61012: दाश्वान् साह्वान् मीढ्वांश्च¶
Padacheda: दाश्वान् | S | 1 | 1 |
साह्वान् | S | 1 | 1 |
मीढ्-वान् | S | 1 | 1 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
The participles दाश्वाम् , साह्वान् , and मीढ्वान् are irregularly formed without reduplication.
Vasu English Translation¶
The participles दाश्वाम् , साह्वान् , and मीढ्वान् are irregularly formed without reduplication. The word दाश्वान् is from the root दाशृ ‘to give’ with the affix क्वसु (3.2.107), here the reduplication and the augment इट् are prohibited irregularly. As दाश्वांसो दाशुषः सुतम् (Rig I.3.7). The word साह्वान् is derived from the root सह् ‘to endure’, by adding the affix क्वसु (3.2.107), the irregularity being in lengthening the penultimate, not allowing the augment इट् and the reduplication. Thus साह्वान् बलाहकः ॥ So also मीढ्वान् comes from मिढ् ‘to sprinkle’ with the affix क्वसु (3.2.107) the irregularity consisting in non-reduplication, non-application of इट्, the lenghthening of the penultimate vowel, and the change of ह into ड ॥ As मीड्वस्तोकाय तनयाय मृडय ॥ It is not necessary that these words should be in the singular always, in their plural forms also they do not reduplicate.
Vart:- Reduplication takes place when कृञ् &c, are followed by the affix क ॥ Thus क्रियते अनेन = कृ + क = चक्रम्, क्लिद् + क = चिक्लिदम् ॥ The affix क comes after कृञ् and क्लिद् with the force of the affix घञ् ॥
Vart:- The roots चर्, चल्, पत्, and वद् take reduplication when followed by the affix अच् (3.1.134) and the reduplicate (abhyasa) takes the augment आक् ॥ The final consonants of the Abhyasa (reduplicate) are not elided in these verbs, in order to give scope to the augment, for if the final consonants be elided by (7.4.60), then the addition of the augment becomes unnecessary; as there is no difference between the augment and the adesa (shortening of the vowel) taught in (7.4.59). Thus चराचरः, चलाचल, पतापतः, वदावदः ॥
Vart:- The above vartika is optional, so we have the forms चरः पुरुषः, चलो रथः, वदो मनुष्यः &c.
Vart:- The root हन् is reduplicated before the affix अच्, and the augment आक् comes after the Abhyasa, and घ is the substitute of ह of the Abhyasa. Thus हन् + अच् = घन् + आक् + हन् + अच् = घनाघनः (The second ह is changed into घ by (7.3.55)), as in the phrase घनाघनः क्षोभनश्चर्षणीनाम् ॥
