61005: उभे अभ्यस्तम्

Padacheda: उभे | S | 1 | 2 |

अभ्यस्तम् | S | 1 | 1 |

Sutrartha

अस्मिन् द्वित्वप्रकरणे ये द्वे विहिते, तयोः द्वयोः मिलित्वा ‘अभ्यस्त’ इति संज्ञा भवति ।

एकाचो द्वे प्रथमस्य (6.1.1) इत्यस्मिन् अधिकारे यत्र द्वित्वम् भवति, तत्र द्वयोः समुदायेन ‘अभ्यस्त’संज्ञा भवति । यथा - 1. ‘पच्’ इत्यस्य द्वित्वे कृते ‘पच् पच्’ इति प्राप्ते, अस्य समुदायस्य (‘पच् पच्’ इत्यस्य) अभ्यस्तसंज्ञा भवति । 2. ‘जागृ’ इत्यस्य द्वित्वे कृते ‘जाग् जागृ’ इति प्राप्ते, ‘जाग् जाग्’ समुदायस्य अभ्यस्तसंज्ञा भवति । अत्र ऋकारस्य द्वित्वं न क्रियते अतः तस्य अभ्यस्तसंज्ञायां समावेशः अपि न भवति । 3. ‘अटि’ इत्यस्य द्वित्वे कृते ‘ अटि टि’ इति प्राप्ते, ‘टि टि’ इति समुदायस्य अभ्यस्तसंज्ञा भवति । अत्र अकारस्य द्वित्वं न भवति अतः तस्य अभ्यस्तसंज्ञायां समावेशः अपि न भवति । 4. ‘अर्चि’ इत्यस्य द्वित्वे कृते ‘अर्चि चि’ इति प्राप्ते, ‘चि चि’ इति समुदायस्य अभ्यस्तसंज्ञा भवति । अत्र अकार-रेफयोः द्वित्वं न भवति अतः तयोः अभ्यस्तसंज्ञायां समावेशः अपि न भवति । अत्र ‘समुदायस्य’ इयम् संज्ञा भवतीति ज्ञातव्यम् । अतः द्वयोः विहितयोः पृथक्-रूपेण अभ्यस्त-संज्ञा न भवति । तथा च, केवलं प्रथमस्य / केवलं द्वितीयस्य अपि ‘अभ्यस्त’संज्ञा न भवति । अतएव अस्मिन् सूत्रे ‘अभ्यस्तम्’ इति एकवचनम् कृतमस्ति । ‘अभ्यस्त’ संज्ञायाः प्रयोगः अभ्यस्तानामादिः (6.1.189), अभ्यस्तस्य च (6.1.33) एतादृशेषु सूत्रेषु कृतः अस्ति ।

Sutrartha (English)

When the doubling happens in this अधिकार, the two copies are collectively referred as ‘अभ्यस्त’.

Vasu English Summary

The both are collectively called अभ्यस्त।

Vasu English Translation

The both are collectively called अभ्यस्त। Though the word द्वे was understood in the sutra, the use of the word उभे ‘both’ indicates that the word Abhyasta applies to the two taken together and not to any one of them separately. The word abhyasta occurs in sutras (3.4.109), (6.1.32) &c. Thus sutra (6.1.189) declares “the first vowel of an Abhyasta gets the udatta accent”. The Abhyasta being the collective name of the both, the accent will fall on the first and not on the second, as in ददति dadati, the accent is on the first अ ॥ So also by (7.1.4) अत् takes the place of झ after an Abhyasta, therefore, दद + झि = दद + अति = ददति ॥ So also ददत् (6.4.112).

