61014: बन्धुनि बहुव्रीहौ

Padacheda: बन्धुनि | S | 7 | 1 |

बहुव्रीहौ | S | 7 | 1 |

Sutrartha


Vasu English Summary

There is vocalisation of the affix ष्यङ् (4.1.78) when the word बन्धु follows in a बहुव्रीही compound.

Vasu English Translation

There is vocalisation of the affix ष्यङ् (4.1.78) when the word बन्धु follows in a बहुव्रीही compound. Thus कारीषगन्ध्याबन्धुरस्य = कारीषगन्धीबन्धुः ॥ So also कौमुदगन्धीबन्धुः ॥

Why do we say “when the compound is a Bahuvrihi”? Observe कारीषगन्ध्याया बन्धुः = कारीषगन्ध्याबन्धुः, which is a Tatpurusha compound. Like the last sutra, we have here also परमकारीषगन्धबन्धुः, but अतिकारीषगन्ध्याबन्धुः, कारीषगन्ध्याबन्धुधनः, कारीषगन्ध्यापरमबन्धुः ॥

Though the word बन्धुनि is exhibited in the sutra in the neuter gender, it is in fact a masculine word.

Vart:- There is vocalisation of ष्यङ् in a Bahuvrihi compound with मातच्, मातृक and मातृ optionally: as कारीषगन्धीमातः꣡ or कारीषगन्ध्यामातः꣡, कारीषगन्धीमातृकः or कारीषगन्ध्यामातृकः, कारीषगन्धीमाता, कारीषगन्ध्यामाता ॥ The indicatory च of मातच् makes the word take the udatta on the last syllable (6.1.163), thus debarring the especial accent of the Bahuvrihi (VI.2. I). All Bahuvrihi compounds ending in ऋ take the samasanta affix कप्, so मातृ would have become मातृक by force of (5.4.153), so the separate enumeration of मातृ and मातृक here shows that कप् is also optional.

Bhashya

बन्धुनि बहुव्रीहौ (245) (उपसंख्यानभाष्यम्) मातज्मातृकमातृषु ष्यङ् प्रसार्यो विभाषया ॥ मातच् - कारीषगन्ध्या माताऽस्य कारीषगन्धीमातः, कारीषगन्ध्यामातः । मातच् ॥ मातृक - कारीषगन्धीमातृकः, कारीषगन्ध्यामातृकः । मातृक ॥ मातृ - कारीषगन्धीमाता, कारीषगन्ध्यामाता ॥

Kashika

ष्यङः संप्रसारणमित्यनुवर्तते। बन्धुशब्द उत्तरपदे बहुव्रीहौ समासे ष्यङः संप्रसारणं भवति। कारीषगन्ध्या बन्धुरस्य कारीषगन्धीबन्धुः। कौमुदगन्धीबन्धुः। बहुव्रीहाविति किम् ? कारीषगन्ध्याया बन्धुः कारीषगन्ध्याबन्धुः। अत्रापि पूर्ववदेव। परमकारीषगन्धीबन्धुरित्यत्र भवति। अतिकारीषगन्ध्याबन्धुरिति च न भवति, तथा कारीषगन्ध्याबन्धुधनः कारीषगन्ध्यापरमबन्धुरिति। बन्धुनीति नपुंसकलिङ्गनिर्देशः शब्दरूपापेक्षया, पुँल्लिङ्गाभिधेयस्त्वयं बन्धुशब्दः॥ मातच्मातृकमातृषु वा॥ ष्यङः संप्रसारणं भवति विभाषया बहुव्रीहावेव। कारीषगन्ध्या मातास्येत्येवं बहुव्रीहौ कृत एतस्मादेवोपसंख्यानात् पक्षे मातृशब्दस्य मातजादेशः। तत्र चित्करणसामर्थ्याद् बहुव्रीहिस्वरमन्तोदात्तत्वं बाधते। मातृमातृकशब्दयोश्च भेदेनोपादानाद् नद्यृतश्च (५.४.१५३) इति कबपि विकल्प्यते। कारीषगन्धीमातः, कारीषगन्ध्यामातः। कारीषगन्धीमातृकः, कारीषगन्ध्यामातृकः। कारीषगन्धीमाता, कारीषगन्ध्यामाता॥

Siddhanta Kaumudi

बन्धुशब्दे उत्तरपदे ष्यङः सम्प्रसारणं स्याद्बहुव्रीहौ । कारीषगन्ध्या बन्धुरस्येति कारीषगन्धीबन्धु । बहुव्रीहाविति किम् । कारीषगन्ध्याया बन्धुः कारीषगन्ध्याबन्धुः क्लीबनिर्देशस्तु शब्दस्वरूपापेक्षया ।<!मातज्मातृकमातृषु वा !> (वार्तिकम्) ॥ कारीषगन्धीमातः । कारीषगन्ध्यामातः । कारीषगन्धीमातृकः । कारीषगन्ध्यामातृकः । कारीषगन्धीमाता । कारीषगन्ध्यामाता । अस्मादेव निपातनान्मातृशब्दस्य मातजादेशः नद्युतश्च (SK833) इति कब्विकल्पश्च । बहुव्रीहावेवेदम् । नेह कारीषगन्ध्याया माता कारीषगन्ध्यामाता । चित्त्वसामर्थ्याच्चित्स्वरो बहुव्रीहिस्वरं बाधते ॥

