61013: ष्यङः सम्प्रसारणं पुत्रपत्योस्तत्पुरुषे¶
Padacheda: ष्यङः | S | 6 | 1 |
सम्प्रसारणम् | S | 1 | 1 |
पुत्र-पत्योः | S | 7 | 2 |
तत्पुरुषे | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
There is vocalisation of the semi-vowel य् of the affix ष्यङ् (4.1.78) when followed in a तत्-पुरुष compound, by the words पुत्र and पति।
Vasu English Translation¶
There is vocalisation of the semi-vowel य् of the affix ष्यङ् (4.1.78) when followed in a तत्-पुरुष compound, by the words पुत्र and पति। When the words पुत्र and पति are the second members; forming a Tatpurusha compound, there is samprasarana (vocalising the semi-vowels) of the affix ष्यङ् of the preceding. That is य् is changed into इ ॥ Thus करीषस्येव गन्धोऽस्य = करीषगन्धिः (a Bahuvrihi compound taking the samasanta affix or rather substitute इ by (5.4.137) करीषगन्धैरपत्यम् = करीषगन्धि + अण् (4.1.92) = करीषगन्धः ॥ The feminine of this will be formed by adding ष्यङ् (4.1.78). Thus we have कारीषगन्ध्या (see (4.1.78)). Now in forming the Tatpurusha compound of this word with पुत्र or पति, the final य् will be changed into इ and we have कारीषगन्धीपुत्रः, कारीषगन्धीपतिः ॥ The आ of या becomes merged into इ (6.1.108), and the short इ is lengthened (6.3.139). So also कौमुदगन्धीपुत्रः or कौमुदगन्धीपतिः ॥
Why do we say “of the affix ष्यङ्”? Observe इभ्यापुत्रः, क्षत्रियापुत्रः ॥
Why do we say “when followed by पुत्र or पति”? Observe कारीषगन्ध्याकुलम्, कौमुदगन्ध्याकुलम् ॥
Why do we say “when forming a Tatpurusha compound”? Observe कारीषगन्ध्यापतिरस्य ग्रामस्य = कारीषगन्ध्यापतिरयं ग्रामः ॥ It is a Bahuvrihi compound.
The affix ष्यङ् is here the feminine affix य followed by चाप् (आ) (see (4.1.77) and (4.1.74).
A general maxim relating to all affixes is “an affix denotes whenever it is employed in Grammar, a word-form which begins with that to which that affix has been added, and ends with the affix itself: प्रत्ययग्रहणे यस्मात् स विहितस्तदादेस्तदन्तस्य ग्रहणम्”॥ This maxim, however, does not apply in case of feminine affixes, where we have this rule “a feminine affix denotes whenever it is employed in a rule, a word-form which ends with that affix, but which need not necessarily begin with that to which the affix has been added, but where the word form is subordinate: “स्त्रीप्रत्यये चानुपसर्जने न”॥ Thus we have परमकारीषगन्ध्यायाः पुत्रः = परमकारीषगन्धीपुत्रः and so also परमकारीषगन्धीपतिः ॥ Not so when the word is an upasarjana or subordinate in a compound. As अतिक्रान्ता कारीषगन्ध्याम् = अतिकारीषगन्ध्या, तस्य पुत्रः = अतिकारीषगन्ध्यापुत्रः, अतिकारीषगन्ध्यापतिः ॥
This vocalisation takes place when पुत्र and पति alone, not compounded with any other word, stand at the end : not so when a word beginning or ending with these words follows. Thus कारीषगन्ध्यापुत्रकुलं, कारीषगन्ध्यापरमपुत्रः &c.
Though a word ending in ष्यङ् may have many semi-vowels, yet the vocalisation takes place of the affix य (ष्यङ्) only, according to the maxim निर्दिश्यमानस्यादेशा भवन्ति “substitutes take the place of that which is actually enunciated”.
The word संप्रसारण has regulating influence upto (6.1.44) inclusive. The rules of vocalisation (change of semi-vowels into vowels) is contained in these sutras.
Vart:- Prohibition must be stated when पति and पुत्र follow the word गौकाक्ष्य ॥ As गौकाक्ष्यापुत्रः, गौकाक्ष्यायातः instead of गौकाक्षीपुत्रः &c.
