61008: लिटि धातोरनभ्यासस्य¶
Padacheda: लिटि | S | 7 | 1 |
धातोः | S | 6 | 1 |
अनभ्यासस्य | S | 6 | 1 |
Sutrartha¶
लिट्-लकारे परे यस्य धातोः द्वित्वम् न कृतमस्ति तस्य द्वित्वं भवति ।
अस्मिन् सूत्रे ‘अनभ्यासः धातुः’ इति उक्तमस्ति । अस्य अर्थः - सः धातुः यः अभ्यासेन सह न आगच्छति । पूर्वोभ्यासः (6.1.4) इत्यनेन द्वित्वे कृते द्वयोः यः पूर्वः (प्रथमः), तस्य अभ्याससंज्ञा भवति । अतः यस्य धातोः द्वित्वं कृतं नास्ति, तादृशः धातुः अनभ्यासः धातुः इत्युच्यते । अस्य धातोः लिट्-लकारस्य प्रत्यये परे द्वित्वं भवति । यथा - पच्-धातोः लिट्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् - पच् + लिट् [परोक्षे लिट् (3.2.115) इति लिट्] → पच् + तिप् [तिप्तस्झि… (3.4.78) इति तिप्-प्रत्ययः] → पच् + णल् [परस्मैपदानां णलतुसुस्थलथुसणल्वमाः (3.4.82) इति तिप्-इत्यस्य णल्-आदेशः] → पच् + अ [इत्संज्ञालोपः] → पच् पच् + अ [अत्र पच्-धातोः द्वित्वम् कृतम् नास्ति, अतः लिट्-लकारस्य उपस्थितौ अस्य धातोः यः प्रथमः एकाच्-अवयवः ‘पच्’ तस्य लिटि धातोरनभ्यासस्य (6.1.8) इति द्वित्वम् भवति ] → प पच् + अ [हलादि शेषः (7.4.60) इति चकारलोपः] → प पाच् + अ [अतः उपधायाः (7.2.116) इति अङ्गस्य उपधा-अकारस्य वृद्धिः आकारः] → पपाच ज्ञातव्यम् - अनेन सूत्रेण निर्दिष्टम् द्वित्वम् एकाचो द्वे प्रथमस्य (6.1.1) अस्मिन् अधिकारे यथा निर्दिष्टमस्ति तथैव भवति ।
Sutrartha (English)¶
When followed by a प्रत्यय of लिट् लकार, a verb root that have not yet undergone द्वित्वम् undergoes द्वित्वम्.
Vasu English Summary¶
When the tense-affixes of the Perfect follow, there is reduplication of the root, which is not already reduplicated.
Vasu English Translation¶
When the tense-affixes of the Perfect follow, there is reduplication of the root, which is not already reduplicated. The reduplication is either of the first syllable or of the second syllable according as the root begins with a consonant or a vowel. Thus पच् + णल् = पच् पच् + णल् = पपाच ॥ So also पपाठ, प्रोर्ण्णुनाव ॥ In the case of ऊर्णु, Rule (3.1.36) does not apply, so the Perfect of this word is not formed by adding आम् and the auxiliary verbs कृ, भू and अस्; but regularly. In fact ऊर्णु is regarded as if it was नु ॥ See sutra (3.1.36) Vartika. वाच्य ऊर्णोर्णुवद् भावो यङ् प्रसिद्धिः प्रयोजनं, आमश्च प्रतिषेधार्थमेकाचश्चेडुपग्रहात् ॥
Why do we say when लिट् follows? Observe कर्त्ता, हर्त्ता ॥ Why do we say “of a Dhatu”? Observe ससृवांसो विशृण्विरे, सोममिन्द्रायसुन्विरे ॥ The question arises from the fact that the root (dhatu) always directly precedes the affixes of the Perfect, no vikarana intervenes as in the case of other tenses. So there was no necessity of using the word dhatu in the sutra. To this it is replied that by (3.4.117), sometimes लिट् is treated as sarvadhatuka, and then it takes vikarana. As श्रु taking the vikarana श्नु becomes शृणु; (3.1.74) this whole base is not a dhatu, therefore when the affixes of Perfect are added there is no reduplication, and we have शृन्विरे ॥ See (3.4.117).
