61017: लिट्यभ्यासस्योभयेषाम्

Padacheda: लिटि | S | 7 | 1 |

अभ्यासस्य | S | 6 | 1 |

उभयेषाम् | S | 6 | 3 |

Sutrartha


Vasu English Summary

There takes place a vocalisation of the semi-vowels of the reduplicate (अभ्यास) of both वाच्यादि (6.1.15) and ग्रहादि (6.1.16) words, when affixes of लिट् follow.

Vasu English Translation

There takes place a vocalisation of the semi-vowels of the reduplicate (अभ्यास) of both वाच्यादि (6.1.15) and ग्रहादि (6.1.16) words, when affixes of लिट् follow. Thus वच — उवाच, उवचिथ, स्वप् — सुष्वाप, सुष्वपिथ, यज — इयाज, इयजिय, टुवप् — उवाप्, उवपिथ ॥ As regards ग्रहादि verbs; ग्रह — जग्राह, जग्रहिथ (there is no speciality in case of this verb, as these forms would have been evolved without even this rule). ज्या — जिज्यौ, जिज्यथ, वयि — उवाय, and उवयिथ; व्यध — विव्याध, विव्यधिथ, वश — उवाश, उवशिथ, व्यच् — विव्याच, विव्यचिथ, व्रश्च — वव्रश्च and वव्रश्चिथ ॥ Some say that with regard to व्रश्च, it is equal whether there existed this present rule or not. For they argue thus, व्रश्च + णल् = व्रश् + व्रश्च् + अ = व + व्रश्च् + अ (हलादि शेषः (7.4.60)) = वव्रश्च ॥ To this we reply, this form would be evolved no doubt had this rule not existed. But when this rule is applied, and you make reduplication without first vocalising the र, then you will have to vocalise व by force of this rule. Hence the necessity of this rule with regard to व्रश्च also, for having changed र into ॠ, we have वृव्रश्च् and then change ॠ into अ by (7.4.66). Then this अ substitute becomes sthanivat to ॠ (1.1.59), and therefore there is no vocalisation of this व, for rule (6.1.37), prevents the vocalisation of a letter standing before one which has already been vocalised. There is no speciality with regards to प्रच्छ and भ्रस्ज verbs.

This vocalisation of the reduplicate is taught with regard to those affixes which are not कित् ॥ With regard to कित् affixes, the Rule (6.1.15) will apply. And as the rule of vocalisation is subsequent to that of reduplication in order, therefore by the maxim of परत्व (1.4.2), vocalisation will take place first and then reduplication, according to the maxim पुनः प्रसङ्ग विज्ञानात्सिद्धम् “occasionally the formation of a particular form is accounted for by the fact that a preceding rule is allowed to apply again, after it had previously been superseded by a subsequent rule”. Thus वच् + अतुः (which is कित् (1.2.5)) = उच् + अतुः = उच् + उच् + अतुः = ऊचतुः, ऊचुः ॥

Though the phrase उभयेषाम् could have been supplied into this sutra by the context and the governing scope of the preceding sutras, its express mention in this sutra is for the sake of indicating, that the rule of vocalisation supersedes even the rule of हलादिः शेषः (7.4.60), the vocalisation must take place at all events. Thus व्यध + णल् = व्य + व्यध + अ ॥ Here by (7.4.60), the second consonant य of व्य ought to have been elided, and the equation would have stood व + व्यध् + अ, and there would have been vocalisation of व by this rule. But that is not intended; there is vocalisation of य and we have विव्याध ॥ In fact, the universal maxim of vocalisation is :-“The samprasarana and the operations dependent on it possess greater force than other operations which are simultaneously applicable”. संप्रसारणं तदाश्रयं च कार्यम् बलवत् ॥

Bhashya

लिट्यभ्यासस्योभयेषाम् (2454) (6027 ग्रह्यादीनां फले विशेषाभावबोधकवार्तिकम् ॥ 1 ॥) - ग्रहिवृश्चतिपृच्छतिभृज्जतीनामविशेषः - (वार्तिकाशयखण्डनभाष्यम्) यदुच्यते वृश्चेरविशेष इति । तन्न । यद्यत्र रेफस्य संप्रसारणं न स्याद्वकारस्य प्रसज्येत । रेफस्य पुनः संप्रसारणे सति उरदत्वस्य स्थानिवद्भावात् न संप्रसारणे संप्रसारणम् (6.1.37) इति प्रतिषेधः सिद्धो भवति । तस्माद्वक्तव्यम् - ग्रहेरविशेषः पृच्छतिभृज्जत्योरविशेष इति ॥ (पदकृत्यभाष्यम्) अथोभयेषां ग्रहणं किमर्थम् ? उभयेषामभ्यासस्य संप्रसारणं यथा स्यात् - वचिस्वपियजादीनाम्, ग्रहादीनां च ॥ नैतदस्ति प्रयोजनम् । प्रकृतमुभयेषां ग्रहणमनुवर्तते । ?B यद्यनुवर्तते, ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति चेति यजादीनां ङित्यपि प्राप्नोति ॥ नैष दोषः । सम्बन्धमनुवर्तिष्यते - वचिस्वपियजादीनां किति, ग्रहादीनां ङिति, वचिस्वपियजादीनां किति । ततः - लिट्यभ्यासस्योभयेषाम्, किति ङिति - इति निवृत्तम् ॥ अथवा मण्डूकगतयोऽधिकाराः । यथा मण्डूका उत्प्लुत्योत्प्लुत्य गच्छन्ति तद्वदधिकाराः ॥ अथवैकयोगः करिष्यते - वचिस्वपियजादीनां किति ग्रहादीनां ङिति च - इति । ततो लिट्यभ्यासस्येति । न चैकयोगेऽनुवृत्तिर्भवति ॥ अथवोभयं निवृत्तं तदपेक्षिष्यामहे ॥ इदं तर्हि उभयेषां ग्रहणस्य प्रयोजनम् - उभयेषामभ्यासस्य संप्रसारणमेव यथा स्यात्, यदन्यत्प्राप्नोति तन्मा भूदिति । किं चान्यत् प्राप्नोति ? हलादिशेषः । अभ्याससंप्रसारणं हलादिशेषाद्विप्रतिषेधेन इति वक्ष्यति स पूर्वविप्रतिषेधो न पठितव्यो भवति ॥ (6028 विप्रतिषेधबोधकमेकदेशिवार्तिकम् ॥ 2 ॥) - अभ्याससंप्रसारणं हलादिशेषाद्विप्रतिषेधेन - अभ्यासस्य संप्रसारणं भवति हलादिशेषाद्विप्रतिषेधेन । अभ्याससंप्रसारणस्यावकाशः - इयाज, उवाप । हलादिशेषस्यावकाशः - बिभिदतुः, बिभिदुः । इहोभयं प्राप्नोति - विव्याध, विव्यधिथ । अभ्याससंप्रसारणं भवति पूर्वविप्रतिषेधेन । स तर्हि पूर्वविप्रतिषेधो वक्तव्यः ॥ (6029 विप्रतिषेधखण्डकवार्तिकम् ॥ 3 ॥) - न वा संप्रसारणाश्रयबलीयस्त्वादन्यत्रापि - न वा वक्तव्यः । किं कारणम् ? संप्रसारणाश्रयस्य बलीयस्त्वादन्यत्रापि । संप्रसारणं संप्रसारणाश्रयं च बलीयो भवतीति वक्तव्यम् । अन्यत्रापि, नावश्यमिहैव वक्तव्यम् । किं प्रयोजनम् ? (6030 संप्रसारणाश्रयस्य बलीयस्त्वप्रदर्शकवार्तिकम् ॥ 4 ॥) - प्रयोजनं रमाल्लोपेयङ्यणः - रम् - भृष्टः, भृष्टवान् । संप्रसारणं च प्राप्नोति रम्भावश्च । परत्वाद्रम्भावः स्यात् । संप्रसारणं बलीयो भवतीति वक्तव्यम्, संप्रसारणं यथा स्यात् ॥ आल्लोपः - जुहुवतुः, जुहुवुः । संप्रसारणं च प्राप्नोत्याल्लोपश्च । परत्वादाकारलोपः स्यात् । संप्रसारणं बलीयो भवतीति वक्तव्यं संप्रसारणं यथा स्यात् ॥ संप्रसारणे कृते पूर्वत्वं च प्राप्नोत्याकारलोपश्च । परत्वादाल्लोपः स्यात् । संप्रसारणाश्रयं च बलीयो भवतीति वक्तव्यं पूर्वत्वं यथा स्यात् ॥ इयङ् - शुशुवतुः, शुशुवुः । संप्रसारणं च प्राप्नोति, इयङादेशश्च । परत्वादियङादेशः स्यात् । संप्रसारणं बलीयो भवतीति वक्तव्यं संप्रसारणं यथा स्यात् ॥ यण् - संप्रसारणे कृते पूर्वत्वं च प्राप्नोति, यणादेशश्च । परत्वाद्यणादेशः स्यात् । संप्रसारणाश्रयं च बलीयो भवतीति वक्तव्यं पूर्वत्वं यथा स्यात् ॥ (बलीयस्त्वप्रदर्शकखण्डकभाष्यम्) नैतानि सन्ति प्रयोजनानि । यत्तावदुच्यते - रम् - इति । इदमिह संप्रधार्यम् - रम्भावः क्रियतां संप्रसारणमिति । किमत्र कर्तव्यम् ? परत्वाद्रम्भावः । नित्यं संप्रसारणम्, कृतेऽपि रम्भावे प्राप्नोत्यकृतेऽपि । रम्भावोऽपि नित्यः, कृतेऽपि संप्रसारणे प्राप्नोत्यकृतेऽपि । कथम् ? योऽसावृकारे रेफस्तस्य चोपधायाश्च प्राप्नोति । अनित्यो रम्भावः न हि कृते संप्रसारणे प्राप्नोति । किं कारणम् ? न हि वर्णैकदेशा वर्णग्रहणेन गृह्यन्ते । अथापि गृह्यन्ते, एवमप्यनित्यः । उपदेशे इति वर्तते । तच्चावश्यमुपदेशग्रहणमनुर्वत्यम्, बरीभृज्यत इत्येवमर्थम् ॥ आल्लोपेयङ्यणः - इति । नित्यं संप्रसारणम् । अन्तरङ्गं पूर्वत्वम् ॥ तदनन्यार्थं संप्रसारणं तदाश्रयञ्च बलीयो भवतीति वक्तव्यम्, पूर्वविप्रतिषेधो वा वक्तव्यः ॥ उभयं न वक्तव्यम् । उक्तमत्रोभयेषां ग्रहणस्य प्रयोजनम् - उभयेषामभ्यासस्य संप्रसारणमेव यथा स्यात्, यदन्यत्प्राप्नोति तन्मा भूदिति ॥ (6031 उपसंख्यानवार्तिकम् ॥ 5 ॥) - व्यचेः कुटादित्वमनस्यञ्ञ्णिति संप्रसारणार्थम् - व्यचेः कुटादित्वमनसीति वक्तव्यम् । किं प्रयोजनम् ? अञ्ञ्णिति संप्रसारणार्थम् । अञ्ञ्णिति संप्रसारणं यथा स्यात् । अद्विचिता, उद्विचितुम्, उद्विचितव्यम् ॥ अनसीति किमर्थम् ? उरुव्यचाः कण्टकः ॥