Bhashya¶
ष्यङः संप्रसारणं पुत्रपत्योस्तत्पुरुषे (2450) (सम्प्रसारणाधिकरणम्) (6009 अतिप्रसङ्गापादकवार्तिकम् ॥ 1 ॥) - ष्यङः संप्रसारणे पुत्रपत्योस्तदादावतिप्रसङ्गः - ष्यङः संप्रसारणे पुत्रपत्योस्तदादावतिप्रसङ्गो भवति । पुत्रपत्यादौ संप्रसारणं प्राप्नोति । कारीषगन्ध्यापुत्रकुलम्, कारीषगन्ध्यापतिकुलम् ॥ (6010 अतिप्रसङ्गाक्षेपवार्तिकम् ॥ 2 ॥) - वर्णग्रहणात्सिद्धम् - वर्णग्रहण एतद्भवति - यस्मिन् विधिस्तदादाविति, न चेदं वर्णग्रहणम् ॥ (6011 प्रत्याक्षेपवार्तिकम् ॥ 3 ॥) - वर्णग्रहण इति चेत्तदन्तप्रतिषेधः - वर्णग्रहण इति चेत्तदन्तस्य प्रतिषेधो वक्तव्यः । पुत्रपत्यन्ते संप्रसारणं प्राप्नोति । कारीषगन्ध्यापरमपुत्रः, कारीषगन्ध्यापरमपतिः, कौमुदगन्ध्यापरमपुत्रः, कौमुदगन्ध्यापरमपतिः । किं कारणम् ? यत्र हि तदादिविधिर्नास्ति तदन्तविधिना तत्र भवितव्यम् ॥ (6012 प्रत्याक्षेपनिरासवार्तिकम् ॥ 4 ॥) - सिद्धं तूत्तरपदवचनात् - सिद्धमेतत् । कथम् ? उत्तरपदवचनात् । पुत्रपत्योरुत्तरपदयोरिति वक्तव्यम् । तत्तर्हि वक्तव्यम् ? न वक्तव्यम् । पूर्वपदमुत्तरपदमिति संबन्धिशब्दावेतौ । सति पूर्वपद उत्तरपदं भवति, सति चोत्तरपदे पूर्वपदमिति, न चात्र पुत्रपती उत्तरपदे ॥ इहापि तर्हि न प्राप्नोति -कारीषगन्धीपुत्रः, कारीषगन्धीपतिरिति । किं कारणम् ? पूर्वपदमित्युच्यते, न ह्यत्र ष्यङ् पूर्वपदमस्ति, ष्यङन्तमेतत्पूर्वपदम् । कथम् ? प्रत्ययग्रहणे यस्मात्स तदादेर्ग्रहणं भवतीति ॥ यदि प्रत्ययग्रहणे यस्मात्स तदादेर्ग्रहणं भवतीत्युच्यते, परमकारीषगन्धीपुत्रः - परमकारीषगन्धीपतिरिति न सिद्ध्यति । प्रत्ययग्रहणे यस्मात्स तदादेर्ग्रहणं भवत्यस्त्रीप्रत्ययेनेति ॥ यद्यस्त्रीप्रत्ययेनेत्युच्यते, अतिक्रान्तः कारीषगन्ध्यामतिकारीषगन्ध्यः, तस्य पुत्रः - अतिकारीषगन्ध्यपुत्रः, अतिकारीषगन्ध्यपतिः - इत्यत्रापि प्राप्नोति । अस्त्रीप्रत्ययेनानुपसर्जनेन । यो ह्युपसर्जनं स्त्रीप्रत्ययो भवत्येषा तत्र परिभाषा - प्रत्ययग्रहणे यस्मात्स तदादेर्ग्रहणं भवतीति ॥ (अतिप्रसङ्गापादकभाष्यम्) ष्यङन्ते यावन्तो यणस्तेषां सर्वेषां संप्रसारणं प्राप्नोति । वाराहीपुत्रः, तार्णकर्णीपुत्रः । तत्राप्रत्ययस्थस्य प्रतिषेधो वक्तव्यः ॥ (6013 अतिप्रसङ्गापोहवार्तिकम् ॥ 5 ॥) - यथागृहीतस्यादेशवचनादप्रत्ययस्थे सिद्धम् - निर्दिश्यमानस्यादेशा भवन्तीत्येवमप्रत्ययस्थस्य न भविष्यति ॥ (6014 अतिप्रसङ्गापोहे सिद्धान्तवार्तिकम् ॥ 6 ॥) - अनन्त्यविकारेऽन्त्यसदेशस्य वा - अथवा - अनन्त्यविकारेऽन्त्यसदेशस्य कार्यं भवतीत्येषा परिभाषा कर्तव्या ॥ कः पुनरत्र विशेषः - एषा वा परिभाषा क्रियेत, अप्रत्ययस्थस्य वा प्रतिषेध उच्येत ? अवश्यमेषा परिभाषा कर्तव्या, बहून्येतस्याः परिभाषायाः प्रयोजनानि । कानि ? (6015 परिभाषाप्रयोजनवार्तिकम् ॥ 7 ॥) - प्रयोजनं न संप्रसारणे संप्रसारणम् - न संप्रसारणे संप्रसारणम् (6.1.37) इत्येतन्न वक्तव्यं भवति । कथं व्यधेर्विद्ध इति ? अनन्त्यविकारेऽन्त्यसदेशस्य कार्यं भवतीति न दोषो भवति । नैतदस्ति प्रयोजनम् । क्रियते न्यास एव ॥ (6016 परिभाषाप्रयोजनवार्तिकम् ॥ 8 ॥) - सान्तमहतो दीर्घत्वे - सान्तमहतो दीर्घत्वे प्रयोजनम् । पयांसि, यशांसि । प इत्यस्यापि प्राप्नोति । अनन्त्यविकारेऽन्त्यसदेशस्य कार्यं भवतीति दोषो न भवति ॥ एतदपि नास्ति प्रयोजनम् । नोपधायाः (6.4.7) इति तत्र वर्तते ॥ एवमप्यनांसि मनांसीत्यत्रापि प्राप्नोति । सान्तसंयोगेनोपधां विशेषयिष्यामः - सान्तसंयोगस्य नोपधाया इति ॥ एवमपि हंसशिरांसि - ध्वंसशिरांसि - अत्रापि प्राप्नोति । नैष दोषः । हम्मतेः हंसः । कः पुनराह - हम्मतेर्हंस इति ? किं तर्हि ? हन्तेर्हंसः, हन्त्यध्वानमिति ॥ एवं तर्हि सर्वनामस्थान इति वर्तते । सर्वनामस्थानपरतया सान्तसंयोगं विशेषयिष्यामः, सान्तसंयोगेन नोपधाम् - सर्वनामस्थानपरस्य सान्तसंयोगस्य नोपधाया इति ॥ (6017 प्रयोजनवार्तिकम् ॥ 9 ॥) - अन्कारान्तस्योल्लोपे - अन्कारान्तस्याल्लोपे प्रयोजनम् । तक्ष्णा, तक्ष्णे - इति त इत्यत्रापि प्राप्नोति । अनन्त्यविकारेऽन्त्यसदेशस्य कार्यं भवतीति न दोषो भवति ॥ एतदपि नास्ति प्रयोजनम् । अनाऽकारं विशेषयिष्यामः - अनो योऽकार इति ॥ एवमप्यनसा, अनसे - इत्यत्रापि प्राप्नोति । अन्कारेणाङ्गं विशेषयिष्यामः, अना अकारम् - अन्कारान्तस्याङ्गस्यानो योऽकार इति ॥ एवमप्यनस्तक्ष्णा, अनस्तक्ष्णे - इत्यत्रापि प्राप्नोति । एवं तर्हि कार्यकालं संज्ञापरिभाषम् यत्र कार्यं तत्रोपस्थितं द्रष्टव्यम् । भस्येति तत्रोपस्थितमिदं भवति यचि भम् (1.4.18) इति तत्र यजादिपरतयाऽन्कारं विशेषयिष्यामः, अनाऽकारम् - यजादिपरस्यानो योऽकार इति ॥ (6018 प्रयोजनवार्तिकम् ॥ 10 ॥) - मृजेर्वृद्धिविधौ - मृजेर्वृद्धिविधौ प्रयोजनम् । न्यमार्ट् । अटोऽपि वृद्धिः प्राप्नोति । अनन्त्यविकारेऽन्त्यसदेशस्य कार्यं भवतीति न दोषो भवति ॥ एतदपि नास्ति प्रयोजनम् । यथापरिभाषितं इको गुणवृद्धी (1.1.3) इति, इक एव वृद्धिर्भविष्यति ॥ एवमपि मिमार्जिषतीत्यत्र प्राप्नोति । अस्तु । अभ्यासनिर्ह्रासेन ह्रस्वो भविष्यति ॥ (6019 प्रयोजनवार्तिकम् ॥ 11 ॥) - वसोः संप्रसारणे च - वसोः संप्रसारणे च प्रयोजनम् । विदुषः पश्य । विदिवकारस्यापि प्राप्नोति । अनन्त्यविकारेऽन्त्यसदेशस्येति न दोषो भवति ॥ एतदपि नास्ति प्रयोजनम् । न संप्रसारणे संप्रसारणम् (6.1.37) इति प्रतिषेधो भविष्यति । इद्कारेण व्यवहितत्वान्न प्राप्नोति । एवं तर्हि निर्देश्यमानस्यादेशा भवन्तीति न भविष्यति ॥ (6020 प्रयोजनवार्तिकम् ॥ 12 ॥) - युवादीनाञ्च - युवादीनां च संप्रसारणे प्रयोजनम् । यूनः, यूना, यूने । यकारस्यापि प्राप्नोति । अनन्त्यविकारेऽन्त्यसदेशस्येति न दोषो भवति ॥ एतदपि नास्ति प्रयोजनम् । न संप्रसारणे संप्रसारणम् इति न भविष्यति । उकारेण व्यवहितत्वान्न प्राप्नोति । एकादेशे कृते नास्ति व्यवधानम् । एकादेशः पूर्वविधौ स्थानिवद्भवतीति स्थानिवद्भावाद्व्यवधानमेव । एवं तर्हि समानाङ्गग्रहणं तत्र चोदयिष्यति ॥ (6021 प्रयोजनवार्तिकम् ॥ 13 ॥) - र्वोरुपधाग्रहणं च - र्वोश्चोपधाग्रहणं न कर्तव्यं भवति - र्वोरुपधाया दीर्घ इकः (8.2.76) इति । इह कस्मान्न भवति - अबिभर्भवान् ? अनन्त्यविकारेऽन्त्यसदेशस्येति न दोषो भवति ॥ एतदपि नास्ति प्रयोजनम् । क्रियते न्यास एव ॥ (6022 अनन्त्यविकारेतिस्वीकारे दोषापादकवार्तिकम् ॥ 14 ॥) - आदित्यदादिविधिसंयोगादिलोपकुत्वढत्वभष्भावषत्वणत्वेष्वतिप्रसङ्गः - आदिविधावतिप्रसङ्गो भवति । धात्वादेः षः सः (6.1.14) णो नः (65) इहैव स्यात् - नेता, सोता । इह न स्यात् - नमति, सिञ्चतीति । आदि ॥ त्यदादिविधि । इहैव स्यात् - तद्, सः । त्यद्, स्यः - इत्यत्र न स्यात् । त्यदादिविधि ॥ संयोगादिलोप । इहैव स्यात् - मङ्क्ता । मङ्क्तव्यमित्यत्र न स्यात् । संयोगादिलोप ॥ कुत्व । इहैव स्यात् - पक्ता । पक्तव्यमित्यत्र न स्यात् । कुत्व ॥ ढत्व । इहैव स्यात् - लेढा । लेढव्यमित्यत्र न स्यात् । ढत्व ॥ भष्भाव । इहैव स्यात् - अभुत्सि । अभुत्सातामित्यत्र न स्यात् । भष्भाव ॥ षत्व । इहैव स्यात् - द्रष्टा । द्रष्टव्यमित्यत्र न स्यात् । षत्व ॥ णत्व । इहैव स्यात् - माषवापेण । माषवापाणामित्यत्र न स्यात् । णत्व ॥ (परिभाषाविषये सिद्धान्तभाष्यम्) एते दोषाः समा भूयांसो वा, तस्मान्नार्थोऽनया परिभाषया ॥ न हि दोषाः सन्तीति परिभाषा न वक्तव्या, लक्षणं वा न प्रणेयम् । न हि भिक्षुकाः सन्तीति स्थाल्यो नाधिश्रीयन्ते । न च मृगाः सन्तीति यवा नोप्यन्ते । दोषाः खल्वपि साकल्येन परिगणिताः । प्रयोजनानामुदाहरणमात्रम् । कुत एतत् ? न हि दोषाणां लक्षणमस्ति । तस्माद्यान्येतस्याः परिभाषायाः प्रयोजनानि तदर्थमेषा परिभाषा कर्तव्या, प्रतिविधेयं दोषेषु । इदं प्रतिविधीयते - (6023 परिभाषादोषनिरासवार्तिकम् ॥ 15 ॥) - उदात्तनिर्देशात् सिद्धम् - यत्रैषा परिभाषेष्यते तत्रोदात्तनिर्देशः कर्तव्यः । ततो वक्तव्यम् - अनन्त्यविकारेऽन्त्यसदेशस्य कार्यं भवत्युदात्तनिर्देश इति ॥ (परिभाषाऽर्थबोधकभाष्यम्) स तर्ह्युदात्तनिर्देशः कर्तव्यः । न कर्तव्यः । यत्रैवान्त्यसदेशश्चानन्त्यसदेशश्च युगपत्समवस्थितौ तत्रैषा परिभाषा भवति, दोषेषु च - अन्यत्रान्त्यसदेशः, अन्यत्रानन्त्यसदेशः । प्रयोजनेषु पुनस्तत्रैवान्त्यसदेशश्चानन्त्यसदेशश्च ॥ तथाजातीयकानि खल्वत्याचार्येण प्रयोजनानि पठितानि, यान्युभयवन्ति भवन्ति । इदमेकं यथा दोषास्तथा र्वोरुपधाग्रहणमिति । अविभर्भवान् । तच्चापि क्रियते न्यास एव ॥
Kashika¶
पुत्र पति इत्येतयोरुत्तरपदयोस्तत्पुरुषे समासे ष्यङः संप्रसारणं भवति। यणः स्थान इग् भवतीत्यर्थः। कारीषगन्धीपुत्रः। कारीषगन्धीपतिः। कौमुदगन्धीपुत्रः। कौमुदगन्धी — पतिः। करीषस्येव गन्धोऽस्य, कुमुदस्येव गन्धोऽस्येति बहुव्रीहिः, तत्र उपमानाच्च (५.४.१३७) इति गन्धस्येदन्तादेशः। करीषगन्धेरपत्यमित्यण्, तदन्तात् स्त्रियाम् अणिञोरनार्षयोर्गुरूपोत्तमयोः ष्यङ् गोत्रे (४.१.७८) इति ष्यङ्, ततश्चापि विहिते षष्ठीसमासः, संप्रसारणस्य (६.३.१३९) इति दीर्घत्वम्। ष्यङ इति किम् ? इभ्यापुत्रः। क्षत्रियापुत्रः। पुत्रपत्योरिति किम् ? कारीषगन्ध्याकुलम्। कौमुदगन्ध्याकुलम्। तत्पुरुष इति किम् ? कारीषगन्ध्या पतिरस्य ग्रामस्य, कारीषगन्ध्यापतिरयं ग्रामः। ष्यङ इति स्त्रीप्रत्ययग्रहणं न स्त्रीप्रत्यये चानुपसर्जने इति प्रत्ययग्रहणपरिभाषया यस्मात् स विहितस्तदादेः० इत्येष नियमो नास्ति। तेन परमकारीषगन्ध्यायाः पुत्रः परमकारीषगन्धीपुत्रः, परमकारीषगन्धीपतिरित्यपि भवति। उपसर्जने तु ष्यङि न भवति — अतिक्रान्ता कारीषगन्ध्यामतिकारीषगन्ध्या, तस्याः पुत्रोऽतिकारीषगन्ध्यापुत्रः, अतिकारीषगन्ध्यापतिः। पुत्रपत्योः केवलयोरुत्तरपदयोरिदं संप्रसारणम्, तदादौ तदन्ते च न भवति — कारीषगन्ध्यापुत्रकुलम्, कारीषगन्ध्यापरमपुत्र इति। ष्यङन्ते च यद्यप्यन्ये यणः सन्ति, तथापि ष्यङ एव संप्रसारणम् — निर्दिश्यमानस्यादेशा भवन्ति इति। संप्रसारणमिति चाधिक्रियते विभाषा परेः (६.१.४४) इति यावत्॥
Siddhanta Kaumudi¶
ष्यङन्तस्य पूर्वपदस्य सम्प्रसारणं स्यात्पुत्रपत्योरुत्तरपदयोस्तत्पुरुषे ॥
Balamanorama¶
