61016: ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च

Padacheda: ग्रहि-ज्या-वयि-व्यधि-वष्टि-विचति-वृश्चति-पृच्छति-भृज्जतीनाम् | S | 6 | 3 |

ङिति | S | 7 | 1 |

च | S | 0 | 0 |

Sutrartha


Vasu English Summary

There is vocalisation of the semi-vowels of the following verbs, when an affix having an indicatory क् or ङ् follows - ग्रह ‘to take’, ज्या ‘to become old’, वेञ् ‘to weave’, व्यध ‘to strike’, वश ‘to shine’, व्यच ‘to deceive’, व्रश्च ‘to cut’, प्रच्छ ‘to ask’ and भ्रस्ज ‘to cook, to fry’.

Vasu English Translation

There is vocalisation of the semi-vowels of the following verbs, when an affix having an indicatory क् or ङ् follows - ग्रह ‘to take’, ज्या ‘to become old’, वेञ् ‘to weave’, व्यध ‘to strike’, वश ‘to shine’, व्यच ‘to deceive’, व्रश्च ‘to cut’, प्रच्छ ‘to ask’ and भ्रस्ज ‘to cook, to fry’. By force of the word ‘च’ ‘and’, the anuvritti of किति is read into this sutra. Thus 1. ग्रह — गृहीतः, गृहीतवान् (by क्त and क्तवतु), गृह्णाति (1.2. 4), जरीगृह्यते (by यङ of the Intensive). 2. ज्या - जीनः, जीनवान् (8.2.44) त changed to न), जिनाति (1.2. 4), the short इ is lengthened by (6.4.2) and is shortened again by (7.3.80). जेजीयते (यङ्), 3. वयि - The root वेञ् is replaced by वय when लिट् follows (2.4.41). This वयि can have no ङित् affix after it, it takes only लिट् terminations, which as we know are कित् (1.2.5). The examples, therefore given will be of कित् affixes only. Thus ऊयतुः, ऊयतुः ॥ Now arises this question ‘why do you enumerate वयि, for is not वेञ् (for which वयि is substituted) already included in यजादि class of verbs given in the last sutra, and by force of that sutra, वयि will get samprasarana before कित् affixes”. The reply is “वयि is numerated here in order to show that the prohibition of samprasarana with regard to वेञ् as taught in (6.1.40), does not apply to its substitute वयि in the Perfect Tense”. Thus while the Perfect of वेञ् is ववौ, ववतुः, ववुः, the Perfect of its substitute वयि is ऊवाय, ऊयतुः and ऊयुः ॥ More over (6.1.38) teaches that the य of वय is not vocalised in लिट् affixes, which therefore, implies jnapaka) that the other semivowel i. e. व of वय will be vocalised. 4. व्यध - विद्धः, विद्धवान्, and with ङित् affixes विध्यति, वेविध्यते ॥ 5. वश - उशितः, उशितवान्, and with ङित् affixes उष्टः, उशन्ति ॥ 6. व्यचः - विचितः, विचितवान् विचति, वेविच्यते ॥ By a Vartika under (1.2.1), the word व्यच is considered to belong to कुटादि class, and therefore all affixes after it, other than those having an indicatory ण्, ञ् or the affix अस्, are considered as ङित्, and therefore, there will be samprasarana before these affixes : as, उद्विचिता, उद्विचितुम्, उद्विचितव्यम् ॥ 7. वृश्च — वृकणः, वृकणवान् ॥ How is the final च् of व्रश्च changed into क्, for by (8.2.36) च ought to have been changed into ष before the झलादि affix क्त ? To this we reply the affix क्त is replaced by न (7.2.42) and as this न is not a झलादि affix, Rule (8.2.36) does not apply. This is done on the following maxim: “The substitute of the Nishtha should be considered to be siddha or effective when applying the rules relating to the change of a letter into ष, to accent, to affix, and to the addition of the augment इट्”. But when च is to be changed into क, the substitute is considered asiddha (not to have taken place). Thus we have the forms वृकणः &c. Before ङित् affixes we have वृश्चति, वरीवृश्च्यते ॥ 8. प्रच्छ - पृष्टः (8.2.36), पृष्टवान्, ङित् -पृच्छति, परीपृच्छ्यते ॥ The forms पप्रच्छ and बभ्रञ्ज would have been evolved by the simple rules of Reduplication even, without the application of this rule. But प्रच्छ+ नङ् (3.3.90) प्रश्नः ॥ Here there is no vocalisation, because Panini himself uses the word प्रश्नः in sutra (3.2.117) showing that this is the proper form though irregular. 9. भ्रस्ज - भृष्टः (7.2.36), भृष्टवान्, ङित् — भृञ्जति, बरीभृञ्ज्यते ॥ The स of भ्रस्ज is changed first into द by झलां जश् झशि (8.4.53), and then द is changed into ज by स्तोः श्चुना श्चुः (8.4.40).