Why do we say ‘of a non-reduplicate’? Observe कृष्णो नोनाव वृषभो यदीदम् । नोनूयतेर्नोनाव, i.e. it is the Perfect Tense of the Intensive verb नोनूय, and is not reduplicated again, यङ् having already caused reduplication. So also संमान्या मरुतः समिमिक्षुः ending in the उस् of the Perfect.
Vart:- In the Chhandas there is optionally reduplication of the root in the Perfect and other tenses. As आदित्यान् याचिषामहे or यियाचिषामहे; देवतानो दाति प्रियाणि or ददाति प्रियाणि ॥ मघवा दातु or ददातु, नस्तुतो वीरवद् धातु or दधातु ॥
Vart:- The root जागृ is optionally reduplicated in the Perfect. As, यो जागार (or जजागार) तमृचः कामयन्ते ॥
Bhashya¶
लिटि धातोरनभ्यासस्य (2445) (द्वित्वाधिकरणम्) (पदकृत्यभाष्यम्) धातोरिति किमर्थम् ? इर्हाञ्चक्रे । नैतदस्ति । लिटीत्युच्यते, न चात्र लिटं पश्यामः । प्रत्ययलक्षणेन । न लुमता तस्मिन् (1.1.63) इति प्रत्ययलक्षणप्रतिषेधः । इदं तर्हि - ससृवांसो विशृण्विरे ॥ (5989 उपसंख्यानवार्तिकम् ॥ 1 ॥) - लिटि द्विर्वचने जागर्तेर्वावचनम् - लिटि द्विर्वचने जागर्तेर्वेति वक्तव्यम् । यो जागार तमृचः कामयन्ते । यो जजागार तमृचः कामयन्ते । (पदकृत्यभाष्यम्) अनभ्यासस्येति किम् ? कृष्णो नोनाव वृषभो यदीदम् । नोनूयतेर्नोनाव ॥ (5990 अभ्यासप्रतिषेधानर्थक्यबोधकवार्तिकम् ॥ 2 ॥) - अभ्यासप्रतिषेधानर्थक्यं च छन्दसि वावचनात् - अभ्यासप्रतिषेधश्चानर्थकः । किं कारणम् ? छन्दसि वावचनात् । अवश्यं छन्दसि वा द्वे भवत इति वक्तव्यम् । किं प्रयोजनम् ? (5991 विकल्पप्रयोजनवार्तिकम् ॥ 3 ॥) - प्रयोजनमादित्यान्याचिषामहे - यियाचिषामह इति प्राप्ते । देवता नो दाति प्रियाणि, ददाति प्रियाणि । मघवा दातु, मघवा ददातु । स न स्तुतो वीरवद्धातु । वीरवद्दधातु ॥ (धातुग्रहणप्रत्याख्यानभाष्यम्) यावतेदानीं छन्दसि वा द्वे भवत इत्युच्यते धातुग्रहणेनापि नार्थः । कस्मान्न भवति - ससृवांसो विशृण्विर इति ? छन्दसि वावचनात् ॥ तदेतद्धातुग्रहणं सान्यासिकं तिष्ठतु तावत् ॥
Kashika¶
लिटि परतोऽनभ्यासस्य धातोरवयवस्य प्रथमस्यैकाचो द्वितीयस्य वा यथायोगं द्वे भवतः। पपाच। पपाठ प्रोर्णुनाव। वाच्य ऊर्णोर्णुवद्भावः० (का० ३.१.३६) इति वचनाद् ऊर्णोतेः इजादेः० (३.१.३६) इत्याम् न भवति। लिटीति किम् ? कर्ता। हर्ता। धातोरिति किम् ? सस॒वांसो॒ विशृ॑ण्विरे (ऋ० ४.८.६)। इ॒म इन्द्रा॑य सुन्विरे॒ (ऋ० ७.३२.४)। अनभ्यासस्येति किम् ? कृ॒ष्णो नो॑नाव वृष॒भो यदी॒दम् (ऋ० १.७९.२)। नोनूयतेर्नोनाव। समा॒न्या म॒रुतः॒ संमि॑मिक्षुः (ऋ० १.१६५.१)। लिटि उसन्तः॥ द्विर्वचनप्रकरणे छन्दसि वेति वक्तव्यम्॥ यो जा॒गार॒ तमृचः॑ कामयन्ते॒ (ऋ० ५.४४.१४)। दाति॑ प्रि॒याणि॑ (ऋ० ४.८.३) इति॥
