61002: अजादेर्द्वितीयस्य

Padacheda: अजादेः | S | 6 | 1 |

द्वितीयस्य | S | 6 | 1 |

Sutrartha

**एकाचो द्वे प्रथमस्य (6.1.1) अस्मिन् अधिकारे उक्तं द्वित्वमनेकाच्-अजादि-शब्दस्य द्वितीय-एकाच्-अवयवस्य भवति ।**

एकाचो द्वे प्रथमस्य (6.1.1) इत्यनेन उक्तस्य द्वित्वस्य अयमपवादः । अस्य प्रसक्तिः अस्मिन् द्वित्वप्रकरणे (इत्युक्ते, एकाचो द्वे प्रथमस्य (6.1.1) इत्यस्य अधिकारे) सर्वत्र भवति । यत्र अस्मिन् अधिकारे द्वित्वं विधीयते, तत्र यदि अङगमनेकाच् अस्ति, अजादिः च अस्ति, तर्हि एकाचो द्वे प्रथमस्य (6.1.1) इत्यनेन तस्य प्रथम-एकाच्-अवयवस्य द्वित्वे प्राप्ते अनेन सूत्रेण द्वितीय-एकाच्-अवयवस्य द्वित्वं विधीयते । अजादि-शब्दस्य द्वितीय-एकाच्-अवयवः कः अस्ति? शब्दस्य प्रथमस्वरं विहाय द्वितीय-स्वर-पर्यन्तम् यः वर्णसमुदायः, तस्य ‘द्वितीय-एकाच्-अवयवः’ इति संज्ञा भवति । यथा. ‘अटि’ अस्य णिजन्तधातोः ‘टि’ इति द्वितीयः एकाच् अवयवः । ज्ञातव्यम् - 1. अस्य सूत्रस्य अर्थे ‘अनेकाच्’ इति निर्दिष्टमस्ति । अतः अङ्गम् ‘अनेकाच्’ अस्ति अजादि च अस्ति , तत्रैव द्वितीय-एकाच्-अवयवस्य द्वित्वं जायते । यत्र अङ्गम् एकाच् अस्ति तत्र यद्यपि अङ्गमजादिः अस्ति तथापि अस्य सूत्रस्य प्रयोगः न भवति, अतः एकाचो द्वे प्रथमस्य (6.1.1) इत्यनेन प्रथमस्यैव एकाच्-अवयवस्य द्वित्वं भवति । यथा, ‘अट्’ धातोः द्वित्वे कृते प्रथम-एकाच्-अवयवस्य (इत्युक्ते ‘अट्’ इत्यस्यैव) द्वित्वं भवति । 2. मूलसूत्रे ‘द्वितीयस्य’ इति उक्तमस्ति । अयं शब्दः एव अस्य निर्देशकः यत् अङ्गमनेकाच् भवेत् । अतः अत्र सूत्रस्य अर्थे ‘अनेकाच्’ इति निर्दिश्यते ।

Sutrartha (English)

The द्वित्व mandated in the एकाचो द्वे प्रथमस्य (6.1.1) अधिकार happens for the second एकाच् component of an अनेकाच् अजादि word.

Vasu English Summary

Of that whose first syllable begins with a vowel, there are two in the room of the second portion containing a single vowel.

Vasu English Translation

Of that whose first syllable begins with a vowel, there are two in the room of the second portion containing a single vowel. This debars the reduplication of the first syllable. In a verbal root beginning with a vowel, and consisting of more than one syllable, the second syllable is to be reduplicated and not the first. Thus the सनन्त root अटिष, (अट् + सन् = अट् + इट् + सन् (7.2.35) = अटिष), reduplicates the second syllable टिष् and the 3rd per. sing is अटि टिषति, the ष् being elided by (7.4.60): and स changed to ष by (8.3.59). So also अशिशिषति, अरिरिषति ॥ The last form is thus evolved, ॠ + सन् = ऋ + इट् + सन् (7.2.74) = अर + इ + स (7.3.84), and (6.1.51). Here now we have to make reduplication, and if (1.1.59) be applied, then since a vowel affix इ follows, the reduplication of अर should take place i. e. the ॠ the sthani should be reduplicated. But we have explained the sutra द्विर्वचनेऽचि (1.1.59), by the phrase द्विर्वचननिमित्तेऽचि, i. e. the vowel-affix causing reduplication. Here the vowel-affix इट् does not cause reduplication, but the consonant-affix सन् that does so. Therefore rule (1.1.59) does not apply, for इट् itself is a कार्यी, and the maxim applies कार्यमनुभवन्हि कार्यी निमित्ततया नाश्रीयते “surely that which undergoes an operation can, so for as it undergoes that operation, not be made the cause of the application of a grammatical rule”. Thus from the root शीङ् is formed शयिता; here the root शी is gunated before the augment इट्. Rule (1.1.5) declaring the prohibition of gunation with regard to कित् or ङित् words does not apply here. For though शीङ् has an indicatory ङ, yet as it undergoes an operation itself, it cannot be the cause of the application of another rule.

