61019: स्वपिस्यमिव्येञां यङि¶
Padacheda: स्वपि-स्यमि-व्येञाम् | S | 6 | 3 |
यङि | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
There is vocalisation of the semi-vowel, of the verbs स्वप् ‘to sleep’, स्यम् ‘to shout’ and व्ये ‘to cover’, when followed by the affix यङ् of the Intensive.
Vasu English Translation¶
There is vocalisation of the semi-vowel, of the verbs स्वप् ‘to sleep’, स्यम् ‘to shout’ and व्ये ‘to cover’, when followed by the affix यङ् of the Intensive. Thus सोषुप्यते, सेसिम्यते, वेवीयते (7.4.25) the short इ is lengthened). Why do we say ‘when यङ् follows’? Observe स्वप्नक् formed by नजिङ् (3.2.172).
Kashika¶
ञिष्वप शये , स्यमु स्वन ध्वन शब्दे, व्येञ् संवरणे इत्येतेषां धातूनां यङि परतः संप्रसारणं भवति। सोषुप्यते। सेसिम्यते। वेवीयते। यङीति किम् ? स्वप्नक्॥
Siddhanta Kaumudi¶
संप्रसारणं स्याद्यङि । सोषुप्यते । सेसिम्यते । वेवीयते ॥
Tattvabodhini¶
स्वपिस्यमिव्येञां यङि - स्वपिस्यमि । यङि किम् । स्वप्नक् ।सेसिम्यते इति ।स्यमु शब्दे॑ दन्त्याऽजन्तसदित्वाऽभावेनाऽषोपदेशत्वान्न यङलुगर्थम् । अत एवन लुमते॑ति निषेधोऽपि न प्रवर्तत इति यङ्लुक्यपि चायः की स्यादेव । चेकीतः ।
Padamanjari¶
स्वप्नगिति।’स्वपितृषोर्नजिङ्’ ॥
Nyaas¶
स्वप्नक् इति। स्वपितृषोर्नजिङ् (3.2.172) ॥
Prakriyasarvasvam¶
एषां यङि प्रसारणं स्यात् । पुनर्द्वित्वम् । गुणः । सोपुप्यते । स्यम शब्दे । सेसिम्यते । वेवीयते ।