64107: लोपश्चास्यान्यतरस्यां म्वोः¶
Padacheda: लोपः | S | 1 | 1 |
च | S | 0 | 0 |
अस्य | S | 6 | 1 |
अन्यतरस्याम् | S | 7 | 1 |
म्-वोः | S | 7 | 2 |
Sutrartha¶
असंयोगपूर्वः यः प्रत्ययान्तः उकारः तस्य मकारे वकारे च परे विकल्पेन लोपः भवति ।
यदि प्रत्ययस्य अन्तथः उकारः असंयोगपूर्वः अस्ति, तर्हि तस्य मकारे वकारे च परे विकल्पेन लोपः भवति । अस्मिन् सूत्रे ‘अस्य’ इति प्रयुक्तमस्ति । ‘अस्य’ इत्युक्ते उतश्च प्रत्ययादसंयोगपूर्वात् (6.4.106) अस्मिन् पूर्वसूत्रे निर्दिष्टस्य उकारस्य । अतः उतश्च प्रत्ययादसंयोगपूर्वात् (6.4.106) इत्यनेन यस्य उकारस्य निर्देशः क्रियते, तस्यैव उकारस्य ग्रहणमस्मिन् सूत्रेऽपि भवति, अन्यस्य कस्यापि उकारस्य न । उतश्च प्रत्ययादसंयोगपूर्वात् (6.4.106) इत्यनेन तु ‘श्नु’ इत्यस्य विकरणप्रत्ययस्य, ‘उ’ इत्यस्य विकरणप्रत्ययस्य च उकारस्यैव ग्रहणं भवति । अतः अस्य सूत्रस्य व्याप्तिः अपि तयोः एव विषये अस्ति । अस्मात् मकारादि-वकारादि-प्रत्यये च परे अस्य उकारस्य वैकल्पिकः लोपः भवति । यथा - 1. स्वादिगणस्य चिञ् (चयने) अस्य लोट्लकारस्य उत्तमपुरुषद्विवचनस्य रूपम् एतादृशम् सिद्ध्यति - चि + लोट् [लोट् च (3.3.162) इति लोट्] → चि + वस् [तिप्तस्.. (3.4.78) इति उत्तमपुरुषद्विवचनस्य वस्-प्रत्ययः] → चि + श्नु + वस् [स्वादिभ्यः श्नुः (3.1.73) इति श्नुः] → चि + नु + व [लोटो लङ्वत् (3.4.85) इत्यनेन लोट्-लकारस्य ङित्-लकारवत् कार्याणि भवन्ति । अतः नित्यं ङितः (3.4.99) इत्यनेन सकारलोपः] → चिनुव / चिन्व [लोपश्चास्यान्यतरस्यां म्वोः (6.4.107) इति उकारस्य वैकल्पिकः लोपः] 2. तनादिगणस्य तनुँ (विस्तारे) अस्य लट्लकारस्य उत्तमपुरुषबहुवचनस्य रूपम् एतादृशम् सिद्ध्यति - तन् + लट् [वर्तमाने लट् (3.2.123) इति लट्] → तन् + मस् [तिप्तस्.. (3.4.78) इति उत्तमपुरुषबहुवचनस्य मस्-प्रत्ययः] → तन् + उ + मस् [तनादिकृञ्भ्यः उः (3.1.73) इति उ-प्रत्ययः] → तनुमः, तन्मः [लोपश्चास्यान्यतरस्यां म्वोः (6.4.107) इति उकारस्य वैकल्पिकः लोपः] 3. यदि अयमुकारः संयोगपूर्वः अस्ति तर्हि अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा, आप्-धातोः लट्-लकारस्य उत्तमपुरुषबहुवचनस्य रूपसिद्धौ - आप् + लट् [वर्तमाने लट् (3.2.123) इति लट्] → आप् + मस् [तिप्तस्.. (3.4.78) इति उत्तमपुरुषबहुवचनस्य मस्-प्रत्ययः] → आप् + श्नु + मस् [स्वादिभ्यः श्नुः (3.1.73) इति श्नुः] → आप्नुमः [ससजुषो रुँः (8.2.66) इति रुँत्वम् । खरवसानयोर्विसर्जनीयः (8.3.15) इति विसर्गः] अत्र उकारात् पूर्वः ‘प् + न्’ इति संयोगः अस्ति अतः अत्र लोपश्चास्यान्यतरस्यां म्वोः (6.4.107) इत्यस्य प्रसक्तिः