Bhashya

ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च (245) (पदकृत्यभाष्यम्) वयिग्रहणं किमर्थं न वेञ् यजादिषु पठ्यते, वेञ्ञश्च वयिरादेशः क्रियते ? तत्र यजादीनां कितीत्येव सिद्धम् । तत्रैतत्स्यात् - ङिदर्थोऽयमारम्भ इति । तच्च न । लिट्यमादेशः, लिट् च किदेव ॥ अत उत्तरं पठति - (6024 पदकृत्यवार्तिकम् ॥ 1 ॥) - वयिग्रहणं वेञ्ञः प्रतिषेधात् - वयिग्रहणं क्रियते, वेञ्ञः प्रतिषेधात् । वेञ्ञो लिटि प्रतिषेधं वक्ष्यति, स वयेर्मा भूदिति ॥ यथैव हि वेञ्ञ्ग्रहणाद्विधिः प्रार्थ्यते एवं प्रतिषेधोऽपि प्राप्नोति ॥ (6025 आक्षेपवार्तिकम् ॥ 2 ॥) - न वा यकारप्रतिषेधो ज्ञापकोऽप्रतिषेधस्य - न वा एष दोषः । किं कारणम् ? यदयं लिटि वयो यः (6.1.38) इति वयेर्यकारस्य संप्रसारणस्य प्रतिषेधं शास्ति तज्ज्ञापयत्याचार्यः - न वेञ्ञ्ग्रहणाद्वयेः संप्रसारणप्रतिषेधो भवतीति ॥ नैतदस्ति ज्ञापकम्, पित्यभ्यासार्थमेतत्स्यात् । वयेः पित्सु वचनेष्वभ्यासयकारस्य संप्रसारणं मा भूदिति । ननु च वेञ्ञ्ग्रहणादेव वयेः पित्स्वपि वचनेष्वभ्यासयकारस्य संप्रसारणप्रतिषेधः सिद्धः । न सिध्यति । किं कारणम् ? कितीति तत्रानुवर्तते ॥ एवमपि वयेः पित्सु वचनेष्वभ्यासस्य यकारस्य संप्रसारणं न प्राप्नोति । किं कारणम् ? हलादिः शेषेण बाध्यते । नात्र हलादिः शेषः प्राप्नोति । किं कारणम् ? वक्ष्यति ह्येतत् - अभ्याससंप्रसारणं हलादिशेषाद्विप्रतिषेधेनेति ॥ स एष वयेर्यकारस्य संप्रसारणप्रतिषेधः पित्यभ्यासार्थः, न ज्ञापकार्थो भवति ॥ (6026 समाधानवार्तिकम् ॥ 3 ॥) - पित्यभ्यासार्थमिति चेन्नाविशिष्टत्वात् - पित्यभ्यासार्थमिति चेत् तन्न । किं कारणम् ? अविशिष्टत्वात् । अविशेषेण प्रतिषेधः, निवृत्तं तत्र कितीति । आतश्चाविशेषेण वेञ्ञोऽपि हि पित्सु वचनेष्वभ्यासस्य संप्रसारणं नेष्यते - ववौ, वविथेति । विकृतिग्रहणं खल्वपि प्रतिषेधे क्रियते, न च विकृतिः प्रकृतिं गृह्णाति ॥