Siddhanta Kaumudi¶
लिटि परेऽनभ्यासधात्ववयवस्यैकाचः प्रथमस्य द्वे स्त आदिभूतादचः परस्य तु द्वितीयस्य । भूव् भूव् अ इति स्थिते ॥
Laghu Siddhanta Kaumudi¶
लिटि परेऽनभ्यासधात्ववयस्यैकाचः प्रथमस्य द्वे स्त आदिभूतादचः परस्य तु द्वितीयस्य। भूव् भूव् अ इति स्थिते -
Balamanorama¶
लिटि धातोरनभ्यासस्य - लिटि धातोः ।एकाचो द्वे प्रथमस्ये॑त्यधिकृतं । धातोरित्यवयवषष्ठी । तदाह -धात्ववयवस्येति । ‘एकाच’ इतिप्रथमस्ये॑ति च धात्ववयवस्य विशेषणम् । एकोऽच् यस्येति तद्गुणसंविज्ञानो बहुव्रीहिः । तथा च लिटि परेऽभ्यासभिन्नस्यैकाऽच्कस्य प्रथमस्य धात्वयवस्य द्वे उच्चारणे स्त इत्यर्थः ।एकाच॑इत्यत्र कर्मधारयाश्रयणे तु पपाचेत्यादि न सिध्येदिति भाष्ये स्पष्टम् ।अजादेर्द्वितीयस्ये॑त्यप्यधिकृतम् । तत्राऽच्चासावादिश्च अजादिः, तस्मादिति कर्मधारयात्पञ्चमी । तदाह — आदिभूतादचः परस्य तु द्वितीयस्येति । ‘एकाच’ इति शेषः । अजादिधात्ववयवस्य एकाचश्चेद्द्वित्वं तर्हि द्वितीयस्यैवैकाचो द्वित्वं नतु प्रथमस्येति यावत् । अत्र द्वे इत्यनन्तरमुच्चारणे इत्यध्याह्मत्यैकाचः प्रथमस्येति कृद्योगलक्षमषष्ठी चाश्रित्य द्विः प्रयोग एवात्र विधीयते, न स्थानषष्ठीमाश्रित्यादेशपक्ष इति प्रकृतसूत्रभाष्ये प्रपञ्चितम् ।आदेशप्रत्यययो॑रिति सूत्रभाष्येऽपि द्विःप्रयोगपक्ष एवोक्तः । तदिह विस्तरभयान्न लिखितम् । पपाच इयायेत्यादौ प्रथमत्वमेकाच्कत्वं च व्यपदेशिवत्त्वेन बोध्यम् । अजादेरिति बहुव्रीह्राश्रयणे तु इन्द्रमात्मन इच्छति इन्द्रीयति, इन्द्रीयित#उमिच्छति इन्दिद्रीयषतीत्यादौन न्द्राः संयोगादय॑ इति दकारस्य द्वित्वनिषेधश्च स्यत्, तत्राऽजादेरित्यनुवृत्तेः । धातोरिति किम् । तदभावे हि लिटि परे यः प्रथम एकाच् तस्य द्वे इत्यर्थः स्यात् । एवं सति पपाचेत्यादावेव स्यान्न तु जजागारेत्यादाविति भाष्ये स्पष्टम् । न च पपाचेत्यादौलिटि धातो॑रिति द्वित्वे कृतेलक्ष्ये लक्षणस्ये॑ति न्यायेन पुनर्द्वित्वस्याऽप्रसक्तेनरनभ्यासग्रहमं व्यर्थमिति वाच्यं, यङन्तात्सन्यङो॑रिति यङ्निमित्तकद्वित्वविशिष्टत्वात्सनि सन्निमित्तकद्वित्वनिवृत्तये, सन्नन्तात्सन्यङो॑रिति कृतद्वित्वाण्णिचि लुङि चङि कृतेचङी॑ति द्वित्वनिवृत्तये चाऽनभ्यासग्रहणस्यावश्यकत्वात् । भाष्ये तु — कृष्णो नोनाव वृषभो यदीद॑मित्यादौ नुधातोर्यङन्तात्सन्यङो॑रिति कृतद्वित्वान्नोनूयेत्यस्माल्लिटिकास्प्रत्ययादाममन्त्रे लिटी॑ति मन्त्रपर्युदासादामभावे ‘यस्य हल’ इति यकारलोपे अतो तिपो णलि वृद्धावावादेशो नोनावेत्यत्र यङन्तात्सनि, सन्नन्ताण्णिचि चङि च प्रयोगो लोके नास्त्येवेति तदाशय इति शब्देन्दुशेखरे स्पष्टम् । प्रकृते च भूव् अ इत्यत्र चत्वार एकाचः । तत्र ‘भू’ इति प्रथमः,ऊ॑विति द्वितीयः, ‘ऊ’ इति व्यपदेशिवद्भावेन तृतीय एकाच्,भू॑विति समुदायस्तु चतुर्थः । तत्र समुदाये द्विरुच्यमाने सर्वेऽवयवा द्विरुच्यन्त इतिभू॑विति समुदायस्यैव द्विर्वचनमिति भाष्ये स्पष्टं । तदाह — भूव् भूव् अ इति स्थित इति । अत्रभू॑वित्यस्य एकाचो धात्ववयवत्वं प्रथमत्वं च व्यपदेशिवत्त्वाद्बोध्यम् ।
Tattvabodhini¶
लिटि धातोरनभ्यासस्य - तदाह — आदिभूतादचः परस्य त्विति॥ भूव्भूविति । यद्यप्यत्र धात्ववयवत्वं प्राथम्यं च न सङ्गच्छते, तथापि व्यपदेशिवद्भावेन तद्बोध्यम् । नन्विह चत्वार एकाचस्तत्रावयवास्त्रयः, तत्र भू, ऊ, ऊविति । भूविति समुदायश्चतुर्थः । तथा चाऽनियमेन यस्य कस्यचिद्द्वित्वं स्यात् । मैवम् । समुदायस्यैकाच एव द्विर्वचनस्य न्याय्यत्वात्, तस्मिन्हि द्विरुच्यमाने अवयवा अपि द्विरुच्यन्त एव, वृक्षचलनेन सर्वावयवचलनवत्॥
Padamanjari¶
धातोरिति किमिति। लिटि परतोऽन्यो न सम्भवति; तस्य धातोरेव विधानादिति प्रश्नः। विशृण्विरे इति।’च्छन्दस्युभयथा’ इति सार्वधातुकत्वात्’श्रुवः शृ च’ इति श्नुप्रत्ययः, शृभावश्च। अत्र विकरणान्तस्य समुदायस्य लिट्परस्याधातुत्वातदीयस्य प्रथमस्यैकाचो द्विर्वचनाभावः। ईक्षाञ्चक्रे इत्यादौ त्वामन्तस्य लिटपरत्वं नास्ति; ठामःऽ इति लुका कुप्तत्वादिति द्विर्वचनाभावः। सिद्धः। अनभ्यासस्येति किमिति। न तावद् नुनाव, पपाचेत्यादौ तत्रैव लिटि पुनर्द्विर्वचनप्रसङ्गः; सकृत्प्रवृत्या लक्षणस्य चरितार्थत्वात्, अनवस्थापाताच्च। यस्तु प्रत्ययान्तरे सनादौ साभ्यासः, न तस्य लिटि सम्भवः; ततो हि’कास्प्रत्ययाद्’ इत्यामा भवितव्यमिति प्रशनः। नोनावेति। ठमन्त्रेऽ इति प्रतिषेधादत्रामभावः। सम्मिमिक्षुरिति। सम्पूर्वान्मिहेः सनि’हो ढः’ ‘षढोः कः सि’ लिट्, झेरुस्, अतोलोपः। द्विवचनप्रकरण इति। प्रकरणग्रहणान्न केवलं सर्व द्विर्वचनं च्छन्दसि विकल्प्यते। एवं च’धातोः’ , ठनभ्यासस्यऽ इत्युभयमुतरार्थम्। एतस्मादेव विकल्पाद्विकरणान्तसाभ्यासयोर्न भविष्यति ॥
Nyaas¶