Some persons explain the word अजादेः as the Ablative singular (and not Genitive Singular) of अजादिः and they consider the word as a Karmadharaya compound and not a Bahuvrihi compound. According to them the word means:-“The syllable following the initial vowel is reduplicated”. (अच्चासावादिश्वेत्यजादिः, अजादेरुत्तरस्य एकाचो द्वे भवतः) ॥ According to this interpretation, the word द्वितीयस्य is merely explanatory.

Bhashya

अजादेर्द्वितीयस्य (2439) (5968 द्वितीयस्येति पदाक्षेपवार्तिकम् ॥ 1 ॥) - द्वितीयस्येत्यवचनमजादेरिति कर्मधारयात्पञ्चमी - द्वितीयस्येति शक्यमवक्तुम् । कथम् ? अजादेरिति नैषा बहुव्रीहेः षष्ठी - अज् आदिर्यस्य सोऽयमजादिः - अजादेरिति । किं तर्हि ? कर्मधारयात्पञ्चमी - अच् आदिः - अजादिः, अजादेः परस्येति । तत्रान्तरेण द्वितीयग्रहणं द्वितीयस्यैव भविष्यति ॥ (5969 प्रत्याक्षेपवार्तिकम् ॥ 2 ॥) - द्वितीयद्विर्वचने प्रथमनिवृत्तिः प्राप्तत्वात् - द्वितीयद्विर्वचने प्रथमस्य निवृत्तिर्वक्तव्या । अटिटिषति, अशिशिषतीति । किं कारणम् ? प्राप्तत्वात् । प्राप्नोति एकाचो द्वे प्रथमस्य (6.1.1) इति ॥ ननु च द्वितीयद्विर्वचनं प्रथमद्विर्वचनं बाधिष्यते । कथमन्यस्योच्यमानमन्यस्य बाधकं स्यात् ? असति खल्वपि संभवे बाधनं भवति, अस्ति च संभवो यदुभयं स्यात् ॥ (5970 प्रत्याक्षेपसमाधानवार्तिकम् ॥ 3 ॥) - न वा प्रथमविज्ञाने हि द्वितीयाप्राप्तिरद्वितीयत्वात् - न वा वक्तव्यम् । किं कारणम् ? प्रथमविज्ञाने हि सति द्वितीयस्याप्राप्तिः स्यात् । किं कारणम् ? अद्वितीयत्वात् । न हीदानीं प्रथमद्विर्वचने कृते द्वितीयो द्वितीयो भवति । कस्तर्हि ? तृतीयः । तद्यथा - द्वयोरासीनयोस्तृतीय उपजायमाने न द्वितीयो भवति । कस्तर्हि ? तृतीयः ॥ न हि किंचिदुच्यते - अकृते द्विर्वचने यो द्वितीयस्तस्य भवितव्यमिति । किं तर्हि ? कृते द्विर्वचने यो द्वितीयस्तस्य द्विर्वचनं भविष्यति ॥ अनारम्भसममेवं स्यात् । अटेः प्रथमस्य द्विर्वचनं स्यात्, हलादिः शेषः; द्वितीयस्य द्विर्वचनम्, हलादिः शेषः । त्रयाणामकाराणां पररूपत्वे - अटिषतीत्येवं रूपं स्यात् ॥ नानारम्भसमम् । अटेः प्रथमस्य द्विर्वचनम्, हलादिः शेषः, इत्वम्, द्वितीयस्य द्विर्वचनम्, हलादिः शेषः, इत्वम्, द्वयोरिकारयोः सवर्णदीर्घत्वम्, अभ्यासस्यासवर्णे (6.4.78) इतीयङादेशः, इयटिषतीत्येतद्रूपं यथा स्यात्, ओणेश्चोवोणिषतीति ॥ नानिष्टार्था शास्त्रप्रवृत्तिर्भवितुमर्हति ॥ (5971 प्रत्याक्षेपसमाधाने दृष्टान्तवार्तिकम् ॥ 4 ॥) - यथा वाऽऽदिविकारेऽलोन्त्यविकाराभावः - यथा वा आदिविधावलोन्त्यविधिर्न भवति, एवं द्वितीयद्विर्वचने प्रथमद्विर्वचनं न भविष्यति ॥ विषम उपन्यासः । नाप्राप्तेऽलोन्त्यविधावादिविधिरारभ्यते स तस्य बाधको भविष्यति ॥ इदमप्येवंजातीयकम् । नाप्राप्ते प्रथमद्विर्वचने द्वितीयद्विर्वचनमारभ्यते तद्वाधकं भविष्यति ॥ यदप्युच्यते - असति खल्वपि संभवे बाधनं भवति, अस्ति च संभवो यदुभयं स्यादिति, नैतदस्ति । सत्यपि संभवे बाधनं भवति । तद्यथा - दधि ब्राह्मणेभ्यो दीयतां तक्रं कौण्डिन्यायेति सत्यपि दधिदानस्य संभवे तक्रदानं निवर्तकं भवति । एवमिहापि सत्यपि संभवे प्रथमद्विर्वचनस्य द्वितीयद्विर्वचनं बाधिष्यते ॥ (वार्तिकावतरणभाष्यम्) तत्र पूर्वस्याचो निवृत्तौ व्यञ्जनस्यानिवृत्तिर्वक्तव्या । अटिटिषति - इति । यथैवाचो निवृत्तिर्भवत्येवं व्यञ्जनस्यापि प्राप्नोति ॥ (5972 आक्षेपवारकवार्तिकम् ॥ 5 ॥) - तत्र पूर्वस्याचो निवृत्तौ व्यञ्जनस्यानिवृत्तिरशासनात्पूर्वस्य - तत्र पूर्वस्याचो निवृत्तौ व्यञ्जनस्यानिवृत्तिः सिद्धा । कुतः ? अशासनात्पूर्वस्य । नेह वयं पूर्वस्य प्रतिषेधं शिष्मः । किं तर्हि ? द्वितीयस्य द्विर्वचनमारभामहे । व्यञ्जनानि पुनर्नटभार्यावद्भवन्ति । तद्यथा - नटानां स्त्रियो रङ्गगता यो यः पृच्छति कस्य यूयं कस्य यूयमिति तं तं तव तवेत्याहुः । एवं व्यञ्जनान्यपि यस्य यस्याचः कार्यमुच्यते तं तं भजन्ते ॥ (5973 व्यञ्जनानिवृत्तौ हेतुवार्तिकम् ॥ 6 ॥) - न्द्रादिप्रतिषेधाच्च - यदयं न न्द्राः संयोगादयः (6.1.3) इति प्रतिषेधं शास्ति तज्ज्ञापयत्याचार्यः - पूर्वनिवृत्तौ व्यञ्जनस्यानिवृत्तिरिति ॥ (5974 पूर्वपक्षवार्तिकम् ॥ 7 ॥) - तत्र द्वितीयाभावे प्रथमाद्विर्वचनं प्रतिषिद्धत्वात् - तत्र द्वितीयस्यैकाचोऽभावे प्रथमस्य द्विर्वचनं न प्राप्नोति । आटतुः, आटुः । किं कारणम् ? प्रतिषिद्धत्वात् । अजादेर्द्वितीयस्येति प्रतिषेधात् ॥ (पूर्वपक्षसमाधानभाष्यम्) नैष दोषः । सति तस्मिन्प्रतिषेधः । सति द्वितीयद्विर्वचने प्रथमस्य प्रतिषेधः ॥ (5975 प्रत्याक्षेपवार्तिकम् ॥ 8 ॥) - सति तस्मिन् प्रतिषेध इति चेद्धलादिशेषे दोषः - सति तस्मिन् प्रतिषेध इति चेद्धलादिशेषे दोषो भवति । हलादिशेषे सत्याद्ये हल्यनाद्यस्य हलो लोपः स्यात् । इहैव स्यात् - पपाच पपाठेति । इह न स्यात् - आटतुः, आटुरिति ॥ (5976 प्रत्याक्षेपवारकवार्तिकम् ॥ 9 ॥) - लोकवद्धलादिशेषे - लोकवद्धलादिशेषे सिद्धम् । तद्यथा - लोके इर्श्वर आज्ञापयति - ग्रामाद्ग्रामान्मनुष्या आनीयन्ताम्, प्रागाङ्गं ग्रामेभ्यो ब्राह्मणा आनीयन्तामिति । येषु तत्र ग्रामेषु ब्राह्मणा न सन्ति न तर्हीदानीं ततोऽन्यस्यानयनं भवति । यथा तत्र क्वचिदपि ब्राह्मणस्य सत्ता सर्वत्राब्राह्मणस्य निवर्तिका भवति, एवमिहापि क्वचिदपि हलाद्यः सन् सर्वस्यानाद्यस्य हलो निवर्तको भवति ॥ (5977 प्रत्याक्षेपवार्तिकम् ॥ 10 ॥) - क्वचिदन्यत्र लोप इति चेत् द्विर्वचनम् - क्वचिदन्यत्र लोप इति चेद् द्विर्वचनमप्येवं प्राप्नोति । क्वचिदपि द्वितीयः सन् सर्वस्य प्रथमस्य निवर्तकः स्यात् ॥ (सिद्धान्तभाष्यम्) तस्मादस्तु सति तस्मिन् प्रतिषेध इत्येव । ननु चोक्तं सति तस्मिन् प्रतिषेध इति चेद्धलादिशेषे दोष इति । प्रतिविधास्यते हलादिशेषे ॥

