61015: वचिस्वपियजादीनां किति¶
Padacheda: वचि-स्वपि-यजादीनाम् | S | 6 | 3 |
किति | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
The semi-vowels of the roots वच् , स्वप् , and यजादि verbs are vocalised when followed by an affix having an indicatory क।
Vasu English Translation¶
The semi-vowels of the roots वच् , स्वप् , and यजादि verbs are vocalised when followed by an affix having an indicatory क। The anuvritti of ष्यङ् does not run into this sutra. The root वच includes the वच परिभाषने of the Adadi class (II.54) and the वच् substitute of ब्रू (2.4.53) स्वप् is the root ञिष्वप् शये of the Adadi class (II 59). The यजादि verbs are the last nine roots of the Bhvadi class viz. यज्, वप्, वह, वस्, वेञ्, ष्येञ्, ह्वेञ्, वद् and श्वि ॥ The semivowels of these eleven verbs are changed into the corresponding vowel, when an affix having an indicatory क is added to them. Thus with the Past Participle affixes क्त and क्तवतु third we have the following forms:- वच् -उक्तः, उक्तवान् , (8.2.30). 2 स्वप् - सुप्तः, सुप्तवान् 3 यज् - इष्टः, इष्टवान्. (8.2.36) 4 वप् -उप्तः, उप्तवान्, 5 वह् - ऊढः, ऊढवान् (8.2.31), (8.2.40), (8.3.13) and (6.3.111) 6 वस् - ऊषितः ऊषितवान्, (7.2.56) (8.3.60) 7 वेञ् - उतः, उतवान्, 8 व्येञ् - संवीतः, संवीतवान्, 9 ह्वेञ् - हूतः, हूतवान्, 10 वद् - उदितः, उदितवान् , 11 दुओश्वि - शूनः, शूनवान् ॥
धातो स्वरुपग्रहणे तत्प्रत्यय कार्ये विज्ञायतेः- When in a Grammatical rule, an operation (dependant on an affix) is taught with regard to a root (dhatu) by mentioning particular verbs (dhatu) specifically, and not by using the word “dhatu”, generally, then the operation takes place only when the root is followed by such an affix as can be added to roots by emunciating the word धातोः ॥ The existence of this maxim is inferred in the formation of the word भ्रौणहत्यम् in (6.4.174), which see. Therefore, there is no vocalisation of वच् in the following वाच्यति, वाचिकः ॥ Here वाच्यति is formed by adding क्यच् to वाच् (वाचमिच्छति)॥ वाच् is formed by क्विप् added to वच्, the vowel being lengthened and samprasarana being expressly prevented by Unadi II.57. Now, it is a general rule that a root taking the affix क्विप्, विट्, or विच् does not lose its character of a dhatu. Therefore वाच् is a root (धातु), and it ought to take vocalisation before the affix क्यच् ॥ But क्यच् is not enunciated to come after a dhatu, but after a सुबन्त (सुपआत्मनः क्यच् (3.1.8)) in the rule ordaining its affixing. So also वाचिकः formed by adding ठक् to वाच् (See Vartika V. 3.83).