नास्ति, अतः उकारस्य लोपः न भवति । ज्ञातव्यम् - वस्तुतः अत्र ‘लुक्’ इत्यस्य अनुवृत्तिम् कर्तुं शक्यते । तथाप्यत्र ‘लोपः’ इति उक्तमस्ति । तस्य कारणमेतत् - प्रत्ययस्य लुक्श्लुलुपः (1.1.61) इत्यनेन ‘लुक्’ सर्वदा सम्पूर्ण-प्रत्ययस्यैव भवति, प्रत्ययस्य अवयवस्य न । परन्तु अत्र ‘श्नु’ इत्यस्य केवलं उकारस्य लोपः इष्यते, नकारस्य न । अतः अत्र ‘लोपः’ इति उक्तमस्ति । एवं क्रियते चेत् अलोऽन्त्यस्य (1.1.52) इत्यनेन अन्तिम-उकारस्य लोपः भवितुमर्हति ।
Sutrartha (English)¶
The उकार which occurs at end of a प्रत्यय is optionally deleted when followed by a मकार / वकार , provided that a संयोग is not present immediately before this उकार.
Vasu English Summary¶
The पु of the विकरण उ and श्नु when not preceded by a conjunct consonant, may be elided optionally before a personal affix beginning with म् or व्।
Vasu English Translation¶
The पु of the विकरण उ and श्नु when not preceded by a conjunct consonant, may be elided optionally before a personal affix beginning with म् or व्। Thus सुन्वः or सुनुवः, सुन्मः, सुनुमः, तन्वः, तनुवः, तन्मः, तनुमः ॥ The उ must belong to the affix, and should not be part of the root. Therefore not in युवः, युमः ॥
Why do we say ‘not preceded by a conjunct consonant’? Observe शक्नुवः, शक्नुमः only. Though the elision word लुक् was understood in this sutra, the mention of लोप indicates that the final is only to be elided, and not the whole affix नु ॥ It is a general maxim that the words लुक्, श्लु and लुप् cause the elision of the whole affix, while ‘lopa’ will cause elision of the final letter only of the affix. If the whole affix be elided, we could not get सुन्वः &c., Moreover, in कुर्व and कुर्म formed by guna of कृ, there would have been no guna, had the word लुक् been used, for (1.1.63), would have prevented guna; but by using the word लोप we have such guna also by (1.1.62).
Kashika¶
योऽयमुकारोऽसंयोगपूर्वस्तदन्तस्य प्रत्ययस्यान्यतरस्यां लोपो भवति वकारमकारादौ प्रत्यये परतः। सुन्वः, सुनुवः। सुन्मः, सुनुमः।तन्वः, तनुवः। तन्मः, तनुमः। प्रत्ययस्येत्येव — युवः। युमः। असंयोगपूर्वस्येत्येव — शक्नुवः, शक्नुमः। लुगिति वर्तमाने लोपग्रहणमन्त्यलोपार्थम्॥
Siddhanta Kaumudi¶
असंयोगपूर्वो यः प्रत्ययोकारस्तदन्तस्याङ्गस्य लोपो वा स्यात् म्वोः परयोः । धिन्वः धिनुवः । धिन्मः । धिनुमः । मिपि तु परत्वाद्गुणः । धिनोमि ॥