Kashika

उभयेषां वच्यादीनां ग्रह्यादीनां च लिटि परतोऽभ्यासस्य संप्रसारणं भवति। वचि — उवाच। उवचिथ। स्वप् — सुष्वाप। सुष्वपिथ। यज — इयाज। इयजिथ। डुवप् — उवाप। उवपिथ। ग्रह्यादीनाम् — तत्र ग्रहेरविशेषः। जग्राह। जग्रहिथ। ज्या — जिज्यौ। जिज्यिथ। वयि — उवाय। उवयिथ। व्यध — विव्याध। विव्यधिथ। वश — उवाश। उवशिथ। व्यच — विव्याच। विव्यचिथ। वृश्चतेः सत्यसति वा योगे नास्ति विशेषः। योगारम्भे तु सति यदि संप्रसारणमकृत्वा हलादिशेषेण (७.४.६०) रेफो निवर्त्यते, तदा वकारस्य संप्रसारणं प्राप्नोति। अथ रेफस्य संप्रसारणं कृत्वा उरदत्वं रपरत्वं च क्रियते, तदानीमुरदत्वस्य स्थानिवद्भावाद् न संप्रसारणे संप्रसारणम् (६.१.३७) इति प्रतिषेधो भवतीत्यस्ति विशेषः। वव्रश्च। वव्रश्चिथ। पृच्छतिभृज्जत्योरविशेषः। अकिदर्थं चेदमभ्यासस्य संप्रसारणं विधीयते। किति हि परत्वाद् धातोः संप्रसारणे कृते पुनः प्रसङ्गविज्ञानाद्० द्विवर्चनम् — ऊचतुः, ऊचुरिति। अधिकारादेवोभयेषां ग्रहणे सिद्धे पुनरुभयेषामिति वचनं हलादिशेषम् (७.४.६०) अपि बाधित्वा संप्रसारणमेव यथा स्यादिति। विव्याध॥

