61009: सन्यङोः

Padacheda: सन्-यङोः | S | 6 | 2 |

Sutrartha

सन्-प्रत्यये परे यङ्-प्रत्यये वा परे यस्य धातोः द्वित्वम् न कृतमस्ति तस्य (यथानिर्दिष्टम्) द्वित्वं भवति ।

अस्मिन् सूत्रे ‘अनभ्यासः धातुः’ इति अनुवर्तितम् अस्ति । ‘अनभ्यास’ इत्युक्ते सः धातुः यः अभ्यासेन सह न आगच्छति । पूर्वोभ्यासः (6.1.4) इत्यनेन द्वित्वे कृते द्वयोः यः पूर्वः (प्रथमः), तस्य अभ्याससंज्ञा भवति । अतः यस्य धातोः द्वित्वं कृतं नास्ति, तादृशः धातुः अनभ्यासः धातुः इत्युच्यते । अस्य धातोः सन्-प्रत्यये परे, यङ्-प्रत्यये च परे द्वित्वं भवति । यथा - 1. पठ्-धातोः सन्-प्रत्ययान्तः आतिदेशिकः धातुः एतादृशम् सिद्ध्यति - पठ् + सन् [धातोः कर्मणः समानकर्तृकात् इच्छायां वा (3.1.7) इति सन्-प्रत्ययः] → पठ् पठ् + स [सन्यङोः (6.1.9) इति पठ्-इत्यस्य द्वित्वम्] → प पठ् + स [हलादि शेषः (7.4.60) इति ठकारलोपः] → पि पठ् + स [सन्यतः (7.4.79) इति अभ्यासस्य इकारादेशः] → पि पठ् इट् + स [आर्धधातुकस्य इड् वलादेः (7.2.35) इति इडागमः] → पिपठिष [आदेशप्रत्यययोः (8.3.59) इति षत्वम्] 2. भू-धातोः यङ्-प्रत्ययान्तः आतिदेशिकधातुः एतादृशं सिद्ध्यति - भू + यङ् [धातोरेकाचो हलादे क्रियासमभिहारे यङ् (3.1.22) इति यङ्] → भू भू य [सन्यङोः (6.1.9) इति भू-इत्यस्य द्वित्वम्] → भु भू य [ ह्रस्वः (7.4.59) इति अभ्यासस्य ह्रस्वः] → भो भू य [गुणो यङ्लुकोः (7.4.82) इति यङ्-प्रत्यये परे अभ्यासस्य गुणः] → बोभूय [अभ्यासे चर्च्च (8.4.54) इति जश्त्वम् ]

Sutrartha (English)

When followed by the सन्-प्रत्यय or the यङ्-प्रत्यय, a verb root that have not yet undergone द्वित्वम् undergoes द्वित्वम्.

Vasu English Summary

Of a non-reduplicate root ending in सन् (Desiderative) or यङ् (Intensive) affixes, there is reduplication.

Vasu English Translation

Of a non-reduplicate root ending in सन् (Desiderative) or यङ् (Intensive) affixes, there is reduplication. The word सन् यङोः should be construed as genitive dual and not as Locative dual. In the latter case, the meaning would be “when the affixes सन् and यङ् follow, a non-reduplicate root is reduplicated”. The difficulty would be that while the root alone would be reduplicated. the augment इट् would not, as in अटिटिषति, अशिशिषति ॥

The phrase धातोरनभ्यासस्य is understood here also. The reduplication is of the first or second syllable, according as the root has an initial consonant or vowel. Thus पच् + सन् (3.1.7) पक्ष, reduplicate पिपक्षति (7.4.79). So पत् पिपतिषति, ॠ — अरिरिषति, उन्द — उन्दिदिषति ॥ So also of यङन्तः - as, पापच्यते (7.4.83), अटाट्यते, यायज्यते, अरार्यते, प्रोर्ण्णोनूयते ॥ If a root is already a reduplicated one, there is no reduplication : as जुगुप्सषते, लोलूयिषते being the Desiderative forms of जुगुप्स (already formed by svarthika सन् (3.1.5), and of लोलूय (the Intensive form of लु) ॥ See (3.1.22).