ष्यङः सम्प्रसारणं पुत्रपत्योस्तत्पुरुषे - संप्रसारणस्य दीर्घ इति । ‘ढ्रलोपे’ इत्यतस्तदनुवृत्तेरिति भावः । उत्तरपदे इति । ‘अलुगुत्तरपदे’ इति तदधिकारादिति भावः । कौमुदगन्ध्यायाः पुत्र इति । विग्रहवाक्यमिदम् । कुमुदगन्ध इव गन्धो यस्य स कुमुदगन्धिः ।सप्तम्युपमानपूर्वपदस्य बहुव्रीहिर्वाच्यो वा चोत्तरपदलोपः॑ इति बहुव्रीहिः, कुमुदगन्धशब्दे पूर्वखण्डे उत्तरस्य गन्धशब्दस्य लोपश्च ।उपमानाच्चे॑तीत्त्वम् । कुमुदगन्धेरपत्यं स्त्रीत्यर्थे तस्यापत्यमित्यण् ।अणिञोरनार्षयो॑रिति तस्य ष्यङादेशः ।यस्येति चे॑तीकारलोपः । आदिवृद्धिः ।यङ्श्चाप् । कौमुदगन्ध्याशब्द इति भावः । कौमुदगन्ध्यायाः पुत्र इति । षष्ठीसमासः । सुब्लुकिकौमुदगन्ध्या-पुत्र॑ इति स्थिते ष्यङः संप्रसारणेन यकारस्य इकारः । तस्य, तदुत्तराऽऽकारस्य चसंप्रसारणाच्चे॑ति पूर्वरूपेण इकारेसंप्रसारणस्ये॑ति दीर्घे ‘कौमुदगन्धीपुत्र’ इति रूपमिति भावः । ‘हलः’ इति दीर्घस्य तु नात्र प्रसक्तिः, संप्रसारणात् पूर्वस्य हलः संप्रसारमनिमित्तनिरूपिताङ्गावयवत्वाऽभावात् ।कौमुदगन्धीपतिरिति । कौमुदगन्ध्यायाः पतिरिति विग्रहः । पूर्ववत्प्रक्रिया ।इको ह्रस्वोऽङ्यो गालवस्ये॑ति पाक्षिकं ह्रस्वम#आशङ्क्याह — व्यवस्थितविभाषया ह्रस्वो नेति । अत्र तु व्याख्यानमेव शरणम् । स्यादेतत् । करीषं — गोमहिषादिषुरीषम्, करीषगन्ध इव गन्धो यस्य सः करीषगन्धिः, तस्यापत्यं स्त्री — कारीषगन्ध्या, परमा चासौ कारीषगन्ध्या च परमकारीषगन्ध्या, तस्याः पुत्रः परमकारीषगन्धीपुत्र इत्यत्रापि ष्यङः संप्रसारणं, तस्य दीर्घश्चेति स्थितिः । अत्र संप्रसारणं दुर्लभम् । ष्यङः करीषगन्धिशब्दादेव विहितत्वेन परमकारीषगन्ध्याशब्दस्य पूर्वपदस्य ष्यङन्तत्वाऽभावात्प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य च ग्रहणादित्यत आह — स्त्रीप्रत्यये चेति । ष्यः स्त्रियां विहितत्वात्स स्त्रीप्रत्ययः । ततश्चस्त्रीप्रत्यये चानुपसर्जने ने॑ति परभाषया तदादिनियमाऽभावात्परमकारीषगन्ध्याशब्दोऽपि ष्यङन्त एवेति तत्र संप्रसारणे दीर्घे चपरमकारीषगन्धीपुत्र॑ इति रूपमिति भावः । इयं परिभाषाष्यङः संप्रसारण॑मिति प्रकृत सूत्रेभाष्ये पठिता । तत्रानुपसर्जनग्रहणस्य प्रयोजनमाह — उपसर्जने त्विति । कारीषगन्ध्यामतिक्रान्तः अतिकारीषगन्ध्यः,अत्यादयः॑इति समासे, उपसर्जनह्रस्वः । तस्य पुत्रोऽतिकारीषगन्ध्यपुत्रः । अत्रस्त्रीप्रत्यये तदादिनियमो ने॑ति निषेध#ओ न भवति, अनुपसर्जन एव स्त्रीप्रत्यये तस्य निषेधस्य प्रवृत्तेः । ष्यङ् त्वयं स्त्रीप्रत्ययोऽत्र उपसर्जन एव । अतस्तत्र तदादिनियमसत्त्वादतिकारीषगन्ध्यशब्दो नैव ष्यङन्त इति न संप्रसारणमिति भावः ।
Tattvabodhini¶
ष्यङः सम्प्रसारणं पुत्रपत्योस्तत्पुरुषे - ष्यङः । इह तत्पुरुषपदेन पूर्वपदमुत्तरपदं चाक्षिप्यते, तत्र ष्याङा पूर्वपदस्य विशेषणात्तदन्तं गृह्रत इत्याह — ष्यङन्तस्येति । पुत्रपत्योरुत्तरपदयोरिति ।पुत्रपत्यन्तयो॑रिति व्याख्याने तुकारीषगन्ध्यापरमपुत्रः॑इत्यादावतिप्रसङ्गः स्यादिति भावः ।
Padamanjari¶
ठिग्यणः संप्रसारणम्ऽ इत्यत्रोक्तम् -ठ्वाक्यार्थः संज्ञी वर्णश्चऽ इति, तत्र विधौ वाक्यार्थ उपतिष्ठते इति तदाश्रयेणाऽऽह -यणः स्थान इग्भवतीत्यर्थ इति। तदन्तात् ष्यङिति। ष्यङ्विधावादेशपक्षस्य स्थित्वाल्ल्यब्लोप एषा पञ्चमी, तदन्तमाश्रित्येत्यर्थः। अतद्गुणसंविज्ञानेऽत्र बहुव्रीहिः, अण् प्रत्ययोऽन्तः समीपो यस्य कारीषगन्धेस्तस्मात्परः ष्यङ्त्यिर्थः। प्रत्ययपक्ष एव वामनाचार्यस्य तत्राभिमतः। तथा च’ये च तद्धिते’ इत्यत्र वक्ष्यति -ठणिञन्ताद्वा परः ष्यङ् प्रत्यय एषितव्यःऽ इति। इभमर्हतीतीभ्या,’दण्डादिभ्यो यः’ इह कारीषगन्ध्यामतिक्रान्तस्य पुत्रोऽतिकारीषगन्ध्यापुत्र इति प्रत्यग्रहणपरिभाषया समुदायस्याष्यङ्न्तत्वेऽपि योऽत्रष्यङ्न्तस्तस्य प्रसङ्गः। तथा पुत्रस्य कुलं पुत्रकुलम्, कारीषगन्ध्यापुत्रकुलमिति वर्णग्रहणे तदादिविधिविज्ञानादिह च तदभावातदादिविध्यभावेऽपि पुत्रपत्यानन्तर्याश्रयं संग्रसारणं प्राप्नोति। नात्र तर्हीदानीमिदं भवति -कारीषगन्धीपुत्रकुलमिति। भवति च यदैतद्वाक्यं भवति -कारीषगन्धायाः पुत्रः कारीषगन्धीपुत्रस्तस्य कुलं कारीषगन्धीपुत्रकुलमिति। न सिध्यतीति चोद्यार्थः। तथा-अतिकारीषगन्ध्यापुत्रकुलमित्यादावपि सर्वत्र पुत्रपत्योः ष्यङ्न्तस्य चानन्तर्यमाश्रित्य सम्प्रसारणप्रसङ्गः। स्यादेतत् -यथा वृक्षे शाखेति वृक्षः शाखाया अवयवी प्रतीयते, तथेहापि, ष्यङ्न्तस्य पुत्रपत्योश्च तत्पुरुषः, तत्र प्रत्यासत्या यस्य तत्पुरुषस्य प्यङ्न्तोऽवयवस्तस्यैव पुत्रपती इति गम्यते, इह न तथेति? एवमप्यवयवावयवस्य समुदायावयवत्वादस्त्येव प्रसङ्गः? नैष दोषः; पुत्रपत्योरिति सप्ततीनिर्द्देशात् ष्यङ्न्तस्य पुत्रपत्योश्च पौर्वापर्यं प्रतीयते, पूर्वोक्तेन न्यायेन तत्पुरुषावयवत्वं च। तत्पुरुषश्च पौर्वापर्यावस्थितावयवद्वयात्मकः। तदिह तत्पुरुषावयवयोः पौर्वापर्योणावस्थितयोरिदं भवतीत्युक्ते ययोः स तत्पुरु,स्तावेताविति गम्यते, ष्यङ्न्तस्य पूर्वपदस्य पुत्रपत्योरुतरपदयोरित्यर्थः। समासे च यसामाच्च पूर्वं नास्ति तत्पूर्वपदम्, यस्माच्च परं नास्ति तदुतरपदम्, - यत् ष्यङ्न्तं न तत्पूर्वपदम्, यच्चोतरपदं न तत्पुत्रपत्यात्मकम्, यच्च पुत्रपत्यात्मकं न तदुतरपदमिति नास्ति प्रसङ्गः। इहापि तर्हि न प्राप्नोति -परमकारीषगन्धीपुत्र इति? तत्राह - प्यङ् इति स्त्रीप्रत्ययग्रहणमिति।’स्त्रियाम्’ इति प्रकृत्य विहितत्वात्स्थानिवद्भावेन स्वयमेव वा प्रत्ययत्वाच्च स्त्रीप्रत्ययत्वम्। यदि स्त्रीप्रत्ययग्रहणम्, ततः किम्? इत्यत आह-तेनेति। अप्रधानमूपसर्जनम्। एतदुक्तं भवति -यत्रार्थे स्त्रीप्रत्ययो विहितः स यावति तदन्ते प्राधान्येनोच्यते तावान्समुदायस्तदन्ततया ग्राह्यः। अप्रधाने च यतो विहितस्तदादिके च तदन्ते च न भवति। यदा तत्पुरुषाक्षिप्तमुतरपदं पुत्रपतिभ्यां विशेष्यते तदा तदन्ते प्रसङ्गः, इह तूतरपदेन पुत्रपती विशेष्येते इति भावः। निर्दिश्यमानस्येति। एतच्च’षष्ठीस्थाने योगा’ इत्यत्र व्याख्यातम्। ठनन्त्यविकारेऽन्त्यसदेशस्यऽ इति तु परिभाषा प्रयोजनाबावान्नाश्रिता। सम्प्रसारणग्रहणमुतरार्थम्। इह त्वीशापि सिद्धम्, शकारः सर्वादेशार्थः। तत्रायमप्यर्थः -सम्प्रसारणस्येति योगविभागेन दीर्घत्वं न विधेयं भवति, तदेवोतरार्थत्वं दर्शयति -सम्प्रसारणमिति चेत्यादि। पूर्वं यत्र ष्यङ्न्तं पदमुपरितनं पुत्रपत्यात्मकं स्याद् दृष्ट्वा तत्र ष्यङ् तत्पुरुष इह यण स्थान इग्भावनीयः। यत्रार्थे ष्यङ् स यावत्यपि सति न गुणोऽसाविहेष्टस्तदन्ते यत्रेत्यर्थः प्रधानो न भवति स यतः ष्यङ् तदाद्येव तत्र ॥
Nyaas¶
सम्प्रसारणमिति यण्स्थानिकस्येक एषा संज्ञा विहिता, वाक्यार्थस्य च। इग्यणः (1.1.44) इति योऽयं वाक्यार्थः स्थान्यादेशसम्बन्धलक्षणस्तस्य तत्र चेदमुक्तमनुवादे वर्ण उपतिष्ठते, विधौ तु वाक्यार्थ इति; विधिश्चायम्, अतो वाक्यार्थस्यैवोपस्थानमित्याह -यणः स्थाने इत्यादि। ततश्चापि विहिते इति। यङ्श्चाप् (4.1.74) इत्येनेन। इभ्यापुत्रः इति। इभमैइतीति दण्डादिभ्यः (5.1.66) । क्षत्रियापुत्रः इति। क्षतत्रस्यापत्यमिति क्षत्रात्? धः (4.1.138) इति धः। ष्यङः इति प्रत्ययग्रहणमिदम्, तत्र प्रत्यग्रहणपरिभाषाया (पु।प।वृ।