Kashika¶
संप्रसारणमिति वर्तते। ष्यङ इति निवृत्तम्। वचि — वच परिभाषणे ब्रुवो वचिः (२.४.५३) इति च। स्वपि — ञिष्वप् शये। यजादयो यज देवपूजासंगतिकरणदानेषु इत्यतः प्रभृति आगणान्ताः। तेषां वचिस्वपियजादीनां किति प्रत्यये परतः संप्रसारणं भवति। वचि — उक्तः। उक्तवान्। स्वपि — सुप्तः। सुप्तवान्। यज — इष्टः। इष्टवान्। वप — उप्तः। उप्तवान्। वह — ऊढः। ऊढवान्। वस — उषितः। उषितवान्। वेञ् — उतः। उतवान्। व्येञ् — संवीतः। संवीतवान्। ह्वेञ् — आहूतः। आहूतवान्। वद — उदितः। उदितवान्। टुओश्वि — शूनः। शूनवान्। धातोःस्वरूपग्रहणे तत्प्रत्यये कार्यं विज्ञायते। तेनेह न भवति — वाच्यति, वाचिक इति॥
Siddhanta Kaumudi¶
वचिस्वप्योर्यजादीनां च संप्रसारणं स्यात्किति । पुनः प्रसङ्गविज्ञानाद्द्वित्वम् । ईजतुः । ईजुः । इयजिथ । इयष्ठ । ईजे । यष्टा । यक्ष्यति । इज्यात् । यक्षीष्ट । अयाक्षीत् । अयष्ट ।{$ {!1003 डुवप्!} बीजसन्ताने$} । बीजसन्तानं क्षेत्रे विकिरणं गर्भाधानं च । अयं छेदनेऽपि । केशान्वपति । उवाप । ऊपे । वप्ता । उप्यात् । वप्सीष्ट । प्रण्यवाप्सीत् । अवप्त ।{$ {!1004 वह!} प्राणणे$} । उवाह उवहिथ । सहिवहोरोदवर्णस्य (SK2357) उवोढ । ऊहे । वोढा । वक्ष्यति । अवाक्षात् । अवोढाम् । अवाक्षुः । अवोढ । अवक्षाताम् । अवक्षत । अवोढाः । अवोढ्वम् ।{$ {!1005 वस!} निवासे$} । परस्मैपदी । वसति । उवास ॥
Laghu Siddhanta Kaumudi¶
वचिस्वप्योर्यजादीनां च संप्रसारणं स्यात् किति। ईजतुः। ईजुः। इयजिथ, इयष्ठ। ईजे। यष्टा॥
Balamanorama¶
वचिस्वपियजादिनां किति - यज् अतुस् इति स्थिते द्वित्वे अभ्यासयकारस्य संप्रसारणे पूर्वरूपे च इयजतुरिति प्राप्ते — वचिस्वपि ।वचिस्वपी॑ति ति इका निर्देशः । सौत्रः संप्रसारणाऽभावः । आदिशब्दो यजिनैव संबध्यते, न तु वचिस्वपिब्याम्, तथा सति हि वच्यादेःस्वप्यादेर्यजादेश्चेत्यर्थः स्यात् । तथा सति पृथक्स्वपिग्रहणं व्यर्थं स्यात्, अदादिगणे लुग्विकरणे ‘वच परिभाषणे’ इत्यारभ्य षष्ठस्य ‘ञि ष्वप् शये’ इत्यस्य वच्यादिग्रहणेनैव सिद्धेः । तदाह — वचिस्वप्योर्यजादीनां चेति । ननु यज् अतुस् इति स्थिते द्वित्वात्परत्वात्संप्रसारणे कृतेविप्रतिषेधे यद्बाधितं तद्बाधितमेवे॑ति न्यायेन द्वित्वस्य कथं प्राप्तिरित्याशङ्क्याह — पुनः प्रसङ्गेति । ईजतुरिति । यज् अतुस् इति स्थिते संप्रसारणे पूर्वरूपे च कृते द्वित्वे सवर्णदीर्घ इति भावः । एवं चाऽत्र किति लिटिवचिस्वपी॑ति सूत्रम्, अकिति लिटि तुलिटभ्यासस्ये॑ति सूत्रमिति स्थितिः । भारद्वाजनियमात्थलि वेट् । कृते द्वित्वेऽकित्त्वाद्वचिस्वपीत्यप्रवृत्तौलिटभ्यासस्ये॑त्यभ्यासयकारस्य संप्रसारणम् । तदाह — इयजिथ इयष्ठेति । अनिट्पक्षे व्रश्चादिना जस्य षत्वे ष्टुत्वेन थस्य ठः । ईजथुः ईज । इयाज — इयज, ईजिव ईजिम । ईजे इति ।