एकाचो द्वे प्रथमस्य (6.1.1) इति, अजादेर्द्वितीयस्य (6.1.2) इति चानुवर्तते। धातोरित्यवयवयोगा षष्ठी। सामानादिकरण्ये हि प्रथमस्य द्वितीयस्येति च सम्बन्धो नोपपद्यते। अनभ्यासस्य इति च प्रतिषेधाच्च। सामानाधिकरण्ये हि प्रतिषधोऽनर्थकः स्यात्, न ह्रभ्यासवानेकाज धातुः सम्भवति। यथायोगम् इति। हलादेः प्रथमस्यैकाचोऽवयवस्य, अजादेस्तु द्वितीयस्येत्येष यथायोगार्थः। प्रोर्णनाव इति। ऊर्णुञ्? आच्छादने (धातुपाठः-1039) अजादेर्द्वितीयस्य (6.1.2) इति नुशब्दस्य द्विर्वचनम्। रेफस्य तु न न्द्राः (6.1.3) इति प्रतिषेधान्न भवति। ननु चोर्णोतेरिजादित्वात्? इजादेश्च गुरुमतोऽनृच्छः (3.1.36) इत्यामि कृते आमः (2.4.81) इति लेर्लुक्, कृञ्चानुप्रयुज्यते लिटि (3.1.40) इति कृञो लिट्परस्यानुप्रयोगः, ततश्च प्रोर्णुवाञ्चकारेति भविष्यति, तत्कथं प्रोर्णनावेति? अत आह -वाच्य ऊर्णोः इत्यादि। नुवद्भावेन यथा नौतेराम्? न भवति, तथोर्णोतेरपीति दर्शयति। विशृण्विरे इति। श्रु श्रवणे (धातुपाठः-942) लिटस्तझयोरेशिरैच्? (3.4.81) इति इरेच्। **छन्दस्युभयथा** (6.4.86) इति लिटः सार्वधातुकत्वम्, ततः **श्रुवः शृ च** (3.1.74) इति श्नुः शृभावश्च। **हुश्नुवोः सार्वधातुके** (6.4.87) इति यणादेशः। `सुन्विरे इति। षुञ्? अभिषवे (धातुपाठः-1247)। धातुग्रहणादिह विकरणस्य द्विर्वचनं न भवति। यतस्तत्र धातुस्तस्य विकरणेन व्यवहितत्वान्न भवतीत्येके। छन्दसत्वादित्यपरे, सर्वे विधयश्छन्दसि विकल्प्यन्ते (पु।प।पा।35) इति। एतच्च व्यवहितत्वान्नभवतीत्येके। छन्दसत्वादित्यपरे, `सर्वे विधयश्छन्दसि विकल्प्यन्ते (पु।प।पा।35) इति। एतच्च व्यत्ययो बहुलम् (3.1.85) इत्यस्माद्बहुलग्रहणाल्लभ्यते। एवञ्च कृत्वा द्विर्वचनप्रकरणे छन्दसि वा (वा। 656) इत्येतन्न कर्तव्यं भवति। नोनाव इति। णु स्तोतौ (धातुपाठः-1035), यङ्, द्विर्वचनम्, गुणो यङ्लुकोः (7.4.82) इति गुणः, `नोनूय इति गुणः, नोनूय इति स्थिते यङोऽचि च (2.4.74) इति यङो लुक्, लिट्। अमन्त्रे (3.1.35) इति निषेधाद्न भवति। सस्मिमिक्षुः इति। मिह सेचने (धातुपाठः-992), अतः सम्पूर्वात्? सन्? हो ढः (8.2.31) इति ढत्वम्, षढोः कः सि (8.2.41) इति कत्वम्, एकाचः (7.2.10) इत्यादिनेट्प्रतिषेधः हलन्ताच्च (1.2.10) इति कित्वाद्गुणः, द्विर्वचनम्, षत्वम्; सम्मिमिक्ष इति स्थिते लिट्, अमन्त्रे (3.1.35) इति प्रतिषेधादाम्, न भवति। झि, तस्य उस्, अतो लोपः` (6.4.48) । जागार इति। लिट्। दाति इति। श्लुः। वेति वचनात्? पक्षे जजागार, ददातीत्यपि भवति॥
Prakriyasarvasvam¶
प्रागभ्यासरहितस्य धातोर्लिटि परे द्विवचनं स्यात् । पच् पच् वस्,