Bhashya

सन्यङोः (2446) (विभक्तिसन्देहभाष्यम्) किमियं षष्ठी, आहोस्वित्सप्तमी ? कुतः सन्देहः ? समानो निर्देशः । किं चातः ? यदि षष्ठी, सन्यङन्तस्य द्विर्वचनेन भवितव्यम् । अथ सप्तमी, सन्यङोः परतः पूर्वस्य द्विर्वचनेन भवितव्यम् । कश्चात्र विशेषः ? (5992 सप्तमीपक्षे दोषवार्तिकम् ॥ 1 ॥) - सन्यङोः परत इति चेदिटो द्विर्वचनं परादित्वात् - सन्यङोः परत इति चेदिटो द्विर्वचनं कर्तव्यम् । अटिटिषति, अशिशिषति । किं पुनः कारणं न सिद्ध्यति ? परादित्वात् । इट् परादिः ॥ (5993 सप्तमीपक्षे दोषवार्तिकम् ॥ 2 ॥) - हन्तेश्चेटः - हन्तेश्चेटो द्विर्वचनं कर्तव्यम् । जेघ्नीयते ॥ (प्रत्याक्षेपसमाधानभाष्यम्) ननु च यस्यापि सन्यङन्तस्य द्विर्वचनं तस्यापि स्थानिवद्भावप्रसङ्गः । इर्टि स्थानिवद्भावादीटो द्विर्वचनं न प्राप्नोति । नैष दोषः । द्विर्वचननिमित्तेऽचि स्थानिवदित्युच्यते, न चासौ द्विर्वचननिमित्तम् । यस्मिन्नपि द्विर्वचनं यस्यापि द्विर्वचनं सर्वोऽसौ द्विर्वचननिमित्तम् । तस्मादीटो द्विर्वचनम् । तस्मादुभाभ्यामेव इर्टो द्विर्वचनं कर्तव्यम्, यश्चोभयोर्दोषो न तमेकश्चोद्यो भवति ॥ (5994 सप्तमीपक्षे दोषवार्तिकम् ॥ 3 ॥) - एकाच उपदेशेऽनुदात्तादित्युपदेशवचनमनुदात्तविशेषणं चेत्सन इट्प्रतिषेधः - एकाच उपदेशेऽनुदात्तात् (7.2.10) इत्युपदेशवचनमनुदात्तविशेषणं चेत्सन इट्प्रतिषेधो वक्तव्यः । विभित्सति, चिच्छित्सति । द्विर्वचने कृते उपदेशेऽनुदात्तादेकाचः श्रूयमाणादितीट्प्रतिषेधो न प्राप्नोति ॥ (षष्ठीपक्षावतरणभाष्यम्) अस्तु तर्हि सन्यङन्तस्य ॥ (5995 षष्ठीपक्षे दोषवार्तिकम् ॥ 4 ॥) - सन्यङन्तस्येति चेदशेः सन्यनिटः - सन्यङन्तस्येति चेदशेः सन्यनिटो द्विर्वचनं वक्तव्यम् । इयक्षमाणा भृगुभिः सजोषाः ॥ (प्रत्याक्षेपभाष्यम्) यस्यापि सन्यङोः परतो द्विर्वचनं तेनाप्यत्रावश्यमिडभावे यत्नः कर्तव्यः । किं कारणम् ? अशेर्हि प्रतिपदमिडि्वधीयते - स्मिपूङ्रञ्ञ्ज्वशां सनि (7.2.74) इति । तेनैव द्वितीयद्विर्वचनमपि न भविष्यति ॥ (प्रत्याक्षेपसमाधानभाष्यम्) अथ वा नैतदशे रूपम् । यजेरेष च्छान्दसो वर्णलोपः । तद्यथा - तुभ्येदमग्ने, तुभ्यमिदमग्न इति प्राप्ते । अम्बानां चरुम्, नाम्बानां चरुमिति प्राप्ते । आव्याधिनीरुगणाः, सुगणा इति प्राप्ते । इष्कर्तारमध्वरस्य, निष्कर्तारमध्वरस्येति प्राप्ते । शिवा उद्रस्य भेषजी, शिवा रुद्रस्य भेषजीति प्राप्ते ॥ अश्यर्थो वै गम्यते । कः पुनरशेरर्थः ? अश्रोतिर्व्याप्तिकर्मा । एवन्तर्हि - यजिरप्यश्यर्थे वर्तते । कथं पुनरन्यो नामान्यस्यार्थे वर्तते ? बह्वर्था अपि धातवो भवन्ति । तद्यथा - वपिः प्रकिरणे दृष्टश्छेदनेऽपि वर्तते - केशान् वपति । इर्डिः स्तुतिचोदनायाच्ञ्ञासु दृष्ट इर्रणे चापि वर्तते - अग्निर्वा इतो वृष्टिमीट्टे मरुतोऽमुतश्चावयन्ति । करोतिरयमभूतप्रादुर्भावे दृष्टो निर्मलीकरणे चापि वर्तते - पृष्ठं कुरु - पादौ कुरु, उन्मृदानेति गम्यते । निक्षेपणे चापि दृश्यते - कटे कुरु - घटे कुरु - अश्मानमितः कुरु, स्थापयेति गम्यते ॥ एवं तर्हि - (5996 षष्ठीपक्षे दोषवार्तिकम् ॥ 5 ॥) - दीर्घकुत्वप्रसारणषत्वमधिकस्य द्विर्वचनात् - दीर्घत्वं द्विर्वचनाधिकस्य न सिध्यति । चिचीषति, तुष्टूषति । समुदायस्य समुदाय आदेशस्तत्र संप्रमुग्धत्वात् प्रकृतिप्रत्ययस्य नष्टः सन् भवति । तत्राजन्तानां सनीति दीर्घत्वं न प्राप्नोति ॥ इदमिह संप्रधार्यम् - दीर्घत्वं क्रियतां द्विर्वचनमिति । किमत्र कर्तव्यम् ? परत्वाद्दीर्घत्वम् । नित्यं द्विर्वचनम्, कृतेऽपि दीर्घत्वे प्राप्नोत्यकृतेऽपि प्राप्नोति । दीर्घत्वमपि नित्यम् । कृतेऽपि द्विर्वचने प्राप्नोत्यकृतेऽपि प्राप्नोति। अनित्यं दीर्घत्वम् । न हि कृते द्विर्वचने प्राप्नोति । किं कारणम् ? समुदायस्य समुदाय आदेशस्तत्र संप्रमुग्धत्वात्प्रकृतिप्रत्ययस्याजन्तता नास्तीति दीर्घत्वं न प्राप्नोति । द्विर्वचनमप्यनित्यम् । अन्यस्य कृते दीर्घत्वे प्राप्नोत्यन्यस्याकृते, शब्दान्तरस्य च प्राप्नुवन् विधिरनित्यो भवति । उभयोरनित्ययोः परत्वाद्दीर्घत्वम् ॥ यत्तर्हि नाकृते द्विर्वचने दीर्घत्वं तन्न सिध्यति । जुहूषति ॥ कुत्वं द्विर्वचनाधिकस्य न सिध्यति - जिघांसति, जङ्घन्यते । किं कारणम् ? समुदायस्य समुदाय आदेशस्तत्र संप्रमुमुग्धत्वात् प्रकृतिप्रत्ययस्य नष्टो हन्तिर्भवति । तत्राभ्यासाद्धन्तिहकारस्येति कुत्वं न प्राप्नोति ॥ संप्रसारणं च द्विर्वचनाधिकस्य न सिद्ध्यति - जुहूषति, जोहूयते । समुदायस्य समुदाय आदेशस्तत्र संप्रमुग्धत्वात्प्रकृतिप्रत्ययस्य नष्टो ह्वयतिर्भवति । तत्र ह्वोऽभ्यस्तस्येति संप्रसारणं न प्राप्नोति । नैष दोषः । वक्ष्यत्येतत् - ह्वोऽभ्यस्तनिमित्तस्येति । यावता चेदानीं ह्वोऽभ्यस्तनिमित्तस्येत्युच्यते सोऽप्यदोषो भवति यदुक्तम् - यत्तर्हि नाकृते द्विर्वचने दीर्घत्वं तन्न सिद्ध्यतीति ॥ षत्वं च द्विर्वचनाधिकस्य न सिद्ध्यति - पिपक्षति, यियक्षति । समुदायस्य समुदाय आदेशस्तत्र संप्रमुग्धत्वात्प्रकृतिप्रत्ययस्य नष्टः सन् भवति । तत्रेण्कुभ्यामुत्तरस्य प्रत्ययसकारस्येति षत्वं न प्राप्नोति ॥ इदमिह संप्रधार्यम् - द्विर्वचनं क्रियतां षत्वमिति । किमत्र कर्तव्यम् ? परत्वात्षत्वम् । पूर्वत्रासिद्धे षत्वम्, सिद्धासिद्धयोश्च नास्ति संप्रधारणा ॥ (5997 षष्ठीपक्षे दोषवार्तिकम् ॥ 6 ॥) - आबृद्ध्योश्चाभ्यस्तविधिप्रतिषेधः - आबृद्ध्योश्चाभ्यस्ताश्रयो विधिः प्राप्नोति स प्रतिषेध्यः । इर्प्सन्ति, इर्र्त्सन्ति । इर्प्सन्, इर्र्त्सन् । ऐप्सन्, ऐर्त्सन् । किं च स्यात् ? अद्भावो नुम्प्रतिषेधो जुस्भाव इत्येते विधयः प्रसज्येरन् ॥ नैष दोषः । उक्ता अत्र परिहाराः ॥ (5998 षष्ठीपक्षे दोषवार्तिकम् ॥ 7 ॥) - सङाश्रये च समुदायस्य समुदायादेशत्वात् झलाश्रये चाव्यपदेश आमिश्रत्वात् - सङाश्रये च कार्ये समुदायस्य समुदायादेशत्वात् झलाश्रये चाव्यपदेशः । किं कारणम् ? आमिश्रत्वात् । आमिश्रीभूतमिवेदं भवति । तद्यथा - क्षीरोदके संपृक्ते आमिश्रत्वान्न ज्ञायते कियत् क्षीरं कियदुदकमिति, कस्मिन् वा अवकाशे क्षीरं कस्मिन्नवकाशे उदकमिति । एवमिहाप्यामिश्रत्वान्न ज्ञायते - का प्रकृतिः, कः प्रत्ययः, कस्मिन्नवकाशे प्रकृतिः, कस्मिन्नवकाशे प्रत्यय इति । तत्र को दोषः ? सङि झलीति कुत्वादीनि न सिद्ध्यन्ति । इदमिह संप्रधार्यम् - द्विर्वचनं क्रियताम्, कुत्वादीनीति; किमत्र कर्तव्यम् ? परत्वात्कुत्वादीनि । पूर्वत्रासिद्धे कुत्वादीनि, सिद्धासिद्धयोश्च नास्ति संप्रधारणा ॥ एवं तर्हि पूर्वत्रासिद्धीयमद्विर्वचन इति वक्तव्यम् । तच्चावश्यं वक्तव्यम् । विभाषिताः प्रयोजयन्ति । दोग्धा - दोग्धा । द्रोढा - द्रोढा ॥ यावता चेदानीं पूर्वत्रासिद्धीयमद्विर्वचन इत्युच्यते सोऽप्यदोषो भवति यदुक्तं षत्वं न सिद्ध्यतीति ॥ (सिद्धान्तकथनभाष्यम्) इह स्थाने द्विर्वचने णिलोपोऽपरिहृतः । सन्यङोः परतो द्विर्वचने इटो द्विर्वचनं वक्तव्यम् । सन्यङन्तस्य द्विर्वचने हन्तेः कुत्वमपरिहृतम् । तत्र सन्यङन्तस्य द्विर्वचनं द्विः प्रयोगश्चेत्येष पक्षो निर्दोषः । तत्रेदमपरिहृतम् - सन इट्प्रतिषेध इति । एतस्यापि सप्तमे परिहारं वक्ष्यति - उभयविशेषणत्वात्सिद्धमिति । कथं जेघ्नीयते ? वक्ष्यत्येतत् - यङ्प्रकरणे हन्तेर्हिंसायां घ्नीति ॥