असंयोगा॑दिति कित्त्वात्वचिस्वपी॑ति संप्रसारणे कृते द्वित्वे सवर्णदीर्घ इति भावः । ईजाते ईजिरे क्रादिनियमादिट् । ईजिषे ईजाथे ईजिध्वे । ईजे ईजिवहे ईजिमहे । यष्टेति । तासि व्रश्चादिना जस्य षत्वे ष्टुत्वेन तकारस्य टः । यक्ष्यति यक्ष्यते इति । व्रश्चादिना जस्य षत्वेषढो॑रिति षस्य कत्वे सस्य षत्वमिति भावः । अयाक्षीदिति । सिचि हलन्तलक्षणा वृद्धिः । जस्य षः, तस्य कः, सस्य ष इति भावः । अयष्टेति । अयज् स् त इति स्थितेझलो झलीति सलोपे, जस्य षः, ष्टुत्वेन तकारस्य ट इति भावः । अयक्षातामयक्षत । अयक्ष्यत्, अयक्ष्यत । डु वप् बीजसंताने इति । प्ररोहार्थं बीजानां क्षेत्रेषु प्रक्षेपणे इत्यर्थः । तदाह — क्षेत्रे विकिरणमिति । ‘वपिः प्रकिरणार्थ’ इतिसन्यङो॑रित्यत्र भाष्यम् । गर्भाधानं चेति ।अप्रमत्तारक्षत तन्तुमेतं मा वः क्षेत्रे परबीजानि वाप्सु॑रित्यादौ तथा दर्शनादिति भावः । अयं छेदनेऽपीति । ‘वर्तते’ इति शेषः । केशान्वपतीति । छिनत्तीत्यर्थः । अनिडयम् । उवापेति ।लिटभ्यासस्ये॑त्यकित्यभ्यासस्य संप्रसारणमिति भावः । किति तुवचिस्वपी॑ति द्वित्वात्प्राक्संप्रसारणे कृते द्वित्वम् । ऊपतुः ऊपुः । उवपिथ — उवप्थ, ऊपथुः ऊप । उवाप — उवप ऊपिव ऊपिम । ऊपे इति । ऊपाते ऊपिरे । ऊपिषे ऊपाथे ऊपिध्वे । ऊपे ऊपिवहे ऊपिमहे । वप्तेति । वप्स्यति । वप्स्यते । वपतु वपताम् । अवपत् अवपत । वपेत् वपेत । उप्यादिति । आशिषि यासुटः कित्त्वात्वचिस्वपी॑ति संप्रसारणम् । वप्सीष्टेति । सीयुटि रूपम् । प्रण्यवाप्सीदिति । लुङि परस्मैपदे सिचि हलन्तलक्षणा वृद्धिः ।नेर्गदे॑ति णत्वम् । अवाप्तामवाप्सुः । अवप्तेति । आत्मनेपदे लुङिझलो झली॑ति सलोपः । अवप्साताम् । वह प्रापणे इति । अयमनिट् । वहति वहते । उवाहेति ।लिटभ्यासस्ये॑ति अकिति अभ्यासस्य संप्रसारणमिति भावः । कितिवचिस्वपी॑ति संप्रसारणे कृते द्वित्वम् । ऊहतुः ऊहुः । भारद्वाजनियमात्थलि वेट् । तदाह — उवहिथेति ।न शसददेति निषेधात्थलि च सेटी॑ति न भवति । अथ थलि अनिट्पक्षे आह — सहिवहोरोदवर्णस्येति । सहिवहोरवर्णस्य ओत्स्याड्ढ्रलोपे परत इत्यर्थः । ‘ढ्रलोप’ इति दीर्घं बाधित्वा ओत्त्वमिति भावः । उवोढेति । तासि ढत्वधत्वष्टुत्वढलोपाः, ओत्त्वं च । लृटि स्ये, हस्य ढः, तस्य कः,षत्वम् । तदाह — वक्ष्यति वक्ष्यते इति । वहतु वहताम् । अवहत् अवहत । वहेत् । वहेत । उह्रात् । अवाक्षीदिति । हलन्तलक्षणवृद्दौ ढकषाः प्राग्वत् । अवोढामिति ।