Bhashya

उभे अभ्यस्तम् (2442) (अभ्यस्तसंज्ञाधिकरणम्) (5982 उपसंख्यानवार्तिकम् ॥ 1 ॥) - अभ्यस्तसंज्ञायां सहग्रहणम् - उभे अभ्यस्तं सहेति वक्तव्यम् । किं प्रयोजनम् ? (5983 सहपदप्रयोजनवार्तिकम् ॥ 2 ॥) - आद्युदात्तत्वे पृथगप्रसङ्गार्थम् - आद्युदात्तत्वं सहभूतयोर्यथा स्यात्, एकैकस्य मा भूदिति । यस्मिन्नेवाभ्यस्तकार्येऽदोषस्तदेव पठितम् । अनुदात्तं पदमेकवर्जम् (6.1.158) इति नास्ति यौगपद्येन संभवः । पर्यायस्तर्हि प्रसज्येत । पर्यायश्च पूर्वस्य तावत् परेण रूपेण व्यवहितत्वान्न भविष्यति । परस्य तर्हि स्यात् । तत्राचार्यप्रवृत्तिर्ज्ञापयति - न परस्य भवतीति, यदयं बिभेत्यादीनां पिति प्रत्ययात्पूर्वमुदात्तं भवतीत्याह । एवं व्यवधानान्न पूर्वस्य, ज्ञापकान्न परस्य । उच्यते चेदं - अभ्यस्तानामादिरुदात्तो भवतीति । तत्र स एव दोषः - पर्यायः प्रसज्येत । तस्मात्सहग्रहणं कर्तव्यम् ॥ (सहग्रहणप्रत्याख्यानभाष्यम्) न कर्तव्यम् । उभेग्रहणं क्रियते तत्सहार्थं विज्ञास्यते । अस्त्यन्यदुभेग्रहणस्य प्रयोजनम् । किम् ? उभेग्रहणं संज्ञिनिर्देशार्थम् । अन्तरेणाप्युभेग्रहणं प्रकॢप्तः संज्ञिनिर्देशः । कथम् ? द्वे इति वर्तते ॥ इदं तर्हि प्रयोजनम् - यत्रोभे शब्दरूपे श्रूयेते तत्राभ्यस्तसंज्ञा यथा स्यात्, इह मा भूत् - इर्र्त्सन्ति - इर्प्सन्तीति, इर्र्त्सन् - इर्प्सन्, ऐर्त्सन् - ऐप्सन् । किंच स्यात् ? अद्भावो नुम्प्रतिषेधो जुस्भाव इत्येते विधयः प्रसज्येरन् ॥ अद्भावे तावन्न दोषः । सप्तमे योगविभागः करिष्यते - इदमस्ति अदभ्यस्तात् (7.1.4) इति । तत आत्मनेपदेषु । आत्मनेपदेषु चाद्भवति । अनत इत्युभयोः शेषः ॥ यदप्युच्यते - नुम्प्रतिषेध इति । एकादेशे कृते व्यपवर्गाभावान्न भविष्यति । इदमिह संप्रधार्यं - नुम्प्रतिषेधः क्रियतामेकादेश इति, किमत्र कर्तव्यम् ? परत्वान्नुम्प्रतिषेधः । नित्य एकादेशः, कृतेऽपि नुम्प्रतिषेधे प्राप्नोत्यकृतेऽपि । एकादेशोऽप्यनित्यः । अन्यस्य कृते नुम्प्रतिषेधे प्राप्नोति, अन्यस्याकृते; शब्दान्तरस्य च प्राप्नुवन् विधिरनित्यो भवति । अन्तरङ्गस्तर्ह्यकादेशः । काऽन्तरङ्गता ? वर्णावाश्रित्यैकादेशः, विधिविषये नुम्प्रतिषेधः । विधिश्च नुमः सर्वनामस्थाने, प्राक्तु सर्वनामस्थानोत्पत्तेरेकादेशः । तत्र नित्यत्वाच्चान्तरङ्गत्वाच्चैकादेशः, एकादेशे कृते व्यपवर्गाभावान्नुम्प्रतिषेधो न भविष्यति ॥ यदप्युच्यते - जुस्भाव इति । एकादेशे कृते व्यपवर्गाभावान्न भविष्यति । एकादेश इत्युच्यते, केन चात्रैकादेशः ? अन्तिना । नात्रान्तिभावः प्राप्नोति । किं कारणम् ? जुस्भावेन बाध्यते । नात्र जुस्भावः प्राप्नोति । किं कारणम् ? शपा व्यवहितत्वात् । एकादेशे कृते नास्ति व्यवधानम् । एकादेशः पूर्वविधौ स्थानिवद्भवतीति व्यवधानमेव ॥ किं पुनः कारणम् निमित्तवानन्तिरेकादेशं तावत्प्रतीक्षते, न पुनस्तावत्येव निमित्तमस्तीत्यन्तिभावेन भवितव्यम् ? इहापि तर्हि तावत्येव निमित्तमस्तीत्यन्तिभावः स्यात् - अनेनिजुः, पर्यवेविषुः । अस्तु, अन्तिभावे कृते स्थानिवद्भावाज्झिग्रहणेन ग्रहणाज्जुस्भावो भविष्यति ॥ अथवा यद्यपि निमित्तिवानन्तिरयं तस्य जुस्भावोऽपवादः, न चापवादविषये उत्सर्गोऽभिनिमविशते । पूर्वं ह्यपवादा अभिनिविशन्ते पश्चादुत्सर्गाः । प्रकल्प्य चापवादविषयमुत्सर्गः प्रवर्तते । न तावदत्र कदाचिदप्यन्तिभावो भवति । अपवादं जुस्भावं प्रतीक्षते ॥ नखल्वपि क्वचिदभ्यस्तानां ज्ञेश्चानन्तर्यम्, सर्वत्र विकरणैर्व्यवधानम् । तेनावश्यं विकरणनाशः प्रतीक्ष्यः क्वचिल्लुका, क्वचित् श्लुना, क्वचिदेकादेशेन । स यथैव श्लुलुकौ प्रतीक्षते तथैकादेशमपि प्रतीक्षते । एवं तर्हीदमिह व्यपदेश्यं सत् आचार्यो न व्यपदिशति । किम् ? स्थानिवद्भावम् । स्थानिवद्भावाद्व्यवधानम्, व्यवधानान्न भविष्यति । पूर्वविधौ स्थानिवद्भावो न चायं पूर्वस्य विधिः । पूर्वस्मादपि विधिः पूर्वविधिः ॥ तदेतदसति प्रयोजने उभेग्रहणं सहार्थं विज्ञास्यते ॥ (पक्षभेदेन सहपदप्रयोजनभाष्यम्) कथं कृत्वैकैकस्याप्यभ्यस्तसंज्ञा प्राप्नोति ? प्रत्येकं वाक्यपरिसमाप्तिर्दृष्टेति । तद्यथा - प्रत्येकं वृद्धिगुणसंज्ञे भवतः । ननु चायमप्यस्ति दृष्टान्तः - समुदाये वाक्यपरिसमाप्तिरिति । तद्यथा - गर्गाः शतं दण्ड्यन्तामिति । अर्थिनश्च राजानो हिरण्येन भवन्ति न च प्रत्येकं दण्डयन्ति । सत्येतस्मिन् दृष्टान्ते तत्र यदि प्रत्येकमित्युच्यत इहापि सहग्रहणं कर्तव्यम् । अथ तत्रान्तरेण प्रत्येकमिति वचनं प्रत्येकं गुणवृद्धिसंज्ञे भवत इहापि नार्थः सहग्रहणेन ॥