Kashika

धातोरनभ्यासस्येति वर्तते। सन्यङोरिति च षष्ठ्यन्तमेतत्। सन्नन्तस्य यङन्तस्य चानभ्यासस्य धातोरवयवस्य प्रथमस्यैकाचो द्वितीयस्य वा यथायोगं द्वे भवतः। पिपक्षति। पिपतिषति। अरिरिषति। उन्दिदिषति। यङन्तस्य — पापच्यते। अटाट्यते। यायज्यते। अरार्यते। प्रोर्णोनूयते। अनभ्यासस्येत्येव — जुगुप्सिषते। लोलूयिषते॥

Siddhanta Kaumudi

सन्नन्तस्य यङन्तस्य च प्रथमस्यैकाचो द्वे स्तोऽजादेस्तु द्वितीयस्य । अभ्यासकार्यम् । गुपिप्रभृतयः किद्भिन्ना निन्दाद्यर्थका एवानुदात्तेतोदानशानौ च स्वरितेतौ । एते नित्यं सन्नन्ताः । अर्थान्तरे त्वननुबन्धकाश्चुरादयः । अनुबन्धस्य केवलेऽचरितार्थत्वात्सन्नन्तात्तङ् । धातोरित्यविहितत्वात्सनोऽत्र नार्धधातुकत्वम् । तेनेङ्गुणौ न । जुगुप्सते । जुगुप्सांचक्रे । तितिक्षते । मीमांसते । भष्भावः । चर्त्वम् । बाभत्सते ।{$ {!974 रभ!} राभस्ये$} । आरभते । आरेभे । रब्धा । रप्स्यते ।{$ {!975 डुलभष्!} प्राप्तौ$} । लभते ।{$ {!976 स्वञ्ज!} परिष्वङ्गे$} ॥

Laghu Siddhanta Kaumudi

सन्नन्तस्य यङन्तस्य च धातोरनभ्यासस्य प्रथमस्यैकाचो द्वे स्तोऽजादेस्तु द्वितीयस्य। सन्यतः। पठितुमिच्छति पिपठिषति। कर्मणः किम्? गमनेनेच्छति। समानकर्तृकात् किम्? शिष्याः पठन्त्वितीच्छति गुरुः। वा ग्रहणाद्वाक्यमपि॥ लुङ्सनोर्घसॢ॥