Siddhanta Kaumudi

वच्यादीनां ग्रह्यादीनां चाभ्यासस्य संप्रसारणं स्याल्लिटि । इयाज ॥

Laghu Siddhanta Kaumudi

वच्यादीनां ग्रह्यादीनां चाभ्यासस्य सम्प्रसारणं लिटि। इयाज॥

Balamanorama

लिट्यभ्यासस्योभयेषाम् - णलि द्वित्वादौ तु ययाज् अ इति स्थिते — लिटभ्यासस्योभयेषाम् ।ष्यङः संप्रसारण॑मित्यतः संप्रसारणमित्यनुवर्तते ।वचिस्वपियजादीना॑मिति सूत्रोपात्ताः,ग्रहिज्यावयी॑ति सूत्रोपात्ताश्च उभयशब्देन गृह्यन्ते । तदाह — वच्यादीनां ग्रह्रादीनां चेति । अत्र वच्यादीनामित्यनेन वचिः स्वपिः यजादयश्च विवक्षिताः ।यज देवपूजेत्यारभ्यटु ओ इआ गतिवृद्ध्यो॑रित्येतत्पर्यन्ता यजादयः । तदुक्तम् — ॒यजिवपिर्वहिश्चैव वसिर्वेञ्व्येञ इत्यपि । ह्वेञ् वदिः आयतिश्चैव यजाद्याः स्युरिमे नव॑ । इति । तेष्वनन्तर्भावाद्वचिस्वप्योः पृथग्ग्रहणम् । ग्रह्रादीनामित्यनेन तु ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतयो विवक्षिताः । इयाजेति । अभ्यासयकारस्य संप्रसारणे इकारेसंप्रसारणाच्चे॑ति पूर्वरूपमिति भावः ।

Tattvabodhini

लिट्यभ्यासस्योभयेषाम् - लिटभ्यासस्येति । वच्यादयो — वचिस्वपियजादयः । ग्रह्रादयस्तु — ग्रहिज्यावयी॑त्यादयः । यद्यपि ग्रहिपृच्छतभृज्जतीनामभ्यासस्य संप्रसारणे कृतेऽकृते च विशेषो नास्ति, तथापि पर्जन्यवल्लक्षणं प्रवर्तते । जग्राह । पप्रच्छ । बभ्रज्ज । वृश्चतेस्तु विशेषः, - संप्रसारणस्याऽकरणे वव्रश्चेत्यत्र वकारस्य संप्रसारणं स्यात्, कृते तु संप्रसारणेन संप्रसारणे॑ इति निषेधप्रवृत्तिरिति । लटीति किम् । विवक्षति । पिपक्षति । वचिस्वपि । आगणान्ता यजादयः ।यजिर्वपिर्वहिश्चैव वसिर्वेञ् व्येञ इत्यपि । ह्वेञ्वदी आयतिश्चेति यजाद्याः स्युरिमे नव॑ । कितीति किम् । इयष्ठ । डुवप् ।॒ड्वितः क्रिः॑ । उप्त्रिमम् ।