Laghu Siddhanta Kaumudi¶
असंयोगपूर्वस्य प्रत्ययोकारस्य लोपो वा म्वोः परयोः। शृण्वः, शृणुवः। शृण्मः, शृणुमः। शुश्राव। शुश्रुवतुः। शुश्रुवुः। शुश्रोथ। शुश्रुवथुः। शुश्रुव। शुश्राव, शुश्रव। शुश्रुव। शुश्रुम। श्रोता। श्रोष्यति। शृणोतु, शृणुतात्। शृणुताम्। शृण्वन्तु॥
Balamanorama¶
लोपश्चास्यान्यतरस्यां म्वोः - लोपश्च ।उतश्च प्रत्ययादेसंयोगपूर्वा॑दिति पूर्वसूत्रोक्त उकारोऽस्येत्यनेन परामृश्यते । प्रत्ययशब्दः प्रत्ययसंबन्धिनि वर्तते । असंयोगपूर्वात् प्रत्ययादिति च उकारे अन्वेति । स च अङ्गस्य विशेषणं । तदन्तविधिः । तदाह — असंयोगेति । प्रत्ययोकारैति । प्रत्ययसंबन्धी उकार इत्यर्थः । ‘प्रत्यय — उकार’ इति व्याख्याने तु सनुनुवः सुनुम इत्यत्र न स्यात्, तत्र श्नोरेव प्रत्ययत्वात् । प्रत्ययेति किम् । युवः । युमः । असंयोगपूर्वादिति किम् । शक्नुवः शक्नुमः । धिन्वः धिनुव इति । अत्र उप्रत्ययस्य उकारान्तत्वं व्यपदेशिवत्त्वेन बोध्यम् । नन्वेवं धिनोमीत्यत्र मिपि धिनु मि इति स्थिते उकारस्य लोपः स्यादित्यत आह — मिपि त्विति । दिदिन्व । धिन्विता । धिन्विष्यति । धिनोतु ।
Tattvabodhini¶
लोपश्चास्यान्यतरस्यां म्वोः - लोपश्चा । यः प्रत्ययोकार इति । असंयोगपूर्वो यः प्रत्यय इति प्रत्ययविशेषणं तु न कृतम्, अक्ष्णुवः अक्ष्णुम इत्यादावनिष्टाऽभावेऽपि अश्नुवहे इत्यादावतिप्रसङ्गात् । एवम्उतश्चे॑ति सूत्रेऽपिअक्ष्णुही॑त्यत्र दोषाऽभावेऽपि अश्नुहीत्यत्रातिप्रसङ्गः स्यादित्यसंयोगपूर्वेति प्रत्ययविशेषणं तु कृतमत्याहुः ।अश्नुही॑ति परस्मपैदं यद्यपि लोके दुर्लभं, तथापि वेदाभिप्रायेण तत्प्रयोगस्य साधुत्वं बोध्यम् ।आप्नुहीटति पाठस्तूतिः ।
Padamanjari¶
अस्येत्यनेनोकारान्तः प्रत्ययः प्रत्यवमृश्यते । अस्येत्यनुच्यमाने म्वोः इति षष्ठ।लश्रयणे न म्वोरेव लोपो विज्ञायेत । एवं च उतश्च प्रत्ययादसंयोगपूर्वात् इति पञ्चमी न बाधिता भवति । लुगिति वर्तमाने इत्यादि । यदि हि प्रकृत एव लुक् क्रियेत, सर्वस्यैव प्रत्ययस्य स्यात् । लुगादयः सर्वादेशः इति संज्ञाविधाववोचाम् । एसर्वस्य लोपे कृते सुन्वः, सुनुव इति न सिध्येत् । तस्मादन्त्यस्य लोपार्थं लोपग्रहणम् । किञ्च - कुर्वः , कुर्म इत्यत्र लुकि सति गुणो न स्यात् न लुमताङ्गस्य इति प्रतिषेधात् । लोपे तु सति भवति ॥
Nyaas¶