झलो झली॑ति सलोपे ढत्वधत्वष्टुत्वढलोपाः, ओत्त्वं चेति भावः । अवाक्षुरिति । उसि सिचि वृद्धौ ढकषाः । अवाक्षीः अवोढमवोढ । अवाक्षमवाक्ष्व अवाक्ष्म । अवोढेति । लुङि आत्मनेपदे प्रथमपुरुषैकवचने अवह् स् त इति स्थिते सलोपः, ढत्वधत्वष्टुत्वढलोपाः, ओत्त्वं च । अवक्षातामिति । आतामि सिचि ढकषा इति भावः । अवक्षतेति । ‘आत्मनेपदेष्वनतः’ इत्यदादेशः । अवोढ्वमिति । अवक्षि अवक्ष्वहि अवक्ष्महि । अवक्ष्यत् अवक्ष्यत । इति वहत्यन्ताः स्वरितेतो गताः । वसधातुरनिट् । अकिति लिटि परेलिटभ्यासस्ये॑त्यभ्यासस्य संप्रसारणम् । तदाह — उवासेति । किति तुवचिस्वपी॑ति संप्रासरणे कृते द्वित्वादौ लिटि परेलिटभ्यासस्ये॑त्यभ्यासस्य #आदेशप्रत्ययावयवत्वाऽभावादप्राप्ते षत्वे-
Padamanjari¶
आदिशब्दोऽयं यजिनैव सम्बध्यते, न वच्यादिभिः प्रत्येकम्; स्वपिग्रहणात्। अन्यथा’वच परिभाषणे’ ,’विद ज्ञाने’ , ठसभुविऽ,’मृजूष् शुद्धौ’ , रूदिर् अश्रुविवचनेःऽ,’ञिष्वप् शये’ - इत्येवं गणपाठाद् वच्यादिग्रहणेनैव स्वपादीनामपि ग्रहणसिद्धेः पृथक् स्वपादिग्रहणÄ न कुर्यात्। आगणान्ता इति। गणस्यान्तो गणान्तः, आगता गणाअन्तमागणन्ताः। उक्त इति।’चोः कुः’ इष्ट इति। व्रश्चादित्वात्षः। ऊढ इति।’हो ढः’ ,’झषस्थोतर्धोधः’ ,ष्टुअत्वम्,’ढो ढेअ लोपः’ ‘ढ्रलोपे पूर्वस्य दीर्घो’ णःऽ। उषित इति।’वसतिक्षुधोरिट्’ ,’शासिवसिघसीनां च’ इति षत्वम्। संवीतदौ’हलः’ इति दीर्घः। शून इति। ठोदितश्चऽ इति निष्टानत्वम्। धातोःक स्वरूपग्रहण इति। यत्र धातुः स्वरूपेणोपादीयते, न धातुशब्देन तत्र तत्प्रत्यये धातोरित्येवं यो विहितः प्रत्ययस्तत्रैव कार्यं विज्ञायते। एतच्च’भ्रौणहत्य’ इति तत्वनिपातनेन ज्ञापयिष्यते। वाच्यति, वाचिकमिति। अत्र तु यद्यपि क्विबन्ता धातुत्वं न जहति, तथापि धातोरित्येवं प्रत्ययस्याविधानात्सम्प्रसारणाभावः ॥
Nyaas¶
आदिशब्दोऽयं यजिनैव सम्बध्य इति, न वच्यादिभिः प्रत्येकम्। यदि हि प्रत्येकमभिसम्बन्धोऽभिमतः स्यात्? वच भाषणे (धातुपाठः-1063) इत्यधीत्य ञिष्वप्? शये (धातुपाठः-1068) इत्यधीयताम्, तत्र वच्यादीनामित्येवं स्वपेरपि सिध्यतीति पृथगुपादानं न कर्तव्यं जायते। नन्वेवम्, रुदश्च पञ्चभ्यः (7.3.98) इत्यत्र स्वपेग्र्रहणं च स्यात्? नैष दोषः; शक्यते हि रुदादीनामादौ स्वपिमधीत्य स्वपश्च पञ्चभ्यः इत्येवं सूत्रं प्रणेतुम्। तस्माद्युक्तमुक्तम् - यजिनैव सम्बध्यत इति। वचेः स्वपिना साहचय्र्याद्धातुनिर्देशार्थ इकारः, न विशेषणार्थः। तेन च