Padamanjari

विव्यथेति।’व्यचेः कुटादित्वमनसीति वक्तव्यम्’ इत्यत्र पर्युदासवृत्यास्प्रत्ययसदृशस्य कृतो ग्रहणादिह इङ्त्वाभावाद्धातोः सम्प्रसारणाभावः।’वृश्चतिपृचचतिभृज्जतीनामविसेषः’ इति वार्तिकम्, तद् वृश्चतिविषये भाष्यकारेण दूषितम् -ठ्यदुच्यते वृश्चतेरविशेषःऽ इत्यादि। तत्र वातिककारस्याभिप्रायमाह -वृश्चतेरिति। असति सूत्रे यद्रूपं तदेव सतीत्यभिप्रयेण वातिककारेणैतदुक्तमित्यर्थः। भाष्यकारस्याभिप्रायमाह -योगारम्भे सतीति। रेफस्य सम्प्रसारणे सत्यसति वा नास्ति विशेष इति वार्तिककारेणोक्तमित्यध्यारोप्यभाष्यकारेणोक्तमित्यर्थ। अकिदर्तमिदमिति। किति कथम्? इत्यत आह -किति हीति। अधिकारादेविति। नात्र सास्त्रीयोऽधिकारः, किं तर्हि? अपेक्षालक्षण, तेन पूर्वसूत्रे वच्यादेः सम्बन्धो नाशङ्कनीयः। योगविभागसामर्थ्याद्वा पूर्वसूत्रे तेषामसम्बन्धः। हलादिःशेषमपि बाधित्वेति। अन्यथा परत्वाद्धलादिःशेषः स्यात्। सम्प्रसारणमेव यथा स्यादिति। पुनर्विधानमुभयेपांग्रहणाद्भवति तद्वाधकबाधनार्थमिति भावः ॥

Nyaas

उवयिथ इति। क्रादिनियमादिट्? प्राप्तः उपदेशेऽत्वतः (7.2.62) इति प्रतिषिद्धः ऋतो भारद्वाजस्य (7.2.63) इति नियमात्? पुनर्भवति। ग्रहेरविशेषः इति। यस्मात्? सति सम्प्रसारणे हलादिशेषेण (7.4.60) रेफनिवृत्तौ जग्राहेति ग्रहेर्यद्रूपं भवति, सत्यपि सम्प्रसारण उरत्वरपरत्वहलादिशेषेष्वपि कृतेषु तदेव भवति। जिज्यौ इति। आत औ णलः (7.1.34) । जिज्यथ इति। आतो लोप इटि च (6.4.64) इत्याकारलोपः। वृश्चतेः सत्यसति वा योगे नास्ति विशेषः इति। यद्यन्यार्थो योग आरभ्यते न वृश्चत्यर्थः, ततो वृश्चत्यर्थमेतद्वचनं न भवतीति सत्यप्येतस्मिन्नन्यार्थवचने वृश्चतेरभ्यासस्य नैव सम्प्रसारणेन भवितव्यम्। न ह्रसति तदर्थे वचने केनचित्? प्रकारेण सम्प्रसारणमुपपद्यत इत्यभिप्रायः ततश्चासत्यस्मिन्? योगे वव्रश्चेति यद्रूपं भवति सत्यपि तदेवेति नास्ति वृश्चतेर्विशेषः। एतच्च वृत्तिकारमतेनोक्तम्। भाष्यकारमतेन त्वाह -योगारम्बे इत्यादि। तस्यायं भावः -सति वचऽनेन्यार्थो क्रियमाणे तस्य वृश्चत्यर्थतापि भवति; वृश्चतेरहपि ग्रह्रादिष्वन्तर्भावात्। ततश्च तदर्थोऽप्ययं योगारम्भ इति तदभ्यासस्यापि सम्प्रसारणेन भवितव्यमिति तुशब्दो वृत्तिकारमताद्विशेषं दर्शयति। यदि सम्प्रसारणमकृत्वा इत्यादि। ननु चोभयग्रहमस्य प्रयोजनं वक्ष्यति -हलादिशेषं (7.4.60) परमपि बाधित्व#आ सम्प्रसारणमेव यथा स्यादितदि, तत्? कुतोऽस्य पक्षस्य सम्भवः? उभयग्रहणरहिते योगे सतीत्यभिप्रायः। अथ रेफस्य इत्यादि। उभयग्रहणसहिते योगे सतीति भावः। उरदत्वस्य स्थानिवद्भावात् इति। केन पुनः स्थानिवद्भावः? अचः परस्मिन् पूर्वविधौ (1.1.57) इति। कः पुनरसौ? प्रत्ययोऽचः परः, यन्निमित्तमोरत्वं स्यात्। अह्गस्य योऽभ्यास इति विज्ञायमाने सामर्थ्यात्? प्रत्यय आश्रितो भवति; विना तेनाह्गव्यपदेशाभावात्? वृत्तिकारमतं चेषितव्यम्; अन्यथा तत्रोभयग्रहणाभावात्? हलादिशेषेण (7.4.60) प्रागेव सम्प्रसारणाद्रेफे निवर्त्तिते वकारस्य सम्प्रसारणं स्यात्। ततश्च उव्रश्चेत्यनिष्टं रूपं स्यात्। पृच्छतिभृज्जत्यीरविशेषः इति। ग्रहेरिव वेदितव्यः। अकिदर्थम् इत्यादि। किं पुनः कारणमकिदर्थं मिदं व्याख्येयम्? इत्यत आह -किति इत्यादि। यस्मात्? किति परत्वात्? सम्प्रसारण कृते कृतसम्प्रसारणस्य पुनः प्रसङ्गविज्ञानाद्द्विर्वचने कृतेऽन्तरेणाप्येतद्वचनम्, ऊचतुरित्यादि सिद्ध्यत्येव। तस्मान्नेदं किदर्थम्, अपि त्वकिदर्थमेवेति। अथ किमर्थमुभयेषामित्युच्यते, यावता स्वरितलिङ्गासङ्गादेवोभयेषामित्यस्यानुवृत्तिर्भविष्यति? न चानुवृत्तौ सत्यां ङिति वच्यादीनामपि सम्प्रसारणं प्राप्नोतीत्येतच्च नाशङ्कनीयम्; यदि वच्यादीनामपि ङिति सम्प्रसारणं स्याद्योगविभागोऽनर्थकः स्यात्; मण्डूकप्लुतिन्यायेन वा व्रच्यादीनामनुवृत्तिर्भविष्यति, तत्कुतोऽस्य दोषस्यावसरः? इत्याह -अधिकारादेव इत्यादि। अधिकारादेवोभयग्रहणे सिद्धे पुनरुभयेषांग्रहणात्? पुनःश्रुतिर्भवति। तस्याश्चैतदेव प्रयोजनम् - यत्र सम्प्रसारणं चान्यच्च प्राप्नोति तत्र सम्प्रसारणमेव यथा स्यात्, मा भूदन्यदिति। तेन विव्याध, विव्यधिथ इत्यत्र हलादिशेषं (7.4.60) परमपि बाधित्वा सम्प्रसारणमेव भवति; अन्यथात्र परत्वात्? प्राक्? प्रवर्तमानेन हलादिशेषेण यकारस्य निवृत्तौ कृतायां वकारस्य सम्प्रसारणमापद्येत, ततश्च -उव्याध उव्यधिथेत्यनिष्टं रूपं स्यात्॥

