61010: श्लौ¶
Padacheda: श्लौ | S | 7 | 1 |
Sutrartha¶
श्लौ परे यस्य धातोः द्वित्वम् न कृतमस्ति तस्य (यथानिर्दिष्टम्) द्वित्वं भवति ।
‘श्लु’ इति प्रत्ययलोपस्य एका संज्ञा अस्ति, या प्रत्ययस्य लुक्-श्लु-लुपः (1.1.61) इत्यनेन दीयते । यत्र ‘श्लु’ संज्ञया प्रत्ययलोपः भवति, तत्र वर्तमानसूत्रेण अनभ्यासस्य अङ्गस्य द्वित्वम् भवति । किम् नाम ‘अनभ्यासः’? पूर्वोभ्यासः (6.1.4) इत्यनेन द्वित्वे कृते द्वयोः यः पूर्वः (प्रथमः), तस्य ‘अभ्यास’संज्ञा भवति । अतः यस्य धातोः द्वित्वं कृतं नास्ति, तादृशः धातुः ‘अनभ्यासः धातुः’ इत्युच्यते । अस्य धातोः श्लौ-परे द्वित्वं भवति । यथा, जुहोत्यादिगणस्य ‘दा’ धातोः प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् - दा + लट् [वर्तमाने लट् (3.2.123) इति लट्] → दा + तिप् [तिप्तस्.. (3.4.78) इति तिप्] → दा + शप् + ति [कर्तरि शप् (3.1.68) इति शप्] → दा + ति [जुहोत्यादिभ्यः श्लुः (2.4.75) इति प्रत्ययस्य श्लुः (लोपः)।] → दा दा + ति [प्रत्ययस्य श्लु-इत्यनेन लोपे कृते श्लौ (6.1.10) इत्यनेन अङ्गस्य द्वित्वं भवति ] → द दा + ति [ह्रस्वः (7.4.59) इति ह्रस्वः] → ददाति । अत्र शप्-विकरणस्य लोपः ‘श्लु’ संज्ञया कृतः अस्ति । अतः लोपात् अनन्तरम् श्लौ (6.1.10) इत्यनेन अङ्गस्य द्वित्वं अपि क्रियते ।
Sutrartha (English)¶
When a प्रत्यय is removed using the word श्लु, अङ्ग which is not yet duplicated is duplicated.
Vasu English Summary¶
Of a non-reduplicate root there is reduplication when the विकरण श्लु follows.
Vasu English Translation¶
Of a non-reduplicate root there is reduplication when the विकरण श्लु follows. The श्लु is the characteristic sign of the roots of the third class, and causes the elision of the vikarana शप् ॥ The reduplication is of the first or second syllable, according as the root has an initial consonant or a vowel. Thus जुहोति (from हु), बिभेति, जिह्रेति ॥
Kashika¶
श्लौ परतोऽनभ्यासस्य धातेरवयवस्य प्रथमस्यैकाचो द्वितीयस्य वा यथायोगं द्वे भवतः। जुहोति। बिभेति। जिह्रेति॥
Siddhanta Kaumudi¶
धातोर्द्वे स्तः । जुहोति । जुहुतः । अदभ्यस्तात् (SK2479) इत्यत् । हुश्नुवोः - (SK2387) इति यण् । जुह्वति ॥
Laghu Siddhanta Kaumudi¶
धातोर्द्वे स्तः। जुहोति। जुहुतः॥
Padamanjari¶
श्लौ परत इति। वर्णानामपि युगपदवस्थानाभावाद् बुद्धिपरिकल्पितं पोर्वापर्यम्, तच्चाभावरूपेण श्लुनाप्युपपद्यत् इति भावः। अनब्यासस्येति। अधीकारमात्रैणैतदुक्तम्, न तु श्लौ साभ्यासो भवति। एवं द्वितीयस्य चेत्यत्र द्रष्टव्यम् ॥
Nyaas¶
श्लौ परतः इति। ननु च प्रत्ययादर्शननं श्लुः, तच्चाभावरूपम्, न चाभावे पौर्वापर्यमस्ति, तदुयुक्तमुक्तम्? श्लौ परत इति? स्थानिनः परत्त्वात्त्स्यापि तद्द्वारेण पौर्वापर्यमौपचारिकं गृहीत्वैव युक्तमुक्तमित्यदोषः॥
Prakriyasarvasvam¶
श्लौ परे धातोर्द्विवचनं स्यात् ।
Sutra Prayogas¶
मिमान (शिशुपालवधम्): श्लौ इति द्विर्भावः।
जहीहि (भट्टिकाव्यम्): श्री इति द्विर्वचनम्।