Vart:- The causative root पाटि is reduplicated before the affix अच्, there is elision of णि (sign of the causative), and उक् is the augment of the Abhyasa, and it is lengthened. Thus पाटि + च् = पाटूपटः ॥
Bhashya¶
दाश्वान् साह्वान्मीढ्वांश्च (2449) (वार्तिकावतरणभाष्यम्) दाश्वानिति किं निपात्यते ? (5999 निपातनदर्शकवार्तिकम् ॥ 1 ॥) - दाशेर्वसौ द्वित्वेट्प्रतिषेधौ - दाशेर्वसौ द्वित्वेट्प्रतिषेधौ निपात्येते । दाश्वांसो दाशुषः सुतम् ॥ दाश्वान् । साह्वानिति किं निपात्यते ? (6000 निपातनदर्शकवार्तिकम् ॥ 2 ॥) - सहेर्दीर्घत्वं च - किं च ? द्वित्वेट्प्रतिषेधौ च । साह्वान् बलाहकः ॥ साह्वान् । मीढ्वानिति किं निपात्यते ? (6001 निपातनदर्शकवार्तिकम् ॥ 3 ॥) - मिहेर्ढत्वं च - यच्च पूर्वयोः । किञ्च पूर्वयोः ? द्वित्वेट्प्रतिषेधौ दीर्घत्वं च । मीढ्वस्तोकाय तनयाय मृडय । यथेयमिन्द्रमीढ्वः ॥ (आक्षेपभाष्यम्) मह्यर्थो वै गम्यते । कः पुनर्मह्यर्थः ? महिर्दानकर्मा । अतः किम् ? इत्वमपि निपात्यम् ॥ (6002 आक्षेपनिरांसवार्तिकम् ॥ 4 ॥) - मह्यर्थ इति चेन्मिहेस्तदर्थत्वात्सिद्धम् - मह्यर्थ इति चेन्मिहिरपि मह्यर्थे वर्तते । कथं पुनरन्योनामान्यस्यार्थे वर्तते । बह्वर्था अपि धातवो भवन्तीति ॥ अस्ति पुनरन्यत्रापि क्वचिन्मिहिर्मह्यर्थे वर्तते ? अस्तीत्याह - मिहेर्मेघः । मेघश्च कस्माद्भवति ? अपो ददातीति ॥ (6003 उपसंख्यानवार्तिकम् ॥ 5 ॥) - द्विर्वचनप्रकरणे कृञ्ञादीनां के - द्विर्वचनप्रकरणे कृञ्ञादीनां के उपसंख्यानं कर्तव्यम् । चक्रम्, चिक्लिदम्, चक्नसमिति ॥ कादिष्विति वक्तव्यम् । इहापि यथा स्यात् - बभ्रुः, ययुरिति ॥ (6004 उपसंख्यानवार्तिकम् ॥ 6 ॥) - चरिचलिपतिवदीनामच्याक् चाभ्यासस्य - चरिचलिपतिवदीनामचि द्वे भवत इति वक्तव्यम्, आक्चाभ्यासस्य । चराचरः, चलाचलः, पतापतः, वदावदः ॥ (6005 उपसंख्यानवार्तिकम् ॥ 7 ॥) - हन्तेर्घश्च - हन्तेर्घश्च वक्तव्यः । अचि द्वे भवतः, आक्चाभ्यासस्य । घनाघनः ॥ (6006 उपसंख्यानवार्तिकम् ॥ 8 ॥) - पाटेर्णिलुक्च दीर्घश्चाभ्यासस्योक्च - पाटयतेर्णिलुग् वक्तव्यः । अचि द्वे भवत इति वक्तव्यम्, दीर्घश्चाभ्यासस्य,ऊक्चागमः । पाटूपटः ॥ (6007 विप्रतिषेधवार्तिकम् ॥ 9 ॥) - द्विर्वचनं यणयवायावादेशाल्लोपोपधालोपणिलोपकिकिनोरुत्वेभ्यः - यण् - अयवायावादेश - आल्लोप - उपधालोप - णिलोप - किकिनोरुत्वेभ्यो द्विर्वचनं भवति पूर्वविप्रतिषेधेन ॥ द्विर्वचनस्यावकाशः - बिभिदतुः, बिभिदुः । यणादेशस्यावकाशः - दध्यत्र, मध्वत्र । इहोभयं प्राप्नोति - चक्रतुः, चक्रुरिति । अयवायावादेशानामवकाशः - चयनम्, चायकः, लवनम्, लावकः । द्विर्वचनस्य स एव । इहोभयं प्राप्नोति - चिचाय, चिचयिथ, लुलाव, लुलविथ । आल्लोपस्यावकाशः - गोदः, कम्बलदः । द्विर्वचनस्य स एव । इहोभयं प्राप्नोति - ययतुः, ययुः, तस्थतुः, तस्थुः । उपधालोपस्यावकाशः - श्लेष्मघ्नं मधु, पित्तघ्नं घृतम् । द्विर्वचनस्य स एव । इहोभयं प्राप्नोति - जग्मतुः, जग्मुः, जघ्नतुः, जघ्नुः । णिलोपस्यावकाशः - कारणा, हारणा । द्विर्वचनस्य स एव । इहोभयं प्राप्नोति - आटिटत्, आशिशत् । उत्वस्यावकाशः - निपूर्ताः पिण्डाः । द्विर्वचनस्य स एव । इहोभयं प्राप्नोति - मित्रावरुणौ ततुरिः, दूरे ह्यध्वा जगुरिः ॥ द्विर्वचनं भवति पूर्वविप्रतिषेधेन ॥ स तर्हि पूर्वविप्रतिषेधो वक्तव्यः । न वक्तव्यः । इष्टवाची परशब्दः । विप्रतिषेधे परं यदिष्टं तद्भवतीति ॥ (6008 विप्रतिषेधवार्तिकम् ॥ 10 ॥) - द्विर्वचनात् प्रसारणात्वधात्वादिविकाररीत्वेत्त्वेत्त्वोत्त्वगुणवृद्धिविधयः - द्विर्वचनात् प्रसारण - आत्व - धात्वादिविकार - रीत्व - इर्त्त्व - इत्त्वोत्त्व - गुणवृद्धिविधयो भवन्ति विप्रतिषेधेन । द्विर्वचनस्यावकाशः - बिभिदतुः, बिभिदुः । संप्रसारणस्यावकाशः -इष्टम्, सुप्तम् । इहोभयं प्राप्नोति - इर्जतुः, इर्जुरिति । नैतदस्ति । अस्त्वत्र द्विर्वचनम्, द्विर्वचने कृते परस्य रूपस्य कितीति भविष्यति, पूर्वस्य लिट्यभ्यासस्योभयेषाम् (6.1.17) इति । इदं तर्हि - सोषुप्यते । इदं चाप्युदाहरणम् - इर्जतुः, इर्जुः . ननु चोक्तमस्त्वत्र द्विर्वचनम्, द्विर्वचने कृते परस्य रूपस्य कितीति भविष्यति, पूर्वस्य लिट्यभ्यासस्योभयेषामिति । न सिद्ध्यति । न संप्रसारणे संप्रसारणम् (37) इति प्रतिषेधः प्राप्नोति । अकारेण व्यवहितत्वान्न भविष्यति । (एकादेशे कृते नास्ति व्यवधानम् । एकादेशः पूर्वविधौ स्थानिवद्भवतीति स्थानिवद्भावाद्व्यवधानमेव ।) एवं तर्हि समानाङ्गग्रहणं तत्र चोदयिष्यति ॥ आत्वस्यावकाशः - ग्लाता, म्लाता । द्विर्वचनस्य स एव । इहोभयं प्राप्नोति - जग्ले, मम्ले ॥ धात्वादिविकाराणामवकाशः - नमति, सिञ्चति । द्विर्वचनस्य स एव । इहोभयं प्राप्नोति - ननाम, सिषेच, सस्नौ ॥ रीत्वस्यावकाशः - मात्रीयति, पित्रीयति । द्विर्वचनस्य स एव । इहोभयं प्राप्नोति - चेक्रीयते, जेह्रीयते ॥ इर्त्वस्यावकाशः - पीयते, गीयते । द्विर्वचनस्य स एव । इहोभयं प्राप्नोति - पेपीयते, जेगीयते ॥ इत्वोत्वयोरवकाशः - आस्तीर्णम्, निपूर्ताः । द्विर्वचनस्य स एव । इहोभयं प्राप्नोति - आतेस्तीर्यते, निपोपूर्यते ॥ गुणवृद्ध्योरवकाशः - चेता, गौः । द्विर्वचनस्य स एव । इहोभयं प्राप्नोति - चिचाय, चिचयिथ, लुलाव, लुलविथ । नैतदस्ति प्रयोजनम् । अस्त्वत्र द्विर्वचनम्, द्विर्वचने कृते परस्य रूपस्य गुणवृद्धी भविष्यतः । इदं तर्हि प्रयोजनम् - इयाय, इययिथ । ननु चात्राप्यस्तु द्विर्वचनम्, द्विर्वचने कृते परस्य रूपस्य गुणवृद्धी भविष्यतः । न सिद्ध्यति । अन्तरङ्गत्वात्सवर्णदीर्घत्वं प्राप्नोति । वार्णादाङ्गं बलीय इति गुणवृद्धी भविष्यतः । किं वक्तव्यमेतत् ? न हि । कथमनुच्यमानं गंस्यते ? आचार्यप्रवृत्तिर्ज्ञापयति - वार्णादाङ्गं बलीयो भवतीति यदयं अभ्यासस्यासवर्णे (6.4.78) इत्यसवर्णग्रहणं करोति । कथं कृत्वा ज्ञापकम् ? न ह्यन्तरेण गुणवृद्धी असवर्णपरोऽभ्यासो भवति । नैतदस्ति ज्ञापकम् । अर्त्यर्थमेतत्स्यात् । इयृतः, इयृथः, उवोण, उवोणिथ । यत्तर्हि दीर्घ इणः किति (7.4.69) इति दीर्घत्वं शास्ति । एतस्याप्यस्ति वचने प्रयोजनम् । किम् ? सवर्णदीर्घबाधनार्थमेतत्स्यात् । स यथैव तर्हि सवर्णदीर्घत्वं बाधते, एवं यणादेशमपि बाधेत । एवं तर्हि यणादेशे योगविभागः करिष्यते । इदमस्ति - इणो यण् भवति । ततः - एरनेकाचः । एश्चानेकाच इणो यण्भवति । ततः - असंयोगपूर्वस्य, एरनेकाच इत्येव ॥ असवर्णग्रहणमेव तर्हि ज्ञापकम् । ननु चोक्तर्मत्यर्थमेतत्स्यादिति । नैकमुदाहरणमसवर्णग्रहणं प्रयोजयति ॥ एवमपि स्थानिवद्भावादियङ्न प्राप्नोति । अथ सत्यपि विप्रतिषेधे यावता स्थानिवद्भावः कथमिवैतत्सिद्ध्यति - कस्मादेवात्र न भवति ? योऽनादिष्टादचः पूर्वस्तस्य विधिं प्रति स्थानिवद्भावः । आदिष्टाच्चैषोऽचः पूर्व इति ॥ इति श्रीमद्भगवत्पतञ्जलिविरचिते व्याकरणमहाभाष्ये षष्ठाध्यायस्य प्रथमे पादे प्रथममाह्निकम् ॥
Kashika¶
दाश्वान् साह्वान् मीढ्वानित्येते शब्दाश्छन्दसि भाषायां चाविशेषेण निपात्यन्ते। दाश्वानिति दाशृ दाने इत्येतस्य धातोः क्वसावद्विर्वचनमनिट्त्वं च निपात्येते। दा॒श्वांसो॑ दा॒शुषः॑ सु॒तम् (ऋ० १.३.७) इति। साह्वानिति षह मर्षणे इत्येतस्य परस्मैपदमुपधादीर्घत्वमद्विर्वचनमनिट्त्वं च निपातनात्। साह्वान् बलाहकः। मीढ्वानिति मिह सेचने इत्येतस्याद्विर्वचनमनिट्त्वमुपधादीर्घत्वं ढत्वं च निपातनात्। मीढ्व॑स्तो॒काय॒ तन॑याय मृड (ऋ० २.३३.१४)। एकवचनमतन्त्रम् ॥ कृञादीनां के द्वे भवत इति वक्तव्यम्॥ क्रियतेऽनेनेति चक्रम्। चिक्लिदम्। कृञः क्लिदेश्च घञर्थे कविधानम्० (३.३.५८. वा०) इति कः प्रत्ययः॥ चरिचलिपतिवदीनां द्वित्वमच्याक्चाभ्यासस्य॥ चरादीनां धातूनामचि प्रत्यये परतो द्वे भवतः। अभ्यासस्यागागमो भवति। अगागमविधानसामर्थ्याच्च हलादिशेषो न भवति। हलादिशेषे हि सत्यागमस्यादेशस्य च विशेषो नास्ति। चराचरः। चलाचलः। पतापतः। वदावदः॥ वेति वक्तव्यम्॥ तेन चरः पुरुषः, चलो रथः, पतं यानम्, वदो मनुष्य इत्येवमाद्यपि सिद्धं भवति ॥ हन्तेर्घत्वं च॥ हन्तेरचि प्रत्यये परतो द्वे भवतोऽभ्यासस्य च हकारस्य च घत्वमाक् चागमो भवति। परस्य अभ्यासाच्च (७.३.५५) इति कुत्वम्। घ॑नाघ॒नः क्षोभ॑णश्चर्षणी॒नाम् (ऋ० १०.१०३.१)॥ पाटेर्णिलुक् चोक् च दीर्घश्चाभ्यासस्य॥ पाटेरचि परतो द्वे भवतो णिलुक् च भवति। अभ्यासस्य चोगागमो दीर्घश्च भवति। पाटूपटः॥