Prakriyasarvasvam

वच्यादीनां ग्रहादीनां च णिति लिट्यभ्यासस्य प्रसारणं स्यात् । इयाज । किति तु धातोः प्रसारणे कृत एव द्विरुक्तिः । इ इ ज् अतुस् । सवर्णदीर्घः । ईजतुः । ईजुः । इयजिथ, षत्वम् इयष्ठ । इयाज, इयज । ईजिव । ईजे । ईजाते । ईजिषे । ईजिध्वे । ईजिवहे । आशीरादौ इज्यात् । यक्षीष्ट । यष्टा । यक्ष्यति । यक्ष्यते । वेञ् तन्तुसन्ताने । वयति, वयते । यकि यजादित्वात् प्रसारणम् । ‘अकृत्सार्वधातुकयोः’ इति दीर्घः । ऊयते । लुङि आत्वम् । ‘यमरम—’ इतीट्सकौ । अवासीत् । अवासिष्टाम् । तङि सिच् । अवास्त अवासाताम् । अवास्थाः । ‘धिच’ । अवाध्वम् । चिणि अवायि । चिण्वदिटि अवायिषाताम् । अवायिढ्वम्, अवायिध्वम् । अन्यत्र तद्ववत् । लिटि आत्वे ।

Sutra Prayogas

  • संविव्ययुर् (भट्टिकाव्यम्): लिव्यभ्यासस्योभयेषाम् इति सम्प्रसारणम्।