Balamanorama

सन्यङोः - सन्यङोः । अवयवषष्ठएषा । प्रत्ययत्वात्तदन्तग्रहणम् ।एकाचो द्वे प्रथमस्ये॑तिअजादेर्द्वितीयस्ये॑ति चाधिकृतं । तदाह — सन्नन्तस्येत्यादिना । ‘सनि यङि च परे’ इति तु न व्याख्येयम्, तथा सति प्रतिपर्वादिणः सनि अटधातोर्यङि च प्रतीषिषति, अटाटते इत्यत्र प्रत्ययसहितस्य द्वित्वाऽनापत्तेः । अभ्यासकार्यमिति । हलादिशेषादिकमित्यर्थः । गुपिप्रभृतय इति । कितधातुभिन्ना गुप्तिजमानबधाश्चत्वारोगुपेनिन्दाया॑मित्यादिनिबद्धनिन्दाद्यर्थका एव अनुदात्तेतः सन्भाज इत्यर्थः । कितधातुस्तु परस्मैपदिषु पठिष्यमाणत्वादुदात्तेदेव सन् व्याधिप्रतिकारादिषु पञ्चस्वेवार्थेषु सन्भागिति भावः । दानशानौ त्विति । ‘दान खण्डने’ ‘शान तेजने’ इति धातू स्वरितेतावेव सन्तौ आर्जवे निशाने चाऽर्थे सन्भाजावित्यर्थः, तयोरनुपदमेव स्वरितेत्सु पाठादिति भावः । एते नित्यं सन्नन्ता इति । एते गुप्तिजादयः सप्त धातवोगुपेर्निन्दाया॑मित्यादिनिबद्धेष्वर्थेषु नित्यं सन्नन्ताः । निन्द्याद्यर्थकत्वे सनं विना एषां प्रयोगो नास्तीत्यर्थः । अर्थान्तरेषु तविति । निन्दादिभ्योऽन्येषु धातुपाठनिर्दिष्टेषु तदन्येषु चार्थेषु अनुदात्तानुबन्धहिताः सन्तश्चौरादिका एव भवन्ति, न तु भौवादिका इत्यर्थः । चुरादिष्वेतेषामनुदात्तानुबन्धकत्वे अनुबन्धकरणस्य केवलेष्वचरितार्थतया ण्यन्तादकर्तृगेऽपि फले तङ् स्यादिति भावः । नन्वेवं सति भ्वादिगणे गुपादेरनुदात्तानुबन्धकरणं व्यर्थम्, उक्तरीत्या गोपनाद्यर्थकानामेषामनुबन्धरहितचौरादिकत्वनियमेन, निन्दाद्यर्थेषु सन्नन्तनियमेन च ततोऽन्यत्र प्रयोगाऽभावादित्यत आह — अनुबन्धकस्येति । गुपादिषु केवलेष्वनुबन्धनिर्देशस्य निष्पलतया अनुबन्धनिर्देशस्य सन्नन्तार्थत्वं विज्ञायत इतिकृत्वा सन्नन्तात्तङित्यर्थः । नचैवमपि भ्वादिगणे एषां गोपनाद्यर्थनिर्देशो व्यर्थ एवेति वाच्यं, भ्वादौ तदर्थनिर्देशस्य अपाणिनीयत्वादिति भावः तदुक्तं भाष्ये — गुपादिष्वनुबन्धकरणसामर्थ्यात्सन्नन्तादात्मनेपद॑मिति । अत्र सन्नन्तादात्मनेपदमित्यक्त्वा केवलानामेषां शब्विकरणानां नास्ति प्रयोग इति सूचितम् । तथा चुरादिष्वेषामनुदात्तानुबन्धराहित्यपि सूचितम् । अन्यथा अनुबन्धकरणस्य केवलेष्वचरितार्थत्वात्सन्नन्तादिव ण्यन्तादपि अकर्तृगे फले आत्मनेपदार्थत्वापातत्सन्नन्तादात्मनेपदमित्युक्तिरसङ्गता स्यादित्यन्यत्र विस्तरः । धातोरितीति । ‘आर्धधातुकं शेषः’ इत्यत्र धातोर्विहितः प्रत्यय इति व#इहितविशेषणाश्रयणात्सनश्चास्य धात्वधिकारविहितत्वाऽभावान्नार्धधातुकत्वमित्यर्थः । तेनेति । सन आर्धधातुकत्वाऽभावेनेत्यर्थः । जुगुप्सते इति । निन्दतीत्यर्थः । गुपेः सनि अनार्धधातुकत्वादिड्गुणेयोरभावेसन्यङो॑रिति द्वित्वे हलादिशेषेऽभ्यासचुत्वमिति भावः । जुगुप्सांचक्रे इति ।कास्प्रत्यया॑दित्याम् । जुगुप्सिता । जुगुप्सिष्यते । जुगुप्सताम् । अजुगुप्सत । जुगुप्सेत । जुगुप्सिषीष्ट । अजुगुप्सिष्ट । अजुगुप्सिष्यत । तितिक्षते इति । तिक्ष्णीकरोतीत्यर्थः । मान्धातोः सनिद्वित्वे हलादिशेषे अभ्यासह्रस्वे ‘सन्यतः’ इति इत्त्वे ‘मान्बधे’ त्यभ्यासदीर्घे,नश्चे॑त्यनुस्वारे, मीमांसधातोर्लडादीति भावः । बधधातोः सनि विशेषमाह — भष्भाव इति । बकारस्य भकार इत्यर्थः । चर्त्वमिति । धस्य तकार इत्यर्थः । तथा चभत्से॑ति सन्नन्तं संपन्नम् । बीभत्सते इति । भष्ट्वचर्त्वयोरसिद्धत्वात् बध् इत्यस्य द्वित्वे हलादिशेषे ‘सन्यतः’ इति इत्त्वेमान्बधे॑ति दीर्घे बीभत्सधातोर्लडादिति भावः । तदेवं गुपादिषु सप्तसु सन्नन्तेषु अत्र क्रमे धातुपाठे निबद्धाश्चत्वार उदाहृताः । कितमानशानधातवस्तु अनुपदमेव धातुपाठक्रमे पठिष्यमाणास्तत्र तत्रोदाहरिष्यन्ते । रभ राभस्ये इति । अनिडयम् । राभस्यं — शीघ्रीभावः । आङ्पूर्वकस्तु प्रारम्भर्थकः । तदाह — आरभते इति । रब्धेति ।झषस्तथो॑रिति धत्वं, भस्य जश्त्वम् । रप्स्यत इति । रभताम् । अरभत । रभेत । रप्सीष्ट । अरब्ध । अरप्स्यत । डु लभषिति । डुरित् षकारश्च । ‘ड्वितः क्रिः’षिद्भिदादिभ्यो॑ऽङिति प्रयोजनम् । अनिट् । रभधातुवद्रूपाणि । ष्वञ्ज परिष्वङ्गे इति । षोपदेशोऽयमनिट् ।