Kashika

ग्रह उपादाने , ज्या वयोहानौ, वेञो वयिः (२.४.४१), व्यध ताडने , वश कान्तौ, व्यच व्याजीकरणे, ओव्रश्चू छेदने, प्रच्छ ज्ञीप्सायाम् , भ्रस्ज पाके इत्येतेषां धातूनां ङिति प्रत्यये परतश्चकारात् किति च संप्रसारणं भवति। ग्रह — गृहीतः। गृहीतवान्। ङिति — गृह्णाति। जरीगृह्यते। ज्या — जीनः। जीनवान्। ल्वादिभ्यः (८.२.४४) इति निष्ठानत्वम्। ङिति — जिनाति। जेजीयते। हलः (६.४.२) इति संप्रसारणदीर्घे कृते प्वादीनां०**(७.३.८०) इति ह्रस्वः क्रियते। वयि — लिटि परतो **वेञो वयिः (२.४.४१) आदेशस्तस्य ङिदभावात् किदेवोदाह्रियते। ऊयतुः। ऊयुः। यद्येवं वयिग्रहणमनर्थकम्, यजादिषु वेञ् पठ्यते। नैवं शक्यम्। लिटि तस्य वेञः (६.१.४०) इति प्रतिषेधो वक्ष्यते। तत्र यथैव स्थानिवद्भावाद् वयेर्विधिरेवं प्रतिषेधोऽपि प्राप्नोति? नैष दोषः। लिटि वयो यः (६.१.३८) इति यकारस्य संप्रसारणप्रतिषेधाद् वयेर्विधौ ग्रहणं प्रतिषेधे चाग्रहणमनुमास्यते। सत्यमेतत्। एष एवार्थः साक्षाद् निर्देशेन वयेः स्पष्टीक्रियते। व्यध — विद्धः। विद्धवान्। ङिति — विध्यति। वेविध्यते। वश — उशितः। उशितवान्। ङिति — उष्टः। उशन्ति। व्यच — विचितः। विचितवान्। ङिति — विचति। वेविच्यते। व्यचेः कुटादित्वमनसि (१.२.१ वा०) प्रतिपादितम्। तेन सर्वत्राञ्णिति प्रत्यये संप्रसारणं भवति — उद्विचिता। उद्विचितुम्। उद्विचितव्यमिति। व्रश्चेः — वृक्णः। वृक्णवान्। अथ कथमत्र कुत्वम्, व्रश्चभ्रस्ज० (८.२.३६) इति हि षत्वेन भवितव्यम् ? निष्ठादेशः षत्वस्वरप्रत्ययविधीड्विधिषु सिद्धो वक्तव्यः (८.२.३ वा०)। तत्र षत्वं प्रति नत्वस्य सिद्धत्वाद् झलादिर्निष्ठा न भवति। कुत्वे तु कर्तव्ये तदसिद्धमेवेति प्रवर्तते कुत्वम्। ङिति — वृश्चति। वरीवृश्च्यते। प्रच्छ — पृष्टः। पृष्टवान्। ङिति — पृच्छति। परीपृच्छ्यते। प्रश्नः। नङि तु प्रश्ने चासन्नकाले (३.२.११७) इति निपातनादसंप्रसारणम्। भ्रस्ज — भृष्टः। भृष्टवान्। ङिति — भृज्जति। बरीभृज्ज्यते। सकारस्य झलां जश् झशि (८.४.५३) इति जश्त्वेन दकारः, स्तोः श्चुना श्चुः (८.४.४०) इति श्चुत्वेन जकारः॥

Siddhanta Kaumudi

एषां किति ङिति च संप्रसारणं स्यात् । इति यकारस्य प्राप्ते ॥

Laghu Siddhanta Kaumudi

एषां सम्प्रसारणं स्यात्किति ङिति च। विध्यति। विव्याध। विविधतुः। विविधुः। विव्यधिथ, विव्यद्ध। व्यद्धा। व्यत्स्यति। विध्येत्। विध्यात्। अव्यात्सीत्॥ {$ {! 10 पुष !} पुष्टौ $} (धातुपाठे (04.0079)) ॥ पुष्यति। पुपोष। पुपोषिथ। पोष्टा। पोक्ष्यति। पुषादीत्यङ्। अपुषत्॥ {$ {! 11 शुष !} शोषणे $} (धातुपाठे (04.0080))॥ शुष्यति। शुशोष। अशुषत्॥ {$ {! 12 णश !} अदर्शने $} (धातुपाठे (04.0091)) ॥ नश्यति। ननाश। नेशतुः॥

Balamanorama

ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छति- भृज्जतीनां ङिति च - ग्रहिज्या । चकारेणवचिसवपियजादीना॑मित्यतः कितीति समुच्चीयते ।ष्यङः संप्रसारण॑मित्यनुवर्तते ।तदाह — एषामित्यादि । अत्र परस्मैपदिग्रह्रादिसाहचर्यात् ‘अय वय पय [गतौ]’ इति पठितस्यात्मनेपदिनो वयेर्न ग्रहणम् । यजादित्वादेव वयेः संप्रसारणे सिद्धे अत्र वयग्रहणं स्पष्टार्थमिति भाष्ये स्पष्टम् [इति] यकारस्य प्राप्ते इति ।न संप्रसारणे संप्रसारण॑मिति लिङ्गादन्त्यस्य यणः पूर्वं संप्रसारणमिति विज्ञानाद्यकारस्य संप्रसारणे प्राप्ते सतीत्यर्थः ।