Kashika

द्वे इति वर्तमान उभेग्रहणं समुदायसंज्ञाप्रतिपत्त्यर्थम्। ये द्वे विहिते, ते उभे अपि समुदिते अभ्यस्तसंज्ञे भवतः। ददति। ददत्। दधतु। उभेग्रहणं किम्? नेनिजतीत्यत्र अभ्यस्तानामादिः (६.१.१८९) इति समुदाय उदात्तत्वं यथा स्यात् प्रत्येकं पर्यायेण वा मा भूदिति। अभ्यस्तप्रदेशाः — अभ्यस्तानामादिः (६.१.१८९) इत्येवमादयः॥

Siddhanta Kaumudi

षाष्ठद्वित्वप्रकरणे ये द्वे विहिते ते उभे समुदिते अभ्यस्तसंज्ञे स्तः ॥

Laghu Siddhanta Kaumudi

षाष्ठद्वित्वप्रकरणे ये द्वे विहिते ते उभे समुदिते अभ्यस्तसंज्ञे स्तः॥

Balamanorama

उभे अभ्यस्तम् - ॒उगिदचा॑मिति नुमि प्राप्तेनाब्यस्ता॑दिति तन्निषेधं वक्ष्यन्नभ्यस्तसंज्ञामाह — उभे अभ्यस्तम् ।एकाचो द्वे प्रथमस्ये॑त्यतो ‘द्वे’ इत्यनुवर्तते ।उबे॑ग्रहणं समुदायप्रतिपत्त्यर्थम् । ‘द्वे’ इत्यनेन च षष्ठाध्यायविहितमेव द्वित्वं विवक्षितम्,अनन्तरस्य विधिर्वा प्रतिषेधो वा॑ इति न्यायात् । तदाह — षाष्ठेत्यादिना । समुदिते किम् । नेनिजतीत्यत्र प्रत्येकमभ्यस्तसंज्ञायाम् ‘अभ्यस्तानामादिः’ इत्युदात्तः प्रत्येकं स्यात् ।

Tattvabodhini

उभे अभ्यस्तम् - ॒द्वे॑इत्येनुवृत्त्यैव सिद्धेउभे॑ग्रहणं समुदजायप्रतिपत्त्यर्थमिति व्याचष्टे — उभे समुदिते इति । अन्यथानेनिजतीत्यत्रअभ्यस्तानामादि॑रित्याद्युदात्तत्वं प्रत्येकं पर्यायेण स्यात् ।