Tattvabodhini

सन्यङोः - सन्यङोः । सप्तमीमाश्रित्य सनि यङि च परे इति व्याख्यायां — प्रतीषिषति,॑अटाटते॑ इत्यादि न सिध्येत्, सन्यङोः प्रकृतिभागस्यैव द्वित्वप्रसक्तेरत आह — सन्नन्तस्येति । ननु सप्तमीपक्षेऽपि सन्यङोरेव द्वित्वं स्यान्न तु प्रकृतिभागस्य, शपोऽकारेणैव जुगुप्सते तितिक्षते इत्यादिरूपसिद्धेस्तयोरकारोच्चारणस्यअजादेर्द्वितीयस्ये॑ति द्वित्वार्थत्वात् । यद्यपि निमित्तस्य कार्यित्वस्वीकारे आट आटतुरित्यादौ । लिटि परतः पूर्वभागमात्रस्य द्वित्वं न सिध्येत्तथाप्यकारोच्चारणसामर्थ्यात्सन्यङोः कार्यित्वमभ्युपगन्तुं शक्यमिति चेन्मैवम् ।अकारफलानां बहूनां सत्त्वात् । तथाहि — — दित्स्यं धित्स्यमित्यत्राऽचो यति कृतेयतोऽनावः॑ इत्याद्युदात्तः सिध्यति । अकाराऽभावे तुऋहलो॑रिति ण्यतीष्टस्वरो न सिध्येत् । किंचपिपठिषि ब्राआहृणकुलानी॑त्यत्राऽल्लोपस्य स्थानिवत्त्वाज्झलन्तलक्षणो नुम् न भवति, अकाराऽभावे तु स्यादेव नुम् । अपिचपापचक॑ इत्यादावल्लोपस्य स्थानिवत्त्वात्अत उपधायाः॑ इति वृद्धिर्न प्रवर्तते । अपि चयस्य हलः॑ इत्यत्र यस्येति सङ्घातग्रहणमहर्यीदित्यादौ यलोपव्यावृत्त्यर्थमिति सर्वसंमतम् । तथा चअपापचिष्टे॑ त्यादौ यलोपोऽप्यकारफलमितिसन्यङो॑ रिति षष्ठएव युक्ता । एवं हि यङ्लुकि प्रत्ययलक्षणेन यङन्तत्वाद्द्वित्वं सिध्यति । परसप्तम्यां तु द्वित्वस्याऽङ्गकार्यत्वात्न लुमते॑ ति निषेधः प्रवर्तेतेति दिक् । दानशानौ चेति । आर्जवनिशानार्थविति भावः । अर्थान्तरे त्विति । धातुपाठोपात्ते गोपनादिरूपेऽर्थे इत्यर्थः । अननुबन्धका इति । सानुबन्धकत्वे तु केवलेऽचरितार्थत्वादऽनुबन्धस्य सन्नन्तादिवाऽकर्तृगफलाण्ण्यन्तादपि तङ् स्यादिति भावः । एवं चानुपूर्वीमात्रसाम्येऽपि भ्वादयश्चुरादिभ्यो भिन्ना एवेति फलितम् । इड्गुणौ नेति । यद्यपिहलन्ताच्चे॑ति सनः कित्त्वेनापि गुणाऽभावः सुसाधस्ततापीडभावार्थमुक्तहेतुरेवाश्रयणीय इति किं हेत्वन्तराश्रयणेनेति भावः । केचित्तु अर्थवद्ग्रहणपरिभाषया इच्छासन एवहलन्चाच्चे॑ति सूत्रे ग्रहणमिति नाऽस्य स्वार्थसनः कित्त्वमित्याहुः । रभ राभस्ये । राभस्यमुपक्रमः । लिटि रेभे । रेभाते । लुङि अरब्ध । अरप्साताम् । डुलभष् ।ड्वितः क्रिः॑ लप्त्रिमम् ।षिद्भिदादिभ्य॑ इत्यङ् । लभा । लिटि — लेभे । लुङि — अलब्ध ।