44) अपस्थानाद्? यस्मात्? स विहितस्तदादेस्तदन्तस्येति तदादितदन्तग्रहणमिहैव स्यात् -कारीषगन्धीपुत्र इति, इह तु न स्यात् -परमकारोषगन्धीपुत्र इति; कारीषगन्धशब्दाद्धि ष्यङ् विहितः, न परमकारीषगन्धशब्दात्? अत इदं द्वेष्यमपाकर्त्तु माह -ष्यङिति स्त्रीप्रत्ययग्रहणम् इति स्त्रियाम् (4.1.3) इत्यधिकृत्य विहितत्वात्। स्त्रीत्वं स्थानिवद्बावेन च प्रत्ययत्वं ष्यङः, न हि तस्यान्यथा स्त्रीप्रत्ययत्वमुपपद्यते; आदेशपक्षस्य च तत्राश्रितत्वात्। यदि स्त्रीप्रत्ययग्रहणमेतत्; ततश्च किमिति? तदादिनियमो न भवति; यतोऽधिकस्याप्यत्र ग्रहणं स्यात्, अतिप्रसङ्गो वा। असति हि नियमे यथेह भवति -परमकारीषगन्धीपुत्र इति, तथेहापि स्यात् -अतिकारीषग्न्ध्यापुत्र इति, अत आह -नस्त्रीप्रत्यये च इत्यादि। प्रत्यग्रहणपरिभाषाया न स्त्रीप्रत्यये चानुपसर्जने (पु।प।वृ।45) इत्ययमपवादः कृतः। तेन यत्रानुपसर्जनः स्त्रीप्रत्ययस्तत्रैषा प्रत्ययग्रहणपरिभाषां न प्रवर्तत इति तदादिनियमो नास्ति, तेन परमकारीषन्धीपुत्र इत्यत्र भवत्येव। अत्र हि परमाचासौ कारीषगन्ध्य#आ चेति सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः (2.1.61) इत्यादिना समासः, स्त्रीप्रत्ययस्य प्राधान्यम्, स्त्रियाः पुंवत् (6.3.33) इत्यादिना पुंवद्भावः। यत्र तूपसर्जनं स्त्रीप्रत्ययस्तत्रानुपर्जन इति वचनादुपतिष्ठत एवैषा परिभावा। तेन भवत्येवात्र तदादिनियमः। तेनेह न भवति -अतिकारीषन्ध्यापुत्र इति। अत्र हि कारीषगन्ध्यामतिक्रान्त इति प्रादिसमासः। अत्र योसावतिक्रान्तः स प्रधानम्, कारिषगन्ध्या तूपसर्जनम्। अत एव गोस्त्रियोरुपसर्जनस्य (1.2.48) इति ह्रस्वो भवति। पुत्रपत्योः सम्प्रससारणे तदादावतिप्रसङ्गः। इहापि प्राप्नोति -कारीषगन्ध्यापुत्रकुलमिति। तथा हि -पुत्रपत्योरिति सप्तमी कार्यिण आनन्तर्यमाचष्टे, ततश्च शुद्धयोस्तदादौ चाविशिष्टम्। अथापि कथञ्चित्? तदादौ न स्यात्, एवमपि येन विधिस्तदन्तस्य (1.1.72) इति तदन्तेऽतिप्रसङ्ग इहापि प्राप्नोति -करीषगन्ध्या परमपुत्र इति।विधिविधानविधिभाजां त्रयाणां सन्निधाने तदन्तर्विधिर्भवति। ते चेह सन्ति -विधिः सम्प्रसारणम्, विधिभाक्? ष्यङ्, विधानं पतिपुत्रशब्दौ। इह च तत्पुरुषेमाव्यभिचारात्? सन्निधापितं यदुत्तरपदं तत्? पुत्रपतिशब्दाभ्यां विशेष्यते, विशेषणेन च तदन्तर्विधिर्भवतीति पुत्रशब्दान्ते पतिशब्दान्ते चोत्तरपदे सम्प्रसारणं भवतीति कस्यचित्? भ्रान्तिः स्यात्, अस्तां निराकर्त्तुमाह -पुत्रपत्योः इत्यादि। एवं मन्यते -तत्पुरुषोऽत्र पुत्रपत्योः ष्यङ्श्चाधिकरणभूतो निर्दिश्यमानस्तत्पुरुषावयवत्वं पुत्रपत्योः ख्यापयति, तद्यथा -वृक्षे शाखेति। वृक्षः शाखाया अधिकरणत्वेन निर्दिश्यमानः शाखायाः वृक्षावयवत्वं बोधयति; तत्र प्रत्यासत्तेः। यत्र तत्पुरुषे ष्यङ् कार्यभागवयवः स्थितः, तस्यैव तत्पुरुषस्य याववयवौ पुत्रपती तयोरेव ग्रहणम्, न तु पुत्रपत्यादावुत्तरपदे यौ पुत्रपतिशब्दौ तौ तस्यैव ष्यङः पूर्वपदस्य तत्परुरुषस्यावयवौ। अति तु तत्पुरुषान्तरस्यापि पुत्रकुलशब्दस्य पतिकुलशब्तदस्य च। तस्मात्? तदादौ तावन्न भवत्यतिप्रसंगः। तदन्तेऽपि न भवत्येव; यस्मादिह पुत्रपतिग्रहणं यच्च ततपुरुषेण सन्धापितमुत्तरपदं तयोर्विशेषणविशेष्यभावं प्रति कामचारः। तत्र यदीहोत्तरपदं पुत्रपतिशब्दाभ्यां विशिष्येत तदा स्यात्? तदन्तविधिः, विशेषणेन तदन्तविधिर्भवतीति कृत्वा। न चेह ताभ्यां तद्विशिष्यते, अपि तु तावेव तेन; ततश्च तदन्तरविधेरभावात्? केवलयोरेवेदं विशेषणं भवतीति कुतस्तदन्तोऽतिप्रसङ्ग? ननु च यद्युत्तरपदेन पुत्रपती विशिष्येते तेन तयोस्तदन्तता विज्ञायते, ततश्चोत्तरपदपदान्तयोरेव ग्रहणं, न केवलयोः, एवञ्च तदादावतिप्रसङ्गः? नैतदस्ति; न हि पुत्रपतिशब्दावुत्तरपदान्तौ सम्भवतः। यस्मादयमन्तशब्दोऽवयववचनः। न च पुत्रपतिशब्दयोरहुत्तरपदमवयवः। किं तर्हि? समासस्य, न च तौ समासौ। तस्मानन्नैवं विज्ञायते - उत्तरपदान्तयोःस पुत्रपतिशब्दयोरिति, किं तर्हि? पुत्रपत्योरेवोत्तरपदयोः केवलयोरिति। येन विधिस्तदन्तस्य (1.1.72) इति तदन्तविधिनाऽत्र ष्यङन्तस्य सम्प्रसारणं विज्ञायते, ततश्च वाराहीपुत्र इत्यत्र वकारसयापि सभ्प्रसारणं प्राप्नोतीत्यत आह -ष्यङ्न्ते च इत्यादि। तत्रैव कारणमाह -निर्दिश्यमानस्य इत्यादि। सम्प्रसारणगरहणमुत्तरार्थम्। अति हिकारग्रहणेनापि सिध्यत्येव। तां चोत्तरार्थतां तत्रैव दर्शयिष्यामः। तामेवोत्तरार्थतां सूचयन्नाह -सम्प्रसारणम् इत्यादि॥