61018: स्वापेश्चङि

Padacheda: स्वापेः | S | 6 | 1 |

चङि | S | 7 | 1 |

Sutrartha


Vasu English Summary

Of the causative verb स्वपि ‘to cause one to sleep’, there is vocalisation of the semi-vowel, when the affix चङ् of the Reduplicated Aorist follows.

Vasu English Translation

Of the causative verb स्वपि ‘to cause one to sleep’, there is vocalisation of the semi-vowel, when the affix चङ् of the Reduplicated Aorist follows. Thus the Aorist of स्वपि is असूषुपत्, असूषुपताम्, असूषुपन् ॥ The vocalisation takes place before reduplication, then there is guna of the penultimate short vowel, then this is again shortened by (7.4.1), then there is reduplication, and then lengthening of the vowel of the reduplicate by (7.4.94). Thus स्वापि + चङ् = सुपि + चङ् = सुप् (6.4.51) + चङ् (7.3.86) = सोप् + चङ् = सुप् + चङ् (7.4.1) = सु + सुप् + चङ् (6.1.11) = सूषुपत् (7.4.94) which with the augment अ becomes असूषुपत् ॥

Why do we say ‘when चङ् follows’? Observe स्वाप्यते, स्वापितः ॥ The anuvritti of किति has ceased, that of ङिति however is here.

Bhashya

स्वापेश्चङि (2455) चङ्ग्रहणं शक्यमकर्तुम् । कथम् ? ङितीति वर्तते । न चान्यः स्वापेर्ङिदस्ति, अन्यदतश्चङः ॥

Kashika

स्वापेरिति स्वपेर्ण्यन्तस्य ग्रहणम्, तस्य चङि परतः संप्रसारणं भवति। असूषुपत्, असूषुपताम्, असूषुपन्। द्विर्वचनात् पूर्वमत्र संप्रसारणम्, तत्र कृते लघूपधगुणः, तस्य णौ चङ्युपधाया ह्रस्वत्वम् (७.४.१) ततो द्विर्वचनम्, दीर्घो लघोः (७.४.९४) इति दीर्घत्वम्। चङीति किम्? ॒स्वाप्यते। स्वापितः। कितीति निवृत्तम्, ङितीति केवलमिहानुवर्तत इत्येतद् दुर्विज्ञानम्॥

Siddhanta Kaumudi

ण्यन्तस्य स्वापेश्चङि संप्रसारणं स्यात् । असूषुपत् ॥

Balamanorama

स्वापेश्चङि - स्वापेश्चङि । संप्रसारणमिति ।ष्यङः संप्रसारण॑मित्यतस्तदनुवृत्तेरिति भावः । असू षुपदिति । संप्रसारणं तदाश्रयं चकार्यं बलव॑दिति वचनात्कृते संप्रासरणेद्वित्वं पूर्वरूपं सन्वत्तवदीर्घौ षत्वमिति भावः ।

Tattvabodhini

स्वापेश्चङि - स्वापेश्चङि । चङि किम् । स्वापयति । असूषुपदिति । इह संप्रसारणोत्तरं द्वित्वम् ।

Padamanjari

स्वापेर्ण्यन्तस्य ग्रहणमिति। आप्रनोतेस्तु सुपूर्वस्य ग्रहणं न अण्यन्तस्य; चङेऽसम्भवात्। ण्यन्तस्यापि न भवति;’धातोः’ इत्यधिकारात्। स्वाप्यत इति। कर्मणि लट्, णिलोपः। स्वापित इति।’निष्ठायां सेटि’ इति णिलापः ननु च’ग्रहिज्या’ इत्यादिसूत्रान्ङ्तीत्यिनुवर्तिष्यते, न चान्यः स्वापेर्ङ्दिस्ति, यङ् तावदनेकाच्त्वन्नास्ति, अपित्सार्वधातुकं तु विकरणैर्व्यवहितम्, अङदयस्त्वविहिता एव? तत्राह - ङ्तीइति केवलमित्यादि। ननु कितीत्येतच्चानुकृष्ट्ंअ पूर्वसूत्र इति नेहानुवर्तिष्यते, किमर्थं दुर्ज्ञानं ङ्द्ग्रिहणम्? ङ्द्ग्रिहणमपि तर्हि पूर्वसूत्रे नानुवर्तते; लिटो ङितोऽसम्भवादिति तस्येहानुवृत्तिर्दुर्विज्ञाना ॥

Nyaas

स्वापेः इति। आप्लृ व्याप्तौ (धातुपाठः- 1260) इत्यस्यापि सुपर्वस्येका निर्देशः सम्भवति, अतस्तद्ग्रहणाशङ्कानिराकरणायाह - स्वपेण्र्यन्तस्य ग्रहणम् इति। ण्यन्तस्य ग्रहणं चङ्ग्रहणाद्विज्ञायते, न ह्रण्यन्ताच्चङ्? सम्भवति। असूषुपत् इति। हेतुमति च (3.1.26) इति णिच्। द्विर्वचनात् पर्वमत्र सम्प्रसारणम् इति। परत्वात्। स्वाप्यते इति। कर्मणि लकारः, सार्वधातुके यक् (3.1.67) । स्वापितम् इति। निष्ठायां सेटि (6.4.52) इति णिलोपः। ननु च ग्रह्रादि (6.1.16) सूत्रात्? ङितोत्यनुवर्तते, न च स्वापेश्चङोऽन्यो ङिदस्ति, तत्र सामर्थ्याचचङ्येव भविष्यतीति न कर्तव्यमेव चङ्ग्रहणम्? इत्यत आह - ङितिति केवलम् इत्यादि। ग्रह्रादिसूत्रे ह्रुभयं सन्निहितम् - किद्ग्रहणम्, ङिद्ग्रहणञ्च, तत्रोभयोरविशेषेण सन्निधाने ङिद्ग्रहणमेवानुवर्तते, न किद्ग्रहणमिति मन्दधिया दुर्बोधम्। अतः सुखप्रतिपत्त्ये मन्दबुद्धेश्चङ्ग्रहणं क्रियत इति भावः॥

Prakriyasarvasvam

अत्यादिरादन्तानां च णौ परे पुगागमः स्यात् । ऋ गतौ । ‘पुगन्त-’ (७-३-८६) इति गुणः । अर्पयति । चङि रेफस्य द्वित्वाभावात् सणिच्चस्य पिशब्दस्य द्वित्वम् । आर्पिपत् । प्राग्वद् गुणः । ह्रेपयति । चङि उपधाह्रस्वः । अजिह्रिपत् । व्लेपयति । अविव्लिपत् । व्रीति केचित् । व्रेपयति । अविव्रिपत् । ह्री वरणार्थे । रीङ् स्रवणे, री गतिरेषणयोः । रेपयति । अभ्यासस्य लघुत्वाद् दीर्घः । अरीरिपत् । क्नूयी शब्दे उन्दे च । यलोपः, गुणः । क्नोपयति । अचुक्नुपत् । क्षमायीत विधूनने यलोपः । क्षमापयति । अचिक्षमपत् । आदन्तानाम् दापयति, अदीदपत् । स्थापयति । ह्रापयति । णौ चङि तिष्ठतेरुपधाया इत् स्यात् । स्थानिवत्त्वाद् द्वित्वम् । सन्वद्वित्त्वम् । अतित्थिपत् ।

Sutra Prayogas

  • असूषुपत् (भट्टिकाव्यम्): स्वापेश्चङि इति सम्प्रसारणम्।