ब्राञादेशस्यैव ग्रहणं भवतीत्याह - वच परिभाषणे, ब्राउवो वचिरिति च इति। उक्तः इति। सम्प्रसारणाच्च (6.1.108) इति परपर्वत्वम्। इष्टः इति। व्रश्चादिना (8.2.36) षत्वम्, ततः ष्टुत्वम्। ऊढः इति। हो ढः (8.2.31) इति ढत्वम्, ष्टुना ष्टुः (8.4.41) इति ष्टुत्वम्, ढो ढे लोपः (8.3.13) इति ढकारलोपः, ढ्रलोपे पूर्वस्य दीर्घोऽणः (6.3.111) इति दीर्घत्वम्। उषितम् इति। शासिवसिघसीनाञ्च (8.3.60) इति षत्वम्। संवीतः आहूतः, शूनः इति। हलः (6.4.2) इती दीर्घः। शूनः इत्यत्र ओदितश्च (8.2.45) निष्ठानत्वम्। अथेह कस्मान्न भवति - वाचमिच्छति वाचा तरतीति ठक्? वाच्यति वाचिक इति? यद्यपि वचेः क्विब्वचिप्रच्छ्यायतस्तुकटप्रुजुश्रीणां दीर्घोऽसप्रसारणञ्च (वा।288) इति वा दीर्घः कृतः, तथापि एकदेशविकृतमनन्यवद्भवति इत्यस्ति प्राप्तिरित्याह - धातोः इत्यादि। यत्र धातुः सामान्यवाचिना धातुशब्देन नोपादीयते, अपि तु स्वशब्देनैव, तत्र तत्प्रत्यये दातोरित्येवं यो विहितः प्रत्ययस्तत्रैव कार्यं विज्ञायते। एतच्च भ्रौणहत्येति निपातनं कुर्वन्? ज्ञापयति - तद्धितत्वार्थ निपातनम्। यदि च धातोः स्वरूपग्रहणे तत्प्रत्यय एव कार्यं न विज्ञायेत, तत्वनिपातनमनर्थकं स्यात्। हनस्तोऽचिण्णलोः (7.3.32) इत्यनेनैव तत्वस्य सिद्धत्वात्। वाच्यति वाचिकः इत्यत्र यद्यपि क्विबन्ता धातुत्वं न जहति (व्या।प।132) इति, तथापि धातोरित्येवं नासौ प्रत्ययो विहितः। तथा ह्रेकत्र सुप इत्येवं प्रत्ययो विहितः - सुप आत्मनः क्यच् (3.1.8) इति, इतरत्र च प्रातिपदिकात् इत्येवं ङ्याप्प्रातिपदिकाधिकारात्? (4.1.1।)। तस्मादिह वचेः स्वरूपग्रहणात्? तत्प्रत्यय एव कार्यसंविज्ञानं न भवति॥
Prakriyasarvasvam¶
वचिस्वप्योर्यजादीनां च किति परे सम्प्रसारणं स्यात् । यणः स्थाने इक् स्यादित्यर्थः । <karika>”यजो वपो वहश्चैव वेञ् व्येञौ ह्वयतिस्तथा । वद्वसौ श्वयतिश्चैव स्मृता नव यजादयः”॥ ६० ॥</karika> इति वदेर्वकारस्योत्वं, उ-अ-द्य ।
Sutra Prayogas¶
प्रमदाजनोदितं (किरातार्जुनीयम्): वचिस्वपियजादीनां किति इति संप्रसारणम्।
प्रोत (शिशुपालवधम्): वचिस्वपियजादीनां किति इति यजादित्वात्संप्रसारणम्।
उदितम् (शिशुपालवधम्): वचिस्वपियजादीनां किति इत्यादिना सम्प्रसारणम्।
समूहुः (शिशुपालवधम्): वचिस्वपि- इत्यादिना संप्रसारणम्।
सुषुप्सुना (शिशुपालवधम्): वचिस्वपि- इत्यादिना संप्रसारणम्।
ऊचे (भट्टिकाव्यम्): वचिस्वपि इति इत्यादिना संप्रसारणम्।
सु-षुप्तं (भट्टिकाव्यम्): वचि इत्यादिना सम्प्रसारणम् ।
ऊचुः (भट्टिकाव्यम्): वचि - स्वपि इति सम्प्रसारणम्।