Padamanjari

द्वे इति वर्तमान इत्यादि। द्विरुक्तसमुदायस्यैकाऽभ्यस्तसंज्ञा यथा स्याद्, द्वयोर्द्वेअ संज्ञे मा भूतामित्येवमर्थमुभेग्रहणम्, न तु संज्ञिनिर्देशार्थम्। द्वे इत्यस्यानुवृत्यैव संज्ञिनिर्देशस्य सिद्धत्वादित्यर्थः। ददतीत्यादौ ठदभ्यस्तात्ऽ इत्यद्भावः,’श्नाभ्यस्तयोरातः’ इत्याकारलोपः। नेनिजतीत्यत्रेत्यादि। असत्युभे ग्रहणे’वृद्धिरादैच्’ इत्यादौ प्रत्येकं वाक्यपरिसमाप्तिदर्शनादिहापि प्रत्येकं स्यात्, ततश्च नेनिजतीत्यत्र पृथगाद्यौदातत्वं स्यात्। न च ठनुदातं पदमेकवर्जम्ऽ इत्येकस्यानुदातत्वम्; वर्जनीयविशेषावगमहेतोः सतिशिष्टत्वादेरसम्भवात्। अथापि स्यात्, एवमपि पर्यायः स्यात्। ननु च’भीह्नीभृहुमद’ इति ज्ञापकात्परस्य न भविष्यति? पूर्वस्यापि तर्हि न स्यात्, परेण व्यवधानात्। उच्यते च स्वरः, ततश्च स एव पर्यायप्रसङ्गः। यदि तु संयोगसमासादिसंज्ञावदन्वर्थत्वप्रतिपच्यर्थं महासंज्ञाकरणम्, तेनान्वर्थताविज्ञाने समुदायस्यैव संज्ञेत्युच्यते, तदोभेग्रहणं शक्यमकर्तुम्। ननु यत्रोभे श्रूयेते तत्र यथा स्यात्, अन्यतराभावे मा भूद्-इत्येवमर्थमुभेग्रहणं कर्तव्यम्; अन्यथा ऋधेरापश्च’सनीवन्त’ इति इडभावपक्षे परत्वात् प्रतिपदविहितत्वाच्च ठाप्ज्ञप्यृधामीत्ऽ इतीत्वे’न न्द्राः’ इति प्रतिषेधाद्रेफवर्जं द्वितीयस्यैकाचो द्विर्वचने कृतेठत्र लोपोऽभ्यासस्यऽ इत्यतः प्रागन्तरङ्गत्वादभ्यस्तसंज्ञा स्यात्। सा च प्रत्येकम्, समुदायस्य वा? तत्र प्रत्येकपक्षेऽभ्यासलोपेऽपि परस्य न निवर्तेत। समुदायपक्षेऽपि पूर्व संज्ञा समुदाये प्रवृता; पश्चादेकदेशनिवृतावप्यवशिष्टेऽवतिष्ठेत। यथेयसुन ईकारे लुप्तेऽपि तद्वितसंज्ञा - भूयानित्यत्र। सत्यां च संज्ञायाम् - ईप्सन्ति, ऐप्सन्, ईर्त्सन्ति, ऐर्त्सन्, इत्यत्राद्भावजुसभावनुम्प्रतिपेधाः स्युः, अतः श्रूयमाणप्रतिपत्यर्थमुभेग्रहणं कर्तव्यम्? तन्न; प्रतीषिषतीत्यादिवत्सिद्धेः। तथा हि-ठजादेर्द्वितीयस्यऽ इति सनि द्विरुक्ते श्रूयमाणयोरुभ्योः सत्यामप्यभ्यस्तसंज्ञायामद्भावादयो न भवन्ति। यथा च पुत्रीयषिषन्तीत्यादौ’यथेष्ट्ंअ नामधातूनाम्’ इति सनि द्विरुक्ते, तद्वदत्रापि न भविष्यति। अत्र हि ईप्साझि, ईर्त्साझीति स्थितेऽद्बावात्प्राग्नित्यत्वाच्छप्, अद्भावो हि शपि कृते तेन व्यवधानान्न प्राप्नोतीत्यनित्यः ततः’ज्ञो’ न्तःऽ प्राप्नोति, पूर्वेण सहैकादेशश्च, परत्वादन्तादेशः। नित्य एकादेशः-कृतेऽप्यन्तादेशे प्राप्नोति, अकृतेपि। अन्तादेशस्त्वनित्यः, कृते एकादेशे तस्यान्तवद्भावादभ्यस्तग्रहणेन ग्रहणादद्भावेन बाध्यते। यस्य च निमितं लक्षणान्तरेण विहन्यते तदनित्यम्। अन्तरङ्गस्तर्ह्ये कादेशः; वर्णाश्रयत्वात्। अन्तादेशस्त्वाङ्गत्वाद्बहिरङ्गः, समानाश्रये च’वार्णादाङ्गं बलीयः’ ; अन्तादेशोऽप्यन्तरङ्गः, वक्ष्यति हि-आयन्नादिषूपदेशिवद्वचनमिति। तदेवमुभयोरप्यन्तरङ्गयोर्नित्ययोश्च परत्वादन्तादेशः, ततो झकाराभावादलाश्रयत्वेन स्थानिवद्भावाभावाच्चादादेशो न भवति। अस्तु वा पूर्वमेकादेशः एवमपि ठात्मनेपदेष्वनतःऽ इत्यत्र ठनतःऽ इत्यस्य ठदभ्यस्तात्ऽ इति पूर्वेणापि सम्बन्धात्पूर्वस्मादपि विधावेकादेशस्य स्थानिवत्वाद्वाऽद्भावो न भविष्यति। एवमैप्सन्नित्यत्रापि, ईप्सौझि इति स्थिते शप् च प्राप्नोति, जुस्भावश्च, नित्यत्वाच्छपि कृते तेन व्यवधानान्न जुस्भावः। न च पूर्वेण सहैकादेशे कृते तस्यान्तद्भावात्पुनर्जुस्प्रसङ्गः, पूर्वस्मादपि विधौ स्थानिवत्वात्। ईप्सन्नित्यत्रापि लटः शत्रादेशः, ईप्साशतृ इति स्थिते सार्वधातुकमात्रापेक्षत्वादन्तरङ्गत्वाच्छपि कृते तत्र सनोऽकारेणातो गुणे पररूपे पश्चात्सर्वनामस्थाने चोत्पन्ने नुमः प्रसक्तस्य तस्यां दशायां शत्रभ्यस्तयोर्व्यपवर्गाभावादुभयवर्णाश्रयत्वेनान्तादिवद्भावाभावच्च निषेधाभावः। एवं प्रतीषिषन्तीत्यादावपि। चिकीर्षन्तीत्यादौ तु यत्र सनोऽकारो न द्विरुच्यते, तत्र तेनैव व्यवधानादद्भावाद्यभावः ॥