बाल-मनोरमाष्यङः संप्रसारणं पुत्रपत्योस्तत्पुरुषे 988, 6.1.13 ष्यङः संप्रसारणं। प्रत्ययग्रहणपरिभाषया ष्यङ इति तदन्तग्रहणम्। तदाह -ष्यङन्तस्य पूर्वपदस्येति। तस्य सूत्रस्य उत्तरपदाधिकारस्थत्वेऽपि तत्पुरुषग्रहणेन पूर्वपदलाभ इति भावः। उत्तरपदयोरिति। इदमपि तत्पुरुषपदलभ्यम्। यद्वा उत्तरपदाधिकारेण पूर्वपदमाक्षिप्यते। बाल-मनोरमासंप्रसारणं पुत्रपत्योस्तत्पुरुषे 989, 6.1.13 संप्रसारणस्य दीर्घ इति। ढ्रलोपे इत्यतस्तदनुवृत्तेरिति भावः। उत्तरपदे इति। अलुगुत्तरपदे इति तदधिकारादिति भावः। कौमुदगन्ध्यायाः पुत्र इति। विग्रहवाक्यमिदम्। कुमुदगन्ध इव गन्धो यस्य स कुमुदगन्धिः। सप्तम्युपमानपूर्वपदस्य बहुव्रीहिर्वाच्यो वा चोत्तरपदलोपः इति बहुव्रीहिः, कुमुदगन्धशब्दे पूर्वखण्डे उत्तरस्य गन्धशब्दस्य लोपश्च। उपमानाच्चे`तीत्त्वम्। कुमुदगन्धेरपत्यं स्त्रीत्यर्थे तस्यापत्यमित्यण्। `अणिञोरनार्षयो`रिति तस्य ष्यङादेशः। `यस्येति चे`तीकारलोपः। आदिवृद्धिः। `यङ्श्चाप्। कौमुदगन्ध्याशब्द इति भावः। कौमुदगन्ध्यायाः पुत्र इति। षष्ठीसमासः। सुब्लुकि `कौमुदगन्ध्या-पुत्र इति स्थिते ष्यङः संप्रसारणेन यकारस्य इकारः। तस्य, तदुत्तराऽऽकारस्य च संप्रसारणाच्चे`ति पूर्वरूपेण इकारे `संप्रसारणस्ये`ति दीर्घे `कौमुदगन्धीपुत्र इति रूपमिति भावः। हलः इति दीर्घस्य तु नात्र प्रसक्तिः, संप्रसारणात् पूर्वस्य हलः संप्रसारमनिमित्तनिरूपिताङ्गावयवत्वाऽभावात्।कौमुदगन्धीपतिरिति। कौमुदगन्ध्यायाः पतिरिति विग्रहः। पूर्ववत्प्रक्रिया। इको ह्रस्वोऽङ्यो गालवस्ये`ति पाक्षिकं ह्रस्वम#आशङ्क्याह -व्यवस्थितविभाषया ह्रस्वो नेति। अत्र तु व्याख्यानमेव शरणम्। स्यादेतत्। करीषं -गोमहिषादिषुरीषम्, करीषगन्ध इव गन्धो यस्य सः करीषगन्धिः, तस्यापत्यं स्त्री -कारीषगन्ध्या, परमा चासौ कारीषगन्ध्या च परमकारीषगन्ध्या, तस्याः पुत्रः परमकारीषगन्धीपुत्र इत्यत्रापि ष्यङः संप्रसारणं, तस्य दीर्घश्चेति स्थितिः। अत्र संप्रसारणं दुर्लभम्। ष्यङः करीषगन्धिशब्दादेव विहितत्वेन परमकारीषगन्ध्याशब्दस्य पूर्वपदस्य ष्यङन्तत्वाऽभावात्प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य च ग्रहणादित्यत आह -स्त्रीप्रत्यये चेति। ष्यः स्त्रियां विहितत्वात्स स्त्रीप्रत्ययः। ततश्च `स्त्रीप्रत्यये चानुपसर्जने ने`ति परभाषया तदादिनियमाऽभावात्परमकारीषगन्ध्याशब्दोऽपि ष्यङन्त एवेति तत्र संप्रसारणे दीर्घे च `परमकारीषगन्धीपुत्र इति रूपमिति भावः। इयं परिभाषा `ष्यङः संप्रसारण`मिति प्रकृत सूत्रेभाष्ये पठिता। तत्रानुपसर्जनग्रहणस्य प्रयोजनमाह -उपसर्जने त्विति। कारीषगन्ध्यामतिक्रान्तः अतिकारीषगन्ध्यः, `अत्यादयः`इति समासे, उपसर्जनह्रस्वः। तस्य पुत्रोऽतिकारीषगन्ध्यपुत्रः। अत्र `स्त्रीप्रत्यये तदादिनियमो ने`ति निषेध#ओ न भवति, अनुपसर्जन एव स्त्रीप्रत्यये तस्य निषेधस्य प्रवृत्तेः। ष्यङ् त्वयं स्त्रीप्रत्ययोऽत्र उपसर्जन एव। अतस्तत्र तदादिनियमसत्त्वादतिकारीषगन्ध्यशब्दो नैव ष्यङन्त इति न संप्रसारणमिति भावः।