Sutras 1 - 20¶
- 61001: एकाचो द्वे प्रथमस्य
- 61002: अजादेर्द्वितीयस्य
- 61003: न न्द्राः संयोगादयः
- 61004: पूर्वोऽभ्यासः
- 61005: उभे अभ्यस्तम्
- 61006: जक्षित्यादयः षट्
- 61007: तुजादीनां दीर्घोऽभ्यासस्य
- 61008: लिटि धातोरनभ्यासस्य
- 61009: सन्यङोः
- 61010: श्लौ
- 61011: चङि
- 61012: दाश्वान् साह्वान् मीढ्वांश्च
- 61013: ष्यङः सम्प्रसारणं पुत्रपत्योस्तत्पुरुषे
- 61014: बन्धुनि बहुव्रीहौ
- 61015: वचिस्वपियजादीनां किति
- 61016: ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च
- 61017: लिट्यभ्यासस्योभयेषाम्
- 61018: स्वापेश्चङि
- 61019: स्वपिस्यमिव्येञां यङि
- 61020: न वशः