Balamanorama

बन्धुनि बहुव्रीहौ - बन्धुनि बहुव्रीहौ । कारीषगन्धीबन्धुरिति । तत्र पत्युत्तरपदत्वाऽभावात्तत्पुरुषत्वाऽभावाच्च पूर्वेण न प्राप्तिः । मातञ्मातृकमातृषु वेति । वार्तिकमिदम् । मातच्, मातृक, मातृ-एषु परेषु ष्यङः संप्रसारणं वा वक्तव्यमित्यर्थः । मातचि उदाहरति — कारीषगन्धीमातः, कारीषगन्ध्यामात इति । मातृशब्दस्य मातजादेशः । अदन्तमेतत् । मातृके उदाहरति — कारीषगन्धीमातृकः कारीषगन्ध्यामातृक इति ।नद्यृतश्चे॑ति कप् । मातृशब्दे उदाहरति — कारीषगन्धीमाता, कारीषगन्ध्यामातेति । शैषिककबभावे रूपम् । ननु मातृशब्दस्य मातजादेशे किं प्रमाणं,नद्यृतश्चे॑ति नित्यविधानात्पाक्षिककप्च दुर्लभ इत्यत आह — अत एवेति । बहुव्रीहावेवेदमिति ।बन्धुनि बहुव्रीहौ इति सूत्रे अस्य वार्तिकस्य पठितत्वादिति भावः ।मात॑जिति चित्करणं स्वरार्थमित्याह — चित्त्वसामर्थ्यादिति ।

Nyaas

बन्धुनीति नपुंसकनिर्देशः इत्यादि। बन्धुनीति शब्दरूपापेक्षया नपुंसकलिङ्गन निर्देशः कृत इत्यर्थः। किं पुनः कारणमेवं व्याख्यायते? इत्याह - पुलिङ्गाभिधेयोऽयम् इत्यादि। ननु बन्धाविति पुलिङ्गेनैव निर्देशः कस्मान्न कृतः/ पर्यायेषु मा भूत्। एवं हि क्रियमाणेऽर्थप्रधानोऽयं निर्देश इत्यादिः स्यात्, ततश्च पर्यायेष्वपि प्रसज्येत। अर्थप्रधाने निर्देशे स्वरूपपरिभाषा नोपतिष्ठत इत्युक्तम्। मातच् इत्यादि। ननु च मातजिति शब्दरूपं नास्त्येव, न ह्रस्य स्वतन्त्रस्य क्वचित्? प्रयोगो लभ्यते, कथं तत्र सम्प्रसारणं कर्त्तं शक्यम्? इत्यत आह अस्मादेव इत्यादि। तत्र इत्यादि। यदि च बहुव्रीहौ प्रकृत्या पूर्वपदम् (6.2.1) इति बहुव्रीहिस्वरः स्यात्, चित्करणमनर्थकं स्यात्। तस्मान्मा भूत्? तस्यानर्थक्यमिति चित्कारणसामर्थ्याम्? बहुव्रीहिस्वर` चितः (6.1.157) इत्यन्तोदात्तत्वं विधीयमानं बाधते। ननु च मातृशब्दो बहुव्रीहावुत्तरपदं न सम्भवत्येव, नद्युतश्च (5.4.153) इति नित्यं कपा भवितव्यम्, तत्? कथं तत्रोत्तरपदे बहुव्रीहौ ष्यङः सम्प्रसारणमुपपद्यते? इत्याह - मातृमातृकयोश्च इत्यादि। यदि च नित्यं कप्? स्यात्? मातृमातृकयोर्भेदेनोपादानं न कुर्यात्, कृतञ्च। तस्माद्भेदेनोपादानात्? कब्? विकल्पेन क्रियते, न केवलं मातजादेश इत्यपिशब्दस्यार्थः॥

Prakriyasarvasvam

ष्यङो बन्धुशब्दे परे बहुव्रीहौ सम्प्रसारणं स्यात् । वाराही बन्धुः । तत्पुरुषे तु वाराह्या बन्धुः । <karika>ष्यङः प्रसारणं वा स्यान्मातज्मातृकमातृषु । बहुव्रीहौ ष्यङन्तेभ्यो मातृर्वा मातजिष्यते ॥ ४३५ ॥</karika> <karika>कप् च वा स्यादतः सिद्धा मातज्मातृकमातरः । वाराहीमात एषः स्याद्वाराह्यामात इत्यपि ॥ ४३६ ॥</karika> एवं वाराहीमातृकः । वाराह्यामातृकः । वाराहीमाता ! वांराह्यामाता । <karika>“ष्यङोऽन्यत्र तु सम्बुद्धौ मातुर्मातज्व्यवस्थितः । प्रशस्ततनये वाच्ये देवकीमात हे हरे !”॥ ४३७ ॥</karika> दिव् + नाथ इत्यत्र लुप्तषष्ठीविभक्त्याश्रयेण दिवः पदत्वे—

Vartika

मातञ्मातृकमातृषु वा ।