Siddhanta Kaumudi¶
एते क्वस्वन्ता निपात्यन्ते । मीढ्वस्तोकाय तनयाय (मीढ्व॑स्तो॒का॒य तन॑याय) ।<!वन उपसंख्यानम् !> (वार्तिकम्) ॥ क्वनिब्वनिपोः सामान्यग्रहणम् । अनुबन्धपरिभाषा तु नोपतिष्ठते । अनुबन्धस्येहानिर्देशात् । यस्त्वायन्तं वसुना प्रातरित्वः (यस्त्वा॒यन्तं॒ वसु॑ना प्रातरित्वः) । इणः क्वनिप् ॥
Padamanjari¶
दाश्वादीनां प्राचुर्येण च्छन्दसि प्रयोगदर्शनाच्छान्दसमेतत्सूत्रमिति मन्यमानं प्रत्याह -अविशेषेणेति। विशेषानुपादानादिति भावः। परस्मैपदमिति। भौवादिकस्यात्मनेपदित्वात्, चौरादिकस्य तु ठा धृषाद्वाऽ इति णिजभावपक्षे दीर्घत्वमनिट्त्वं च निपात्यत इत्यन्ये। मीढवस्तोकायेति।’मतुवसोः’ इति नुमो रुत्वम्। किं पुनः सामर्थ्यम्? इत्याह -हलादिशेषे हीति। चराचर इति। दीर्घोच्चारणसामर्थ्याद् ह्रस्वो न भवति। णिलुक्चेति।’णोरनिटि’ इति णिलोपे सिद्धे पुनर्वचनं प्रत्।ययलक्षणेन पुनर्वृद्धिर्मा भूदिति। पाटूअपट इति। पूर्ववद्धलादिशेषाभावो ह्रस्वत्वाभावश्च। दीर्घोच्चारणादेव ठब्यासस्यानचिऽ इति वचनाद्वा उभयत्रापि हलादिशेषाभावः। अभ्यासस्य यदुच्यते तदचि न भवतीत्यर्थः ॥
Nyaas¶
अविशेषेण निपात्यन्ते इति। विशेषानुपादानात्। अनिट्त्वं च इति। वस्वेकाजाद्घसाम् (7.2.67) इतीट्? प्राप्नोति, अतस्तदभावो निपात्यते। ननु च कृतद्विर्वचनानामेकाचामिङ् विधास्यते, अयंचाकृतद्विर्वचनमेकाज्? भवति; अकृतद्विर्वचनत्वात्, तदयुक्तमनिट्त्वनिपातनम्? नैतदस्ति; लिटि हि श्रूयमाणैकाजुपलक्षणार्थं तत्र कृतद्विर्वचनग्रहणं कृतम्। अस्ति चात्र लिटि श्रूयमाणैकाच्त्वमिति कात्रायुक्तता? परस्मैपदम् इति। सहेरात्मनेपदित्वात्? परस्मैपदं न प्राप्नोतीत्यतस्तन्निपात्यते। किं पुनः समाथ्र्यमित्याह -हलादिशेषः इत्यादि। यदि हलादिशेषः स्यात्, एवञ्च सत्यामाकारादेशमेव कुर्यात्, न हि हलादिशेषे सत्यागमस्यादेशस्य वा विशोषोऽस्ति। णिलुक्चेति। णेरनिटि (6.4.51) इति णिलोपे सिद्धे लुग्वचनं प्रत्ययलक्षणेनोपधावृद्धिर्माभूदित्येवमर्थम्। लोपे हि सति प्रत्यलक्षमेनोपधावृद्धिः स्यात्, लुकि तु न लुमताङ्गस्य (1.1.63) इति प्रतिषेधान्न भवति॥
Prakriyasarvasvam¶
एषां क्वसावद्वित्वं सहेः परस्मैपदं दीर्घादि च निपात्यते । ‘दाशृ दाने’ । दाश्वान् दत्तवान् । साह्वान् सोढवान् । मीढ्वान् मेहनं कृतवानित्यर्थः ॥
Vartika¶
चरिचलिपतिवदीनां वा द्वित्वमच्याक् चाभ्यासस्य ।
Sutra Prayogas¶
दाश्वान् (रघुवंशम्): दाश्वान्साह्वान्मीढ्वांश्च इति क्वस्वन्तो निपातः।