Nyaas

इह उभेग्रहणं संज्ञिनिर्देशार्थं क्रियते। स च संज्ञिनिर्देशः द्वे (6.1.1) इत्यनुवृत्तेरन्तरेणाप्युभेग्रहणं प्रकल्प्यत एव, तत्? किमर्थं द्वे इत्यनुवर्तमान उभेग्रहणं क्रियते? इत्यत आह - द्वे इत्यनुवर्तमाने इत्यादि। यद्युभेग्रहणं न क्रियेत, तदा प्रत्येकमभ्यस्तसंज्ञा प्रवर्तते। प्रत्येकमपि हि तयोः प्रवर्तमानासौ प्रवृत्तैव भवति। तथा हि द्वावानीयेयातामित्युक्ते प्रत्येकमप्यानयनेन तावानीतौ भवतः। तस्मात्? समुदाये संज्ञायाः प्रवृत्तिर्यथा स्यादेकैकस्य मा भूदित्येवमर्थमुभेग्रहणम्। समुदिते इति। सहिते समुदाभूते इत्यर्थः। ननु च यत्राभ्यासः श्रूयते तत्रैव यथा स्यात्, यत्र तु न श्रूयते तत्र मा भूत। ईप्सन्ति, ईप्सन्, ऐप्सन्नित्यादौ विषये मा भूदित्येवमर्थमुभेग्रहणं स्यात्? नैतदस्ति; अभ्यासग्रहणं ह्रनुवर्तते, तत्रैवमभिसम्बन्धः क्रियते - द्वे अभ्यस्तसंज्ञे भवतः, अभ्यासश्चेदस्तीति। एवच्च सति विनाप्यभेग्रहणं यत्राभ्यासः श्रूयते, तत्रैव भविष्यति, नान्यत्र। तस्माद्वृत्तिकारोपदर्शितमेवोभेग्रहणस्य प्रयोजनं युक्तम्। ददति इति। ददातेर्लट्, झि, शप्, जुहोत्यादिभ्यः श्लुः (2.4.75) श्लौ (6.1.10) इति द्विर्वचनम्। अत्राब्यस्तसंज्ञायां सत्यां श्नाभ्यस्तयोरातः (6.4.112) इत्याकारलोपः, अदभ्यस्तात् (7.1.4) इति झेरदादेशः। दधातु [दधतु - काशिका] इति। लोट्, एरुः (3.4.86) समुदाय उदात्तत्वं यथा स्यात् इति। उभेग्रहणे ह्रसति प्रत्यकमभ्यस्तसंज्ञा स्यात्। तस्मात्? अभ्यस्तानामादिः (6.1.189) इत्याद्युदात्तमपि प्रत्येकं स्यात्। अथपि अनुदात्तं पदमेकवर्जम् (6.1.158) इति नास्ति यौगपद्यसम्भवः, एवमपि पर्यायेण स्यात्? तस्मात्? अम्यस्तानामादिः (6.1.189) इत्येतत्? कार्यं समुदाये यथा स्यात्, प्रत्येकं पर्यायेण वा मा भूदित्येवमर्थमुभेग्रहणम्॥

Praudhamanorama

द्वे इत्यनुवृत्त्यैव सिद्धे उभेग्रहणं समुदायप्रतिपत्त्यर्थमिति व्याचष्टे— उभे समुदिते इति। अन्यथा हि नेनिजतीत्यत्र ‘अभ्यस्तानामादिः’ इत्याद्युदात्तत्वं प्रत्येकं पर्यायेण स्यात्॥

Prakriyasarvasvam

द्विरुक्तयोरुभयोः सहाभ्यस्तमिति संज्ञा ।

Sudha

उमेऽभ्यस्तमिति । **एकाचो द्वे प्रथमस्य**(6.1.1) इत्यतो द्वे इत्यनुवर्तते । तेनैव सिद्धे उभे ग्रहणं समुदायप्रतिपत्यर्थम् । ‘द्वे’ इत्यनेन च षष्ठाध्यायविहितमेव द्वित्वं विवक्षितम् तदाह – षाष्ठद्वित्वेत्यादिना ।