योऽयमुकारोऽसंयोगपूर्वः इति। एतेनास्येत्यनेन प्रकृत उकारः प्रत्यवमृश्यत इति दर्शयति। ननु च अतः (6.4.106) इत्यनुवृत्तेरुकारस्यैव लोपो विज्ञास्यते, तत्किम्? अस्य इत्यनेन? षष्ठीप्रकॢप्त्यर्थमस्येत्येतदिति चेत्? न; म्वोः इत्येषैव हि सप्तम्यकृतार्था उतः इत्यस्याः पञ्चम्याः पूर्वयोगे कृतार्थायाः षष्ठीत्वं प्रकल्पयिष्यति, तस्मिन्निति निर्दिष्टे पूर्वस्य (1.1.66) इति वचनात्। स्यादेतत्। यदि म्वोः इत्येषा सप्तमी विज्ञायते, एतदेव तु न विज्ञायते -किमियं षष्ठी उत सप्तमीति? तस्मात्? षष्ठीप्रकॢप्यर्थमस्येत्युक्तम्। लुगित्त्यनुवर्तमाने इत्यादि। यदि प्रकृत एव लुक्? क्रियते तदा सर्वस्यैव प्रत्ययस्य लुक्? स्यात्, नान्त्यस्य; यतः प्रत्ययादर्शनस्य लुगित्येषा संज्ञा विहिता, न तु प्रत्ययावयवस्यादर्शनस्य। सर्वस्य तु लुकि कृते सुन्वः सुन्मः इति न सिध्यति? लोपग्रहणाददोषः। तत्र ह्रुकारमात्रस्य लोपः अलोऽन्त्यस्य (1.1.52) इति वचनात्। तस्मादन्त्यस्य लोपार्थं लोपग्रहणम्। किञ्च कुर्वः कुमं इत्यत्र गुणो लुकि सति न स्यात्; न लुमताङ्गस्य (1.1.63) इति प्रत्ययलक्षणाप्रतिषेधात्। लोप#ए तु सति भवति। ततो गुणार्थमपि लोपग्रहणं कर्तव्यम्॥
Prakriyasarvasvam¶
षुञ् अभिषवे । ‘स्वादिभ्यः श्नुः’ इति श्नुः । सुनोति । ङित्सु श्नोर्न गुणः । सुनुतः ‘हुश्नुवोः—’ इति यण् । सुन्वन्ति । सुनोषि । सुनुथः । सुनुथ । सुनोमि । म्वोः परयोः असंयोगपूर्वोकारान्तस्य प्रत्ययस्य वा लोपः स्यात् । अत्रान्त्यस्य लोपः । सुन्वः, सुनुवः । सुन्मः, सुनुमः । तङि सुनुते । सुन्वाते । सुन्वते । सुनुषे । सुनुध्वे । सुन्वे । सुन्वहे, सुनुवहे । सुन्महे, सुनुमहे । कर्मणि सूयते । लिङि सुनुयात् । सुनुयाताम् । सुनुयुः । सुन्वीत । सुन्वीयाताम् । सुन्वीरन् । सुन्वीथाः । सुन्वीध्वम् । सुन्वीय । सुन्वीवहि । लोटि सुनोतु, सुनुतात् । सुनुताम् । सुन्वन्तु । ‘उतश्च प्रत्ययात्—’ इति हेर्लुक् । सुनुः सुनुतात् । सुनुतम् । सुनुत । आटि गुणः । सुनवानि । सुनवाव । सुनुताम् । सुन्वाताम् । सुन्वताम् । सुनुष्व । सुनुध्वम् । सुनवै । सुवावहै । लङि असुनोत् । असुनुताम् । असुन्वन् । असुनोः । असुनुतम् । असुनवम्, असुन्व, असुनुव । असुन्म, असुनुम । असुनुत । असुन्वाताम् । असुन्वत । असुनुथाः । असुनुध्वम् । असुन्वि । असुन्वहि, असुनुवहि । लुङि ‘सुस्नुवुवा’मिति कौमुदीमतेन वेट् । असावीत् । असाविष्टाम् । असोषीत्, असौष्टाम् । तङि असविष्ट । असविषाताम् । असविद्वम्, असविध्वम् । असोष्ट । असोषाताम् । असोढ्वम् । कर्मणि चिण्वत्त्वं चोह्यम् । लिटि आदेशसत्वात् षः । सुषाव । सुषुवतुः । सुषविथ, सुपोष । सुषुवथुः । सुषुव । सुषाव, सुषव । सुषुविव । सुषुवे । सुषुवाते । सुषुविषे । सुषुविट्वे, सुषुविध्वे । सुषुविवहे । आशिषि सूयात् । सविषीष्ट, सोषीष्ट । सविषीढ्वम्, सविषीध्वम् । सोषीढ्वम् । सोषीध्वम् । लुटि सविता, सोता । सविष्यति, सोष्यति । सविष्यते, सोष्यते । ‘उपसर्गात्सुनोति—’ इति षः । अभिषुणोति । ‘प्राक्सितादड्व्यवायेऽपि’ । अभ्यषुणोत् । अभ्यषौषीत् ।