Padamanjari

षष्ठ।ल्न्तमेतदिति। तत्र प्रत्ययग्रहणपरिभाषाया तदन्तस्य द्विर्वचनम्, न तु सन्यङेरेव, यदाह -सनन्तस्य चेति। सप्तमीपक्षे तु सन्यङेः परतः पूर्वस्य धातोर्द्विर्वचनं भवतीत्ययमर्थः स्यात्, ततश्च सन्भक्तस्येटो द्विर्वचनं न स्यात् -अटिटिषति, अशिशिषतीत्यादौ; तथा प्रतीषिषतीत्यादौ सनो न स्यात्। एवमरार्यत इत्यादौ यङः, तथा सप्तम्यामिष्टायां पूर्वेणापरेण वा सहैकमेव योगं कुर्यात्। जुगुप्सिषत इति। गुपे’गुप्तिज्किद्भयः सन्’ तत्र सनि द्विर्वचनम्, पुनरिच्छासन्, तत्राकृतत्वात्पुनर्द्विर्वचनप्रसङ्गः। लोलूयिषते इति। अत्रापि यङिद्विर्वचनम्, न तु सनीति द्विर्वचनप्रसङ्गः। भागवृत्तिकारस्तावाह -ठ्ठ्पूर्वसूत्रे’धातोरनभ्यासस्य’ इति द्वयमपि प्रत्याख्याय भाष्यकारेणोक्तम् -‘तिष्ठतु तावत्सांन्यासिकं धातुग्रहणम्’ इति, उतरार्थमिति भावः। अनभ्यासग्रहणस्य तु न किञ्चित्प्रयोजनमुक्तम्, ततश्चोतरार्थमपि तन्न भवतीति भाष्यकारस्याभिप्रायो लक्ष्यते। तेनात्र भवितव्यमेव द्विर्वचनेनऽऽ इति ॥

Prakriyasarvasvam

सनन्तस्य यङन्तस्य चानभ्यासस्य धातोः प्रथमकाजंशस्य द्वे स्तः । भूस् भू स् । अभ्यासस्य हलादिशेषः । ह्रस्वजश्त्वे । सस्य षः बुभूष । सनन्तत्वाद् धातुत्वे तिबादिः । शप् । ‘अतो गुणे’ (६-१-९७) बुभूषति कृष्णः । भवितुमिच्छतीत्यर्थः । वेत्युक्तेर्भवितुमिच्छतीति वाक्यमपि । समानकर्तृकत्वाभावे - तु कृष्णस्य भवनमिच्छन्ति देवाः । सार्वधातुके भवतिवत् । लुङि सिच् । इट् । ‘अतो लोपः’ (६-४-४८) । अबुभूषीत् । अबुभूषिष्टाम् । बुभूषामास । बुभूष्यात् । बुभूषिता । बुभूषिष्यति । अबुभूषिष्यत् ।

Sudha

सन्यङोरिति । अवयवषष्ठयेषा । प्रत्ययत्वात्तदन्तग्रहणम् । एकाचो द्वे प्रथमस्य इति अजादेर्द्वितीयस्य इति चाधिकृतम् । तदाह - सन्नन्तस्येत्यादिना । सनि यङि चपरे इति तु न व्याख्येयम् । तथा सति प्रतिपूर्वादिणः सनि अटधातोर्यङि च “प्रतीषिषति”, “अटाटयते” इत्यत्र प्रत्ययसहितस्य द्वित्वानापत्तेः । अभ्यासस्य इत्वविधिं स्मारयति - सन्यत इतिपठितुमिच्छतीति । भावस्तुमुनर्थः ।अव्ययकृतो भावे इत्युक्तेः । “पिपठिषति” । “पठ्” इत्यस्मात् धातोः कर्मणः समानकर्तृकादिच्छायां वा (3.1.7) इति सन्प्रत्यये अनुबन्धलोपे “पठ् स्” इति जाते आर्धधातुकं शेषः (3.4.114) इति आर्धधातुकत्वे आर्धधातुकस्येड् वलादेः (7.2.35) इति इडागमे टलोपे टित्वादाद्यावयवे सन्यङो (6.1.9) इति द्वित्वे “पठ् पठ इ स” इति जाते पूर्वोभ्यासः (6.1.4) इत्यभ्यासत्वे हलादिः शेषः (7.4.60) इति ठलोपे सन्यतः (7.4.79) इतीत्वे आदेशप्रत्यययोः (8.3.59) इति षत्वे सनाद्यन्ता धातवः (3.1.32) इति धातुत्वाल्लटस्तिपि शपि अनुबन्धलोपो “पिपठिष अ ति” इति जाते अतो गुणे (6.1.97) इति पररूपे “पिपठिषति” इति रूपम् ।