Tattvabodhini

ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छति- भृज्जतीनां ङिति च - ग्रहिज्यावयि । गृह्णाति । गृह्णीतः । जिनाति । जिनीतः । जीनः । ङिति वयेरुदाहरणं नास्ति । किति तुवचिस्वपियजादीना॑मिति सिद्धम्, यजादिषु वेञः पाठात् । अत एवाऽभ्याससंप्रसारणमपि सिद्धम् ।वेञ॑ इति संप्रसारणनिषेधस्तुलिटि वयो य॑ इति निषेधारम्भान्न प्रवर्तते । तस्माद्ग्रहिज्यादिषु वयिग्रहणं स्पष्टार्थमेवेति बोध्यम् ।

Padamanjari

गृहीतः, यद्यपि प्रथमं ङिति प्रत्यये परतः सम्प्रसारणं चकारात्किति चेति क्रमो व्याक्यातः, तथाप्यनास्थया प्रथमं कित्युदाहृतम्। विजादेशो गृह्यत इति। पूर्वपरसाहचर्याद्यस्य वपेः परस्मैपदसंभवस्तस्य ग्रहणं न्याय्यम्, यस्तु ठय वच गतौऽ इति वयिः, सोऽनुदातेदात्मनेपदी। यद्येवमिति। वेञादेशस्य ग्रहणमित्यर्थः। यजादिषु वेञ् पठ।ल्त इति। ततश्च पूर्वेणैव सम्प्रसारणं सिद्धिमिति भावः। नैवं शक्यमिति। विज्ञातुमिति शेषः। नानयोपपत्या वयिग्रहणमनर्थकं शक्यं विज्ञातुमित्यर्थः। एवं प्रतिषेधोऽपि प्राप्नोतीति। नात्राविशब्देन समुच्चय उच्यते, किं तर्हि? यथा स्थानिवद्भावाद्विधिः प्राप्यते, तथा प्रतिपेधोऽपि प्राप्नोति, तत्रापि स्तानिवद्भावस्य तुल्यत्वात् इति हेतोस्तुल्यत्वमपिशब्देन द्योत्यते, तेन प्रतिषेध एव भवेदित्यर्थः। उष्ट इति। तसन्तम्। व्यधिर्दिवादिः, व्यचिप्रभृतयस्तुदादयः। वृक्ण इति।’स्कोः संयोगाद्योः’ इति सलोपः, पूर्ववन्निष्ठानत्वम्। वरीवृश्च्यत इत्यादौ रीगृत्वतःऽ इति रीग्भावः ॥

