । दीक्ष । पञ्चार्थाः । ईष गति ।गुरोश्च हलः॑ इत्यप्रत्यये टाप् । ईषा । मनस ईषा — मनीषा । शकन्ध्वादिः । मनीषामभिनिविष्टं मनीषितम् ।प्रातिपदिकाद्धात्वर्थे बहुलमिष्ठवच्चे॑ति णिचि तदन्तात् क्तः ।ईष उञ्छे॑ इतितु परस्मैपदेषु । ह्रस्वादयरुआयः ।इष गतौ॑ दिवादिः ।इष इच्छायां॑ तुदादिः ।इष आभीक्ष्ण्ये॑ क्र्यादिः । कासांचक्रे इति ।कास्प्रत्यये॑त्याम् । भासृ दीप्तौ । अस्य ऋदित्त्वं भ्राजतेरिव तङ्मात्रफलकम् ।भ्राजभासे॑त्यादिनोपधाह्रस्वस्य विकल्पितत्वात् । णस कौटिल्ये । लिण्निमित्तादेशादित्वाऽभावादेत्वम् । नेसे । आङः शसि ।शंसु स्तुता॑विति तु पसस्मैपदिषु वक्ष्यते । ग्रसु ग्लसु ।उदितो वे॑ति क्त्वायां वेट् । ग्रसित्वा । ग्रस्त्वा ।यस्य विभाषे॑ति नेट् । ग्रस्तः । वेह्म जेह्म वाह्म । आद्य इति । वेहतेरति प्रत्यये वेहच्छब्दो निपातितःपोटायुवती॑ति सूत्रे इति भावः ।वेहद्गर्भोपघातिनी॑ । अन्त्य इति । बाहुशब्दस्य भुजपर्यायस्य,क्षुब्धस्वान्तध्वान्ते॑ति निपातितस्य बाढशब्दस्य च निर्विवादत्वादिति भावः । दन्त्योष्ठआदी इति ।उभावपी॑त्यनुषज्यते । अनुदात्तेत्वकृतमात्मनेपदमनित्यम् । तेनववाह रक्तं पुरुषास्ततो जाताः सहरुआशः॑ इति सिद्धम् । न चात्राऽर्थासङ्गतिः, धातूनामनेकार्थत्वात्प्ररुआवणार्थकत्वे बाधकाऽभावादित्याहुः । ऊह । कथं तर्हिअनुक्तमप्यूहति पण्डितो जनः इति । अत्राहुः - अनुदात्तेत्त्वलक्षणस्य तङोऽनित्यत्वान्न दोष इति । गाहू । ऊदित्त्वादिड्वा । इहभावे ढत्वम् ।एकाचः॑ इति भष्भावः ।षढो कः सी॑ति कः । कात्परस्य षत्वम् — जघाक्षे ।विभाषेटः॑ इति वा मूर्धन्यः । जगाहिढ्वे । जगाहिध्वे । इडभावे तु भष्भाव ।ढो ढे लोपः॑ — जघाढ्वे । ढे किम् । ऊढः । इह पूर्वं ढलोपो माभूत् । कृते तु ढेग्रहणेष्टुना ष्टु॑रित्यस्य आश्रयात् सिद्ध्तवं भवतीति सिद्धमिष्टमित्याहुः ।
Padamanjari¶
उतः, प्रत्ययात् - इत्यनयोर्विशेषणविशेष्यभावे कामचारः । तत्र उकारस्य विशेष्यत्वात् तेन नास्ति तदन्तता । न सम्भवति चोकारः प्रत्ययान्तो यदा पुनः ॥ विशेष्यते उकारेण प्रत्ययस्ततदन्तता । आश्रीयते प्रत्ययस्य तत्पक्षद्वयसम्भवः ॥ तत्राद्ये पक्षे तनु, कुरु - इत्यादावेव स्यात् सुन्, चिनु - इत्यादौ तु न स्यात् । तथा उकारस्य प्रत्ययस्चासंयोगपूर्वत्वादसंयोगपूर्वग्रहणमस्मिन्पक्षे अङ्गविशेषणं विज्ञायेत, ततश्च क्षिणु इत्यादौ न स्यात्, क्षिणु हिंसायाम् तानादिकः, अत्र धातोर्गुणो न भवतीत्याहुः । तस्मादुकारो विशेषणम्, तेन तदन्तविधिः । यद्येवम्, तनु, कुरु - अत्र न प्राप्नोति, इकार एवात्र प्रत्ययो न तदन्तः अत्रापि तदन्तः कथम् व्यपदेशिवद्भावात् । एवं स्थिते - यद्यसंयोगपूर्वत्वमुकारान्तविशेषणम् । आप्नुहीत्यत्र हेर्लुक्स्यात्प्रतिषेधस्तु तक्ष्णुहि । तस्मादिविशेषाणमिदमुकारस्यैव गृह्यताम् ॥ ननु च येन विधिस्तदन्तस्य इति उकारस्तदन्तस्य संज्ञा, ततः किम् संज्ञिप्रत्यायनपरा संज्ञा तस्या विशेषणम् । अयुक्तमिति चेदत्र समाधिरभिधीयते । विशेषणं तदन्तस्य संज्ञा, सत्यम्, तथापि तु । विशेषणत्वस्फुरथणात् प्रागेवोतो विशेषणम् । प्रत्ययस्येति, नैवेह किञ्चिदस्ति तिरोहितम् ॥ तदिदमुक्तम् - योऽयमुकारोऽसंयोगपूर्वस्तदन्तातप्रत्ययादिति । युहि, रुहीति । ननु जुहोतेः परस्य हेर्धित्वविधानादेव धातोः परस्य न भविष्यति सत्यम् विशिष्टविषयमेतज्ज्ञापकं स्यादिति प्रत्ययग्रहणम् । च्छन्दसि वेति च वक्तव्यमिति । एवं च कृत्वोतरसूत्रेऽन्यतरस्यांग्रहणं न कर्तव्यं भवति ॥
Nyaas¶
उकारो योऽसंयोगपूर्वः इति। अविद्यमानः संयोगः पूर्वो यस्मास्त तथोक्तः। एतेनासंयोगपूर्वग्रहणमकारविशेषणमिति दर्शयति। स एवं विध उकारः प्रत्ययस्य विशेषणम्, विशेषणेन च तदन्तविधिर्भवतीत्याह -तदन्तात् इत्यादि। किमर्थं पुनस्तदन्तदिधिरब्युपगम्यते? सुन्? चिन्वित्यत्र यथा स्यात् अस्त्वेतत्? प्रयोजनम्, अयं तु दोषः -तनु, कुर्वित्यत्र न प्राप्नोति, अत्र ह्रुकार एव प्रत्ययः न तदन्तः? अत्रापि व्यपदेशिवद्भावेन तदन्तत्त्वं प्रत्ययस्यास्तीत्यदोषः। `कुरु इति। धातोर्गुणे रपरत्वे च कृते अत उत्सार्वधातुके (6.4.110) इत्युत्त्वम्। तरुणुहि इति। तूनूकरणे तक्षः (3.1.76) इति श्नुः।च्छन्दोवावचनम् इति। अभिधानेऽभिधेयोपचाराद्वार्थो विकल्पो वाशब्देन विवक्षितः। उच्यते व्याख्यायतेऽनेनेति वचनम्, वार्थस्य वचनं वावचनम्, छन्दसि वावचनं छन्दोवावचनमिति सप्तमी (2.1.40) इति योगविभागात्? समासः। छन्दसि वेति वक्तव्यम् इति। छन्दसि विषये विकल्पेनायं विधिर्भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् -उत्तरसूत्रेऽन्यतरस्यांग्रहणमुभयोर्योगयोः शेषः, सा च व्यवस्थितविभाषा। तेन छन्दसि विषये विकल्पेनायं विधिर्भवतीति। धिनुहि, कृणुहि इति। हिवि दिवि, धिवि, प्रीणनार्थाः (धातुपाठः-591-593), कृवि हिंसाकरणयोः (धातुपाठः-598) इदित्वान्नुम्, धिन्विकृण्व्योर च (3.1.80) इत्युप्रत्ययः, अकारश्चान्तादेशः, तस्य `अतो लोपः (6.4.48) इति लोपः॥
Prakriyasarvasvam¶
असंयोगपूर्वोकारान्तात् प्रत्ययात् परस्य हेर्लुक् स्यात् । विदाङ्कुरु, विदाङ्कुरुतात् । विदाङ्कुरुतम् । विदाङ्कुरुत । आटि गुणः । विदाङ्करवाणि, विदाङ्करवाव । विदाङ्करवाम । लङि तिलोपः । अवेत् । अंवित्ताम् । ‘सिजभ्यस्त-’ इति झेर्जुस् । अविदुः । वेत्तेर्लङि जुस् वेति कौमुदी । अविदन् ।
Sutra Prayogas¶
प्रहिणु (भट्टिकाव्यम्): उतश्च प्रत्ययात् इति हेर्लुक् ।
सं-तनु (भट्टिकाव्यम्): तनोते- लौटि उतश्च इति हेर्लुक्।