64117: आ च हौ

Padacheda: आ | S | | | 1

च | S | 0 | 0 |

हौ | S | 7 | 1 |

Sutrartha

हा-धातोः ‘हि’प्रत्यये परे विकल्पेन इकारः / आकारः च आदेशरूपेण आगच्छतः ।

ओहाक् (त्यागे) इति जुहोत्यादिगणस्य धातुः । अस्य धातोः लोट्-लकारस्य मध्यमपुरुषैकवचनस्य ‘हि’ प्रत्यये परे ई हल्यघोः (6.4.113) इत्यनेन ईकारादेशः विधीयते । तं विकल्पेन बाधित्वा वर्तमानसूत्रेण ह्रस्व-इकारादेशः अपि भवति, आकारादेशः अपि व भवति । प्रक्रिया इयम् - हा + लोट् [लोट् च (3.3.162) इति लोट्] → हा + सिप् [तिप्तस्.. (3.4.78) इति मध्यमपुरुषैकवचनस्य सिप्-प्रत्ययः] → हा + शप् + सिप् [कर्तरि शप् (3.1.68) इति शप्] → हा + सिप् [जुहित्यादिभ्यः श्लुः (2.4.75) इति श्लुः] → हा हा + सिप् [श्लौ (6.1.10) इति द्वित्वम्] → ह हा + सिप् [ह्रस्वः (7.4.59) इति ह्रस्वः] → झ हा + सिप् [कुहोश्चुः (7.4.62) इति संवार-नाद-घोष-महाप्राण-हकारस्य तादृशः एव चवर्गीयः झकारः] → झ हा + हि [सेह्यर्पिच्च (3.4.87) इति सि-इत्यस्य अपित् हि-आदेशः । → झहाहि / झहिहि, झहीहि [आ च हौ (6.4.117) इति वैकल्पिकः आकारः, इकारः । उभयोः अभावे ई हल्यघोः (6.4.113) इत्यनेन ईकारादेशः] → जहाहि / जहिहि, जहीहि [अभ्यासे चर्च्च (8.4.54) इति जश्त्वम्]

Sutrartha (English)

The verb root ‘हा’ gets an optional इकारादेश or an आकारादेश when followed by the प्रत्यय ‘हि’.

Vasu English Summary

आ and इ are optionally substituted for the final of the अङ्ग (stem) of हा (जुहोत्यादिगणः (3rd Conjugation)) before the Imperative ending हि।

Vasu English Translation

आ and इ are optionally substituted for the final of the अङ्ग (stem) of हा (जुहोत्यादिगणः (3rd Conjugation)) before the Imperative ending हि। Thus जहाहि, जहिहि or जहीहि (6.4.113).

Kashika

जहातेराकारश्चान्तादेशो भवतीकारश्चान्यतरस्यां हौ परतः। जहाहि, जहिहि, जहीहि॥

Siddhanta Kaumudi

जहातैर्हौ परे आ स्यात् चादिदीतौ । जहाहि । जहिहि । जहीहि । अजहात् । अजहुः ॥

Laghu Siddhanta Kaumudi

जहातेर्है परे आ स्याच्चादिदीतौ। जहाहि, जहिहि, जहीहि। अजहात्। अजहुः॥

Tattvabodhini

चादिदीताविति। अत एव भट्टिः प्रायुङ्क्त - `जहिहि जहीहि जहाहि रामभार्या`मिति।

Padamanjari

सार्वधातुकमेव हि ॥

Nyaas

चकार इत्त्वान्यतरस्यांग्रहणयोरनुकर्षणार्थः॥

Prakriyasarvasvam

जहातेर्हा परे आकार इकार ईकारश्रान्तादेशो वा स्यात् । जहाहि, जहिहि जहीहि । जहानि । जहाव । लङि अजहात् । अजहिताम्, अजहीताम् । अजहुः । अजहाः । अजहितम्, अजहीतम् । अजहाम् । अजहिव, अजहीव । लुङि ‘यमरम—’ इति सक् । अहासीत् । अहासिष्टाम् । कर्मणि अहायि । अहायिषाताम्, अहासाताम् । लिटि जहौ । जहतुः । जहिथ, जहाथ । जहथुः । जह । जहौ । जहिव । कर्मणि जहे । जहिषे । जहिध्वे, जहिध्वे । आशिषि घुमास्थादित्वाद् ‘एर्लिङि’ । हेयात् । हाता । हास्यति । माङ् माने शब्दे च ।

Sutra Prayogas

  • जहीहि (किरातार्जुनीयम्): आ च हौ इति विकल्पादीकारादेशः।

  • जहिहि (किरातार्जुनीयम्): आ च हौ इति ईकारः।

  • विजहीहि (किरातार्जुनीयम्): आ च हौ इतीकारः।

  • विजहीहि (किरातार्जुनीयम्): आ च हौ इतीकारः।

  • विजहीहि (शिशुपालवधम्): आ च हौ इति विकल्पादीकारादेशः।

  • जहाहि (भट्टिकाव्यम्): आच हौ इत्याकार इति रूपन्त्रयम्।