Nyaas

गृहीतम् इति। ग्रहोऽलिटि (7.2.37) इति दीर्घः। जरीगृह्रते इति। यङि सम्प्रसारणं द्विर्वचनम्। रीगृदुपधस्य (7.4.90) इति रीगागमः। वयिरयमस्त्येवात्मनेपदी -अय वय गतौ (धातुपाठः-474,475) अस्ति च परस्मैपदी -`वेत्रो वयिः (2.4.42) इति; तत्र ग्रह्रादिभिरनात्मनेपदिभिः साहचर्यादनात्मनेपदी गृह्रते? इत्याह -वयिर्लिटि इत्यादि। तस्माच्च परस्य लिटः असंयोगाल्लिट्? कित् (1.2.5) इति कित्त्वेन भवितव्यम्? इत्यत आह -तस्य इत्यादि। यद्येवम् इति। यदि वेञादेशस्य वयेग्र्रहणमित्यर्थः। यजादिषु वेञ्? पठते इति। ततश्च पूर्वसूत्रेणैव तस्य स्थानिवद्भावात्? सम्प्रसारणं सिद्धमित्यभिप्रायः। नैवं शक्यम् इति। विज्ञातुमिति शेषः। नानयोपपत्त्या वयिग्रहणमनर्थकं शक्यं विज्ञातुमित्यर्थः। किं कारणम्? इत्याह -लिटि तस्य इत्यादि। स्यादेतत् -विधिप्रतिषेधयोर्विरोधादेकत्र विधिरेव भविष्यति, न प्रतिषेध इति? अत आह -अत्र यतैव इत्यादि। स्यादेतत् -विधिप्रतिषेधयोर्विरोधादेकत्र विधिरेव भविष्यति, न प्रतिषेध इति? अत आह -अत्र यथैव इत्यादि। यदि विरोधादेकत्रासम्भवः, पर्यायोऽस्तु, न तु द्वयोरन्यत्र चरितार्थत्वादेकेनैव भवितव्यम्। नापरेणेत्येषोऽर्थो लभ्यत इति भवाः। नैष दोषः इति। कथं नैष दोषः? इत्यत आह -लिटि इत्यादि। लिटि वयो यः इति यकारस्य सम्प्रसारणप्रतिषेधो लिङ्गम् -विधो वेञोग्रहणेन वयिग्रहणं भवतीत्यस्यार्थस्य। असति विधौ ग्रहणे प्राप्तेरसम्भवात्? प्रतिषेधोऽनर्थकः स्यात्। वेञ इत्यत्र प्रतिषेधे वयेग्र्रहणं न भवतीति अत्राप्येतदेव प्रतिषेधवचनं लिङ्गम्। सति हि वेञ्ग्रहणे वेञ इत्यनेनैव प्रतिषेधस्य सिद्धत्त्वात्, पनः लिटि वयो यः (6.1.38) इति। अनन्तरोक्तमर्थमभ्यनुजानाति। यदि सत्यमेतत्, तर्हि किमर्थं वयिग्रहणम्? इत्याह -एष एव इत्यादि। तेन स्पष्टीकरणार्थं वयिग्रहणमित्याचष्टे। विध्यति इति। दिवादित्वाच्छ्यन्। उष्टः इति। तसन्तमेतत्, अदादित्वाच्छपो लुक्? व्रश्चादिसूत्रेण (8.2.36) षत्वम्, ष्टुत्वम्। विचति इति। तुदादित्वाच्छः।वृक्ण इति पूर्ववन्नत्वम्, स्कोः (8.2.29) इति सलोपः। झलादिर्निष्ठा न भवति इति। तेनात्र षत्वं न भवतीति भावः। झलाचौ हि तद्विधीयते; झलो झलि (8.2.26) इत्यतो झल्ग्रहणानुवृत्तेः। कृत्वे तु कर्तव्ये तदसिद्धमेव इति। न हि यथा षत्वादौ निष्ठादेशस्य सिद्धत्वमुच्यते, तथा कुत्वेऽपि, तेन तत्? प्रवर्तत एव। वृश्चति इति। पूर्ववच्छः। वरीवृश्च्यते इति। रीगृत्वत इति वक्तव्यम् (वा।880) इति रीगागमः। पृष्टः इति। पूर्ववत्? षत्वम्। यजयाच (3.3.90) इत्यादिना नङि विहिते प्रश्न इत्यत्र सम्प्रसारणं कस्मान्न भवति? इत्यत आह -नङि इत्यादि। भृष्टः इति। पूर्ववत्? षत्वम्। भृज्जति इति। पूर्ववच्छः। बरीभृज्यते इति। पूर्ववद् रीक्। सकालस्य इत्यादि। ननु स्खोः संयोगाद्योरन्ते च` (8.2.29) इति तस्य लोपेन भवितव्यम्?? नैतदस्ति; झलि पदान्ते च स उच्यत इति॥

Prakriyasarvasvam

‘फेनाच्चेति वाच्यम्’ (वा) । बाष्पमुद्वमति बाष्पायते । ऊष्मायते । फेनायते ।

Sutra Prayogas

  • परस्यमर्मविधमुज्झतां (शिशुपालवधम्): ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च इति संप्रसारणम्।

  • विद्धः (शिशुपालवधम्): ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च इति संप्रसारणम्।

  • निजिघृक्षयिष्यन् (भट्टिकाव्यम्): ग्रहिज्यावयिव्यधिवष्टिविचिवृश्चिप्रच्छिभृज्जीनां सम्प्रसारणं च इत्यादिना संप्रसारणम्।

  • अगृह्णात्स (भट्टिकाव्यम्): ग्रहि ज्या इत्यादिना सम्प्रसारणम्।

  • मृगावित् (भट्टिकाव्यम्): ग्रहि - ज्या इत्यादिना सम्प्रसारणम्।

  • विजिघृक्षु (भट्टिकाव्यम्): ग्रहि- ज्या इत्यादिना संप्रसारणम्।

  • हृदयाविधम् (भट्टिकाव्यम्): ग्रहि ज्या इत्यादिना संप्रसारणम्।

  • विजिघृक्षून्समागतान् (भट्टिकाव्यम्): ग्रहि-ज्या इति संप्रसारणं ढत्व-कत्व - पत्वानि।

  • वृक्णैः (भट्टिकाव्यम्): ग्रहि-ज्या इत्यादिना सम्प्रसारणम्।

  • भल्लैरविध्यन्नुग्राऽग्रै (भट्टिकाव्यम्): ग्रहि-ज्या इति सम्प्रसारणम्।

  • **** (भट्टिकाव्यम्): ग्रहिज्यावयधिव्यष्टिसञ्चतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च इत्यादिना सम्प्रसारणम्।