Kashika

प्रथमद्विर्वचनापवादोऽयम्। अजादेर्द्वितीयस्यैकाचो द्विर्वचनमधिक्रियते। अच् आदिर्यस्य धातोस्तदवयवस्य द्वितीयस्यैकाचो द्वे भवतः। अटिटिषति। अशिशिषति। अरिरिषति। अर्तेः स्मिपूङ्रञ्ज्वशां सनि (७.२.७४) इतीट् क्रियते। तस्मिन् कृते गुणे च रपरत्वे च द्विर्वचनेऽचि (१.१.५९) इति स्थानिवद्भावः प्राप्नोति। तत्र प्रतिविधानं द्विर्वचननिमित्तेऽचीत्युच्यते। न चात्र द्विर्वचनानिमित्तमिट्। किं तर्हि? कार्यी। न च कार्यी निमित्तत्वेनाश्रीयते। तथा हि क्ङिन्निमित्तयोर्गुणवृद्ध्योः प्रतिषेधो विधीयमानः शयितेत्यत्र न भवति, न हि कार्यिणः शीङो गुणं प्रति निमित्तभाव इति। अत्र केचिदजादेरिति कर्मधारयात् पञ्चमीमिच्छन्ति — अच्चासावादिश्चेत्यजादिः, तस्माद् अजादेरुत्तरस्यैकाचो द्वे भवत इति। तेषां द्वितीयस्येति विस्पष्टार्थं द्रष्टव्यम्॥

Siddhanta Kaumudi

इत्यधिकृत्य ॥

Tattvabodhini

अजादेर्द्वितीयस्य - यदि बहुव्रीहेः षष्ठी तदा इन्द्रमात्मन इच्छति इन्द्रीयति, इन्द्रीयितुमिच्छति इन्दिद्रीयिषतीत्यत्र दकारस्यनन्द्राःर॑ इति द्वित्वनिषेधः स्यात्, किंतु अञ्चासावादिश्चाऽजादिस्तस्मादिति कर्मधारयादेषापञ्चमी ।

Padamanjari

प्रथमद्विर्वचनापवादोऽयमिति। ननु विरोधे समानफलत्वे च बाध्यबाधकभावः, यथा -ठष्टश्रिर्यूपः कर्तव्यो वाजपेयस्य चतुरश्रिःऽ इत्यष्टाश्रित्वचतुरश्रित्वयोर्तथा नैवारश्चरुर्नखावपूतानामिति नखावपनेन वैतुष्यफलकेन तत्फलकोऽवघातो बाध्यते, नखैस्चोलूखलमुसलम्; यत्र त्वेतदुभयं न भवति न तत्र बाधः, यथा -कृत्कृत्यप्रत्ययसंज्ञानाम्, यथा वा -तद्धिततद्राजप्रत्ययसंज्ञानाम्। इह तु न समानफलत्वम्; फलस्य कस्यचिदभावात्, अस्ति च सभ्भवो यदुभयं स्यात्? स्यादेतत् -द्वयोरासीनयोर्मध्ये कस्मिश्चिदुपविष्टे द्वितीयस्तृतीयो भवति, तथा प्रथमे द्विरुक्ते द्वितीयस्तृतीयो भवतीत्यस्त्येवाक्षत्राप्ससम्भाव इति, स्यादप्येवम्, यदि प्रथमद्विर्वचनमेव नियोगतः पूर्वं स्यात्, किञ्च नात्रौत्पतिकस्य द्वितीयस्य द्विर्वचनमुच्यते, किं तर्हि? द्वितीयमात्रस्य, ततः किम्? प्रथमे द्विरुक्ते यो द्वितीयस्तस्य भविष्यति। नन्वेवमनारम्भसमं स्यात्, कथमटेः सन्, प्रथमस्य द्विर्वचनम्, अटाट् इति स्थिते हलादिःशेषश्च प्राप्नोति, द्वितीयद्विर्वचनं च, परत्वान्नित्यत्वाच्च हलादिःशेषः, ततो द्विर्वचनम्, आअट अट् इति स्थिते हलादिशेषे त्रयाणामकाराणामतो गुणे पररुपत्वेऽटिषतीत्येतद्रूपं स्याद्, अकृतेऽपि द्विर्वचने एतदेव रूपम्, द्वयोरकारयोः पररूपमित्येतावद् नानारम्भसमम्, कथम्? प्रथमं द्विर्वचनम्, हलादिःशेषः, आअट् इति स्थिते’सन्यतः’ इतीत्वं च प्राप्नोति द्विर्वचनं च, द्वयोर्नित्ययोः परत्वादित्वम्। नन्वित्वं सनमभ्यासं चापेक्षत इति बहिरङ्गम्, ततः किम्? अन्तरङ्गम् ठतो गुणोऽ इति पररूपत्वं प्राप्नोति, समानाश्रये च वार्णादाङ्गं बलीय? एवं तर्हि कृतेऽपि पररूपे तरयान्तवद्भावादित्वं प्राप्नोति, अकृते चेति नित्यत्वं परत्वं चेति द्वे तस्य प्राबल्यकारणे। पररूपस्य त्वन्तरङ्गत्वमेकमेवेतीत्वमेव तावद् भवति। सति तु तस्मिन् ठभ्यासस्यासवर्णेऽ इतीयङ् च प्राप्नोति द्विर्वचनं च, तत्र द्विर्वचनमियङ् कृते यिङ्त्यिस्य प्राप्नोति; अकृते त्वङ्त्यिस्येति शब्दान्तरप्राप्त्याऽनित्यम्, तेन परत्वान्नित्यत्वाच्चेयैङ् कृते यङ्शब्दस्य द्विर्वचने हलअदिः शेषः, इत्वम्, इयियटिषति, ओणेः -उवुवोणिषतीति भवति। असति द्वितीये द्विर्वचने -इयटिषति, उवोणिषतीति भवतीति नानारम्भसाम्यम् । एवं तर्हि ठनभ्यासस्यऽ इति निषेधादेकस्मिन् द्विरुक्ते नापरो द्विर्वक्तुअं शक्यत इत्यस्यैवासम्बवः। अथ वा -सामान्यविहितस्य विशेषविहितं सत्यपि सम्भवे बाधकं भवति, तद्यथा -दधि ब्राह्मणेभ्यो दीयतां तक्रं कौण्कडिन्यायेति। ओदनसेकाख्यस्य फलस्य समानत्वादत्र दधिबाध इति चेद्? इहापि तर्ह्यर्थाभिधानाख्यं फलमेकम्, अर्थाभिधानाय हि द्विरुच्चारणम्, तच्चैकेनैव साध्यते। अथ रूपविशेषाख्यं फलं भिन्नम्, अन्यद्धि रूपं प्रथमस्य द्विर्वचने, अन्यच्च द्वितीयस्य ? इतरत्रापि तृप्तिविशेषाख्यं फलं भिद्यते, अन्या हि दध्नस्तृप्तिरन्या हि तक्रस्य, अतो नाप्राप्ते तस्मिन्नारभ्यमाणत्वमेव बाधनिबन्धनम्, नासम्भवः, सामान्यशब्दा हि विशेषशब्दसन्निधौ तत्रैवोपसंह्रियन्ते, ततोऽन्यत्र वा, यथा -वसिष्ठो ब्राह्मणः, ब्राह्मणाः आयाता वसिष्ठोऽप्यायात इति। ननु कौण्डिन्यस्यापि ब्राह्मणत्वाद् दधि प्राप्तम्, इह तु प्रथमस्योच्यमानं द्विर्वचनं द्वितीयस्य न प्राप्नोतीति कथं येन नाप्राप्तिः? न क्रमो द्वितीयस्य प्राप्तमिति; किन्तु धातुसामान्यविहितं प्रथमद्विर्वचनमजादेर्धातोः प्राप्तमिति; तत्र दधितक्राख्यं विधेयं भिद्यते, इह तु कार्यं भिद्यते, विधेयं द्विर्वचनमेकमित्येतावान् विशेषः। यद्वा-तत्रापि दानमेव विधेयं तस्य तु देयभेदाद् भेदः, इहापि कार्यिबेदाद्भेदः, तद्दमुक्तम् -प्रथमद्विर्वचनापवादोऽयं द्वितीयद्विर्वचनमिति। सर्वथा प्रथमद्विर्वचनं द्वितीयद्विर्वचनेन बाध्यते। यद्यंवम्, यथाभूतस्यैकाचः प्रथमद्विर्वचनं प्राप्तं तथाभूतस्यैवद्वितीयद्विर्वचनं बाधकं स्यात्, सव्यञ्जनस्यैतत्प्राप्तमिति तेन सहव्यञ्कजनानामप्यनावृत्तिप्रसङ्गः? स्यादेवं यद्यजादिषु प्रथमस्यैकाचः किञ्चिद्विहितं प्रतिषिद्धं वा भवेत्, इह तु विशेषसन्निधौ सामान्यशब्दस्य ततोऽन्यत्र वृतेरजादिषु प्रथमद्विर्वचनरूपाप्रतीतत्वादप्राप्त्यनुमानमेव बाधः। व्यञ्जनानि च यदा यस्य कार्थं तदा तदङ्गानीति द्वितीयैकाच्यन्तर्भावातेन सह द्विर्वचनं केन वार्यते! अत्र च लिङ्गम्’न न्द्राः’ इति प्रतिषेधः। अथेयाय, आरेत्यादौ केन द्विर्वचनम्? न तावदनेनाद्वितीयत्वात्, नापि पूर्वेणाजादिषु तस्याप्रवृतेः, यत्रैतदप्रवृत्तिः, यत्र तु द्वितीयाभावादेतन्न प्रवर्तते न तत्र तस्य प्रवृत्तिर्वार्यते ? तत्रापि वार्यते, अजादेरिति सामान्यनिर्द्देशात्। सामान्यनिर्द्देशे हि क्वचिदपि द्वितीयवत्यां व्यक्तौ सर्वत्र बाधेत, यथा हलादिःशेषे वक्ष्यते -ठ्क्वचिदपि प्रवर्तमानो हलादिःशेषः सर्वत्र निवृत्तिं करोतिऽ इति? नैष दोषः; जात्योपलक्षिता व्यक्तिः प्राधान्येनेह गृह्यते। द्वितीयवत्यामेवेदं व्यक्तौ तेन प्रवर्तते ॥ प्रवर्तते च यत्रेदं तत्र पूर्वं निवर्तते। जातिर्हलादिशेषे तु प्राधान्येन समाश्रिता ॥ इति। गुणे चेति। नित्यत्वात्परत्वाच्च। स्थानिवद्भावः प्राप्नोतीति। ततश्च इस इत्यस्य द्विर्वचने हलादिःशेषे च दीर्घत्वे सति अरीषतीति प्रसङ्गः। न चात्र द्विर्वचनमनिमितमिडिति। यत्र परतो द्विर्वचनमुच्यते, तदेव तस्य निमितमिति भावः। कि तर्हि कार्यीति।’सन्यङेः’ इति षष्ठ।लश्रयणात्। ततः किम्? इत्याह न चेति। तद्भावभावित्वे सत्यपि कायिणः सप्तमीनिर्द्देशाबावान्न निमितत्वं शास्त्रे स्थितमित्यर्थः। अवश्यं चैतदेवं विज्ञेयमित्याह -तथा हीति। गुणवृद्ध्योरिति।’क्ङिति च’ इत्यत्र वृद्धेरपि प्रतिषेधाद् गुणवृद्ध्योरित्युक्तम्। शयितेत्यत्र न भवतीति। गुणस्य प्रतिषेधः। क्वचितु -शायक इत्यपि पठ।ल्ते, तदयुक्तम्, अप्रकृतित्वादत्र वृद्धेः। यथा चोतरग्रन्थे गुणग्रहणमेव कृतम् । तेषां द्वितीयस्येति विस्पष्टार्थमिति।’तस्मादित्युक्तरस्य’ इत्यनन्तरस्य द्विरीयस्यैव भविष्यति, न तृतीयादेः। यदा तु बहुव्रीहेः षष्ठी-अजादिर्यस्य धातोरिति, तदा सामर्थ्यादप्रथमार्थेऽप्यारम्भे तृतीयादेरपि प्रसङ्गः ॥

Nyaas

प्रथमद्विर्वचनापवादोऽयम् इति। ननु च एकाचो द्वे प्रथमस्य (6.1.1) इत्यनेन प्रथमस्यैकाचो द्विर्वचनं विधीयते, अजादेर्द्वितीयस्य (6.1.2) इत्यनेन तु द्वितीयस्य; तत्? कथमन्यस्योच्यमानमिदमन्यस्य बाधकं स्यात्? सति खलु सम्भवे बाधकं भवति, अस्ति च सम्भवो यदुभयं स्यात्। स्यादेतत् -घातोरित्येषा षष्ठी, तसया द्वितीयेनैकाचा प्रथमेन च सम्बन्धो नोपपद्यते, अतो नास्त्युभयसम्भव इति? एतच्च नास्ति; अन्यद्धि वाक्यं प्रथमद्विर्वचनस्य विधायकम्, अन्यचच द्वितीयद्विर्वचनस्य। तत्र वाक्यबेदे च सति किमिति सम्बन्धो नोपपद्यते, तस्मात्? कृतेऽपि द्वितीयद्विर्वचने प्रथमद्विर्वचनं सम्भवत्येवेत्युक्तं बाधनम्? नैष दोषः; इह द्वीपम्, अन्तरीपमित्यत्र द्व्यन्तरुपसर्गेभ्योऽप ईत् (6.3.97) इतीत्त्वम्, अलोऽन्त्यस्य (1.1.52) इत्यनैनान्तस्यालः प्राप्तम्? आदेः परस्य (1.1.54) इत्यनेनादेर्विधीयते, तत्र यथा सत्यपि सम्भवेऽनन्त्यविकारोन्त्यविकारं बाधते, तथा द्वितीयद्विर्वचनं प्रथमद्विर्वचनं बाधिष्यते। यदि तर्हि प्रथमस्यैकाचो द्विर्वचनमनेन बाध्यते, व्यञ्जनस्यापि प्रथमद्विवचनसम्बन्धिनो द्विर्वचनं बाध्येत। तद्यथाभूतस्यैव प्रसङ्गस्तथाभूतस्यैव द्विर्वचननिवृत्तिर्भवति। किम्भूतस्य च प्रथमद्विर्वचनस्य प्रसङ्गः? सव्यञ्जनस्य। तत्र यथा प्रथमस्यैकाचो द्विर्वचनं न भवति, एवमेकाज्व्यपदेशिनो व्यञ्जनस्यापि न स्यात्? नैष दोषः; यदयं न न्द्राः संयोगादयः (6.1.3) इति प्रतिषेधं शास्ति, तज्ज्ञापयति -व्यञ्जनस्य द्विर्वचननिवृत्तिर्न भवति। अन्यता हि नदराणां द्विर्वचनप्रतिषेधोऽनर्थकः स्यात्, प्राप्त्यभावात्। अटिटिषति; अशिशिषति इति। अटेरशेश्च सनीटि कृते टिष्शबदः, शिष्शब्दश्च द्विरुच्यते। अरिरिषति इति अर्त्तेः सन्निङ्गुणरपरत्वेषु कृतेषु रिष्शब्दो द्विरुच्यते। स्थानिवद्भावः प्राप्नोति इति। सन्यङोः (6.1.9) इत्यनेन सन्नन्तस्य द्विर्वचनमुच्यते, इट्? च सम्भक्तः। तस्मादसौ द्विर्वचनस्य निमित्तमित्यभिप्रायः। स्थानिवद्बावे च सति रेफरहितस्येषो द्विर्वचने कृते सवर्णदीर्घत्वे चारीषतीत्यनिष्टं रूपं स्यात्। कार्यी इति। द्विरुक्तिरेव कार्यम्, तदस्यास्तीति कार्यी। स्यादेतत् -यद्यप्यसौ कार्यी तथापि कार्ये। स्यादेतत् -यद्यप्यसौ कार्यी तथापि कार्यं प्रति निमित्तमेवेत्यादह -न च इत्यादि। कथं पुनज्र्ञायते एतत्? कार्यी निमित्तत्वेनाश्रीयते इति? अत आह -तथा हि इत्यादि। तथा हीति यस्मादित्यर्थे। इतिकरणः प्रकारे। यस्मात्? क्ङिन्निमित्तयोः गुणवृद्ध्योः क्ङिति च (1.1.5) इति प्रतिषेधो विधीयमानः शयितेत्येवम्प्रकारविषये न भवति, ततो ज्ञायते -न हि कार्यी निमित्तत्वेनाश्रीयत इति। यदि ह्राश्रीयेत, तदा शीङो ङित्वात्? तन्निमित्ताच्च गुणवृद्ध्योः क्ङिति च (1.1.5) इति विधीयमानः शयितेत्यत्र गुणप्रतिषेधश्च स्यात्, शायक इत्यत्र वृद्धिप्रतिषेधश्च। ननु च येन विना यन्न भवति तत्? तस्य निमित्तम्, यथा -वृष्टेर्मेघः। यथा च प्रत्ययेन विना गुणवृद्धी न भवतस्तथा कार्येणापि; तत्? कथं शीङो गुणबुद्धिप्रतिषेधो नेह भवति? इत्यत आह -न हि कार्यिणः इत्यादि। अत्राश्रीयत इत्यध्याहर्यम्। सत्यम्, कार्यपि शीङ्निमितम्, तस्य गुणं प्रति वृदिंध द्रष्टव्यम्। इतिकरणोऽनन्तरोऽस्यप्रतिविधानस्य स्वरूपं दर्शयति। कथं पुनज्र्ञायत#ए -न हि कार्यी निमित्तत्वेनाश्रीयत इति? दीधीवेवीटाम् गुणवृद्ध्योः क्ङिति च (1.1.5) इति फार्यो प्रतिषेधः सिद्ध #एवेति तयोर्गुणप्रतिषेधोऽनर्थकः स्यात्। अत्र केचिदजादेरिति कर्मधारयात्? पञ्चमीमिच्छन्ति इति। अच्चासावादिश्चेत्यजादिः, तस्मादजादेः इति। एवं वर्णयन्तः कर्मधारयात्? पञ्चमीमिच्छन्ति। यदि तर्हि कर्मधारयादियं पञ्चमी तेषां द्वितीयग्रहणमनर्थकम्; यस्मात्? तृतीयस्य प्राप्तिरेव नास्ति। येषां बहुव्रीहेरियं षष्ठभिमता, तेषामक्रियमाणे द्वितीयग्रहणे तृतीयस्यापि द्विर्वचनं प्राप्तिरेव नास्ति। येषां बहुव्रीहेरियं षष्ठभिमता, तेषामक्रियमाणे द्वितीयग्रहणे तृतीयस्यापि द्विर्वचनं प्राप्नोतीति तन्निवृत्त्यर्थं युक्तं द्वितीयग्रहणम्। येषां च कर्मधारयादियं पञ्चम्यभिमता तेषां द्वितीय ग्रहणमनर्थकम्; तस्मादित्युत्तरस्य (1.1.67) इत्यनेनानन्तरस्यैव द्वितीयस्य भविष्यति, न तृतीयस्य, व्यवहितत्वात्? इत्यत आह -तेषाम्` इत्यादि॥

Prakriyasarvasvam

अजादेर्धातोर्द्वितीयस्यैकाज्भागस्य द्वे स्तः, न प्रथमस्य ।

Sutra Prayogas

  • ऊर्णुनाव (शिशुपालवधम्): अजादेर्द्वितीयस्य इति द्वितीयस्याचो द्विर्भावः।

  • तावौजिहतां (भट्टिकाव्यम्): अजादेर्द्वितीयस्य इति द्विर्वचनम्।

  • जाताऽञ्जिहिषस्तदाऽसा- (भट्टिकाव्यम्): अजादेर्द्वितीयस्य इति हिशब्दो द्विरुच्यते।

  • चाऽर्पिपः (भट्टिकाव्यम्): अजादेर्द्वितीयस्य इति पिशब्दो द्विरुच्यते।

  • प्रौर्णोनूयत (भट्टिकाव्यम्): अजादेर्द्